________________
युगप्रधानाचार्यगुर्वावली ।
३
आगन्तुकमुनिभिः सह स्थानस्थिता मुनयो विचारं विधातुकामास्तिष्ठन्ति । स च विचारो न्यायवादिराजप्रत्यक्षं क्रियमाणः शोभते । ततः पूंज्यैः प्रत्यक्षैर्भवितव्यं विचारप्रस्तावे प्रसादं कृत्वा' । ततो राज्ञाऽभाणि - 'युक्तमेव कर्तव्यमस्माभिः ।
ततश्चिन्तिते दिने तस्मिन्नेव देवगृहे श्री सूरा चार्य प्रभृतिचतुरशीतिराचार्याः स्वविभूत्यनुसारेणोपविष्टाः । राजाऽपि प्रधानपुरुषैराकारितः । सोऽप्युपविष्टः । राज्ञोक्तम्- 'उपरोहित ! आत्मसम्मतानाकारय' । ततः स तत्र गत्वा 'विज्ञपयति श्रीवर्धमानसूरीन्-'सर्वे मुनीन्द्रा उपविष्टाः सपरिवाराः । श्रीदुर्लभराजश्च पञ्चाशरीयदेवगृहे । युष्माकमागमनमालोक्यते । तेऽप्याचार्याः पूजितास्ताम्बूलदानेन राज्ञा' । तच्छुखोपरोहितमुखात् पश्चाच्छ्रीवर्द्धमानसूरयः श्रीसुधर्मस्वामिजम्बूस्वामिप्रभृतिचतु न् युगप्रधानान् सूरीन् + हृदये धृत्वा पण्डित श्रीजिनेश्वरेंप्रभृतिकतिचिद्गीतार्थसुसाधुभिः सह चलिताः सुशकुनेन । तत्र प्राप्ताः, नृपतिना दर्शिते स्थान उपविष्टाः, पण्डित जिनेश्वरदत्त निषद्यायाम् । आत्मना च गुरुभणितोचितासने गुरुपादान्त उपविष्टः । राजा च ताम्बूलदानं दातुं प्रवृत्तः । ततः सर्वलोकसमक्षं भणितवन्तो गुरवः - 'साधूनां ताम्बूलग्रहणं न युज्यते राजन् !" । यत उक्तम्
ब्रह्मचारियतीनां च विधवानां च योषिताम् । ताम्बूलभक्षणं विप्रा ! गोमांसान्न विशिष्यते ॥ [ ३ ] ततो विवेकिलोकस्य समाधिर्जाता गुरुषु विषये । गुरुभिर्भणितम् - एष पण्डितजिनेश्वर उत्तरप्रत्युत्तरं यद्भणिष्यति तदस्माकं सम्मतमेव ।' सर्वैरपि भणितं 'भवतु' । ततो मुख्यसूराचार्येणोक्तम्- 'ये वसतौ वसन्ति मुनयस्ते षड्दर्शन बाह्याः प्रायेण । षड्दर्शनानीह क्षपणकजटिप्रभृतीनि - इत्यर्थनिर्णयाय नूतनवादस्थल पुस्तिक वाचनार्थं गृहीता करे । तस्मिन् प्रस्तावे “भाविनि भूतवदुपचारः" इति न्यायाच्छ्रीजिनेश्वरसूरिणा भणितम् -'श्रीदुर्लभमहाराज ! युष्माकं लोके किं पूर्वपुरुषविहिता नीति: प्रवर्तते, अथवा आधुनिकपुरुषदर्शिता नूतना नीति: १' । । ततो राज्ञा भणितम् -'अस्माकं देशे पूर्वजवणिता राजनीतिः प्रवर्तते नान्या' । ततो जिनेश्वरसूरिभिरुक्तम्- 'महाराज ! अस्माकं मतेऽपि यद् गणधरैश्चतुर्दश पूर्वधरैश्च यो दर्शितो मार्गः स एव प्रमाणीकर्तुं युज्यते, नाऽन्यः । ततो राज्ञोक्तं युक्तमेव । ततो जिनेश्वरसूरिभिरुक्तम्- 'महाराज ! वयं दूरदेशादागताः, पूर्वपुरुषविरचित स्वसिद्धान्त पुस्तकवृन्दं नानीतम् । एतेषां मठेभ्यो महाराज ! यूयमानयत पूर्वपुरुषविरचित सिद्धान्तपुस्तकगण्डलकं येन मार्गामार्गनिश्चयं कुर्मः" । तैंतो राज्ञोक्तास्ते- 'युक्तं वदन्त्येते, स्वपुरुषान् प्रेषयामि, यूयं पुस्तकसमर्पणे निरोपं ददध्वम्' । ते च जानन्त्येषामेव पक्षो भविष्यतीति, तूष्णीं विधाय स्थितास्ते । ततो राज्ञा स्वपुरुषाः प्रेषिताः - शीघ्रं सिद्धान्त पुस्तकगण्डलकमानयत । शीघ्रमानीतम् । आनीतमात्रमेव छोटित । तत्र देवगुरुप्रसादाद् दशवैकालिकं चतुर्दशपूर्वधरविरचितं निर्गतम् । तस्मिन् प्रथममेवेयं गाथा निर्गता
अन्नहं पगडं लेणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं ॥
[४]
एवंविधायां वसतौ वसन्ति साधवो न देवगृहे । राज्ञा भावितं युक्तमुक्तम् । +सर्वेऽधिकारिणो विदन्ति निरुत्तरी
१ 'विचारं करिष्यन्ति' इत्येव प्र० । २ 'पूज्याः प्रत्यक्षा भवितव्यं' इति मूला ० | + दण्डान्तर्गतपाठस्थाने प्र० 'विज्ञप्ता वर्द्धमानाचार्याः सर्वे उपविष्टाः सन्ति' इत्येव वावयविन्यासः । ३ 'पश्चात् ' नास्ति प्र० । + प्र० ' सुधर्मस्वाम्यादियुग प्रधानानन्' इत्येव । ४ जिनेश्वरगणि प्रभृति' । ५ जिनेश्वरगणिदत्त' । ६ 'पुस्तिका करे धृता' इत्येव प्र० । ७ 'प्रस्तावे जिनेश्वरसूरिणा भणितं भो राजन् ' इत्येव प्र० । ८ 'पूर्वराजनीतिः' प्र० । ९ 'जिनेश्वरेणोक्तं राजन् ' । १० 'विरचितानि पुस्तकादीनि नानीतानि । ११ ° सिद्धान्तपुस्तकं येन मार्गनिश्चयं कुर्मः । १२ 'ततो' नास्ति । १३ तूष्णीं स्थिताः । १४ ' राज्ञा स्वपुरुषाः प्रेषिताः । शीघ्रं पुस्तकान्यानीतानि । छोटितानि' इत्येष पाठः प्रत्यन्तरे । १५ तत्रेयं गाथा । + एतच्चिहाङ्कितपाठस्थाने प्र०-६ - 'सर्वैरधिकारिपुरुषैर्विदितं निरुत्तरीभूता अस्मद्गुरवः । ततः सर्वै राजप्रत्यक्षं गुरुत्वेन वर्द्धमानसूरयोऽङ्गीकृताः । येनास्मान् बहुमन्यते राजा' । इत्येषा पंक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org