________________
खरतरगच्छालंकार
" सो म ध्वजः " । स जटाधरस्तुष्टः । भक्तिर्बह्वी कृता । ततस्तेनैव संघातेन चलिताः क्रमेणा ने हि लपत ने प्राप्ताः । उत्तरिता मण्डपिकायाम् । तस्मिन् प्रस्तावे तत्र प्राकारो नास्ति, सुसाधुभक्तः श्रावकोऽपि नास्ति यः स्थानादि याच्यते । तत्रोपविष्टानां घर्मो निकटीभूतः । ततः पैंण्डितजिनेश्वरेणोक्तम्- 'भगवन्नुपविष्टानां किमपि कार्य न भविष्यति' । 'तर्हि सुशिष्य, किं क्रियते ?' । 'यदि यूयं वदथ तदोच्चैर्गृहं दृश्यते तत्र व्रजामि' । व्रज । ततो वन्दिखा सुगुरुपादपद्मा गतस्तत्र । तच्च गृहं श्रीदुर्लभराज्ञैः पुरोहितस्य । तस्मिन् प्रस्तावे स उपरोहितः शरीराभ्यङ्गं कारयस्तिga, dears स्थित्वा
श्रिये कृतनतानन्दा विशेषवृषसङ्गताः । भवन्तु तव विप्रेन्द्र ! ब्रह्म - श्रीधर - शङ्कराः ॥
[२] इत्याशिर्वादं पठितवान् । ततस्तेन तुष्टो वक्तिं । विचक्षणो व्रती कश्चित् । तस्यैव गृहमध्यप्रदेशे छात्रान् वेदपा - उपरिचिन्तनं कुर्वतः श्रुखा 'इत्थं मा भणत वेदपाठान्' । 'किं तर्हि ?" ' इत्थम्' । ततः पुरोहितेनोक्तम्- 'अहो ! शूद्राणां वेदेऽधिकारो नास्ति' । ततः पण्डितेनोक्तम्- 'वयं चतुर्वेदिनो ब्राह्मणाः, सूत्रतोऽर्थतश्च' । ततस्तुष्टः 'पुरोहितः । 'कस्माद्देशादागताः ?' 'ढिल्ली देशा त्' । 'कुत्र स्थिताः स्थ ?' शुङ्कशालायाम् । अन्यत्र स्थानं न लभ्यते, विरोधिरुद्धत्वात् । मदीया गुरवः सन्ति सर्वे ] अष्टादश यतिन:' । 'चतुःशालमगृहे परिच्छदां बद्धा, एकस्मिन् द्वारे प्रविश्यैकस्यां शालायां तिष्ठतः (थ) सर्वे सुखेन । भिक्षावेलायां मदीये मानुषेऽग्रे कृते ब्राह्मणगृहेषु सुखेन भिक्षा भविष्यति' । ततः प त्त ने लोके उच्छलिता वार्ता ' वसतिपाला यतयः समायाताः । ततो देवगृहनिवासिवतिभिः श्रुतम् । नैर्विदितं नैषामागमनं श्रेयस्करम् । कोमलो व्याधियदि च्छिद्यते तदा कुशलम् । ते चाधिकारिपुत्रान् पाठयन्ति । तैश्च वर्षोपलादिदानेन ते चट्टाः सुखिनः कृत्वा भणिताः - 'युष्माभिर्लोकमध्ये भणनीयम् - " एते केचन परदे - शान्मुनिरूपेण श्रीदुर्लभराजराज्यहेरिका आगताः सन्ति" । सा च वार्ता सर्वजने प्रवृत्ता । सा च प्रसरन्ती राजसभायामपि 'प्रवृत्ता । राज्ञाऽभाणि - ' यद्यत्रैवंविधाः क्षुद्रा आयाताः, तर्हि तेषामाश्रयः केन दत्तः १' केनाऽप्युक्तम्- 'देव ! वैव गुरुणा स्वगृहे धारिताः । ततो राज्ञोक्तमाकारय तम् । आकारित उपरोहितः, भणितश्च - ' यद्येवंविधा एते किमिति स्थानं दत्तम् ?' । तेन भणितम्- 'केनेदं दूषणमुद्भावितम् १, यद्येषां दूषणमस्ति तदा लक्षपारुस्थैः कर्पटिकाः प्रक्षिप्ताः । यद्येषां मध्ये दूषणमस्ति तदा छुपन्तु तां भणितारः' । परं न सन्ति केचन । ततो भणितं राज्ञः पुर उपरोहितेन - 'देव ! सन्ति ते दृष्टा मूर्तिमन्त एव धर्मपुञ्जा लक्ष्यन्ते न तेषां दूषणमस्ति' । तत इमां वार्तामाकर्ण्य सर्वैरपि सूरा - चार्यप्रभृतिभिः परिभावितम् -' वादे निर्जित्य निस्सारयिष्यामः परदेशागतान् मुनीन्" । ततस्तरुपरोहित उक्तः - 'खगृहधृतयतिभिः सह विचारं कर्तुकामा आस्महे । तेषां पुरस्तेनोक्तम्- 'तान् पृष्ट्वा यत्स्वरूपं तद्भणिष्यामि । तेनापि खसदने गत्वा भणितास्ते- 'भगवन्तो ! विपक्षाः श्रीपूज्यैः सह विचारं कर्तुं समीहन्ते' । तैरुक्तम्- 'युक्तमेव परं त्वया न भेतव्यम्' । इदं भणितव्यास्ते - 'यदि यूयं तैः सह विवदितुकामास्तदा ते श्रीदुर्लभराजप्रत्यक्षं यत्र भणिष्यथ तत्र विचारं करिष्यन्ति' । तैश्चिन्तितं सर्वेऽधिकारिणोऽस्माकं वशंगता न तेभ्यो भयम् भवतु राजसमक्षं विचारः । ततोऽस्मिन् दिने पञ्चाशय बृहद्देवगृहे विचारो भविष्यतीति निवेदितं सर्वेषां पुरः । उपरोहितेनाप्येकान्ते नृपो भणितः - 'देव !
1
२
१' अनघिल' इति आदर्शे । २ श्राद्धोऽपि । ३ 'पण्डित' शब्दो नास्ति प्र० । ४ नास्ति पदमेतत् प्र० । ५ प्र० राजपुरोहितस्य । ६ मूलादर्शे 'उपरोहित' इति सर्वत्र । ७वो भवन्तु च । ८ तुष्टश्चित्ते । ९° पादपरावर्तनं । १० पदान् । ११ किं नहीत्थम् । १२ पदमिदं नास्ति प्र० । १३ प्र० 'स तुष्टः' इत्येव पदम् । कोष्ठकान्तर्गता पतिः पतिता मूलादर्शे, प्रत्यन्तरादत्रानुसन्धिता । १४ ' पत्तने' नास्ति प्र० । १५ सुखकरम् । १६ मूलादर्शे 'वर्षोलकादि' । १७ 'राजकुले प्रसृता' इत्येव प्र० । १८ तत उक्त राज्ञोऽग्रे । १९ 'मुनीन्' नास्ति प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org