________________
युगप्रधानाचार्यगुर्वावली ।
१९ करोतीति सन्देहद्वयं प्रच्छनीयमन्यत्सर्व भव्यम् । पश्चाद् यत् कथयिष्यति तत् करिष्यामि। अग्रे श्रीपूज्यैर्वागडदेशे स्थितैर्ये धारायां प्रेषिता आसन् ते सर्वेऽप्यानायिताः, सिद्धान्तं श्राविताः । ततः स्वदीक्षितो जीवदेवाचार्यो मुनीन्द्रपदे निवेशितः । तथा दश वाचनाचार्याः कृताः । वा०जिनचक्रित (चन्द्र ?) गणिः, वा० शीलभद्रगणिः, वा० स्थिरचन्द्रगणिः, वा० ब्रह्मचन्द्रगणिः, वा० विमलचन्द्रगणिः, वा० वरदत्तगणिः, वा० भुवनचन्द्रगणिः, वा० वरणागगणिः, वा० रामचन्द्रगणिः, वा० माणिभद्रगणिरेते दश । श्रीमति-जिनमति-पूर्णश्री-जिनश्री-ज्ञानश्रियः पञ्च महत्तराः। हरिसिंहाचार्याणां शिष्यो मुनिचन्द्राभिध उपाध्याय आसीत् , तेन जिनदत्तसूरिः प्रार्थित आसीद्-यदि कश्चिन्मदीयः शिष्यो भवतां समीपे समागच्छति योग्यस्तदाऽऽचार्यपदं दातव्यमेवं प्रतिपन्नम् । तस्य शिष्या जयसिंहनामा चित्रकूटे मुनीन्द्रपदे निवेशितः । तस्यापि शिष्यो जयचन्द्रनामा पत्तने समवसरणे मुनीन्द्रपदे स्थापितः। भणितं द्वयोरप्यग्रे-रीत्या प्रवर्तितव्यम् । तथा जीवानन्द उपाध्यायपदे निवेशितः। यद्याचार्योपाध्यायवाचनाचार्यपदानां प्रत्येकं स्थानादिविशेषो भण्यते तदा विस्तरो भवति तेनैकत्रैव भणितम् । सर्वेषु पदस्थेषु शिक्षा दत्त्वा विहारादिस्थानानि भणित्वा स्वयमजयमेरौ विहृताः । विस्तरेण प्रवेशो जातः ।
३६. ततः श्रावकैश्चैत्यगृहत्रयाम्बिकास्थानानि पर्वते प्रगुणीकारितानि । ततः श्रीजिनदत्तसूरिः शोभने लग्ने देवगृहेषु मूलनिवेशे वासान् प्रक्षिप्तवान् । ततः शिखरादिनिवेश कारितवन्तः श्रावकाः। ततो विक्रमपुरे सण्हियापुत्रदेवधरेण स्वकुटुम्बानां पञ्चदश श्रावकसमुदायं कृत्वा स्वपितृश्रेयोऽर्थम् , आसदेवादयः श्रावका भणिताः-मयात्र श्रीजिनदत्तसूरयो विहारक्रमं कारयितव्याः । तस्याग्रे कोऽपि किमपि भणितुं न शक्नोति। श्राद्धसमुदायेन निर्गतो नागपुरे प्राप्तः।
३७. तस्मिन् प्रस्तावे तत्र देवाचार्यो विशेषेण प्रसिद्धो वर्त्तते । देवधरोऽपि प्रसिद्धो विक्रमपुरादागतः श्रुतः । पश्चादेवगृहे व्याख्यानप्रस्तावे देवाचार्य उपविष्ट आस्त । देवधरोऽपि पादप्रक्षालनादिशौचं कृता देवगृहे गतः । आचार्यो वन्दितस्तेनापि क्षेमवार्ता पृष्टा । ततः प्रथमत एव देवधरेण पृष्टः-'भगवन् ! यत्र रात्रौ देवगृहे स्त्रीप्रवेशादि प्रवर्तते तत्कीदृशं चैत्यं भण्यते ?' इति प्रश्नकृते चिन्तितं देवाचार्येण-'कथञ्चिजिनदत्ताचार्यमत्रोऽस्य कर्णे प्रविष्टोऽतस्तद्वासित इव लक्ष्यते' इति विचिन्त्योक्तम्-'श्रावक ! रात्रौ स्त्रीप्रवेशादिकं संगतं न भवति । देवधरः-'तहिं किं न वार्यते ?' आचार्यः प्राह-'लक्षसंख्यलोकानां मध्ये को वार्यते ।' देवधरः-'भगवन् ! यत्र देवगृहे जिनाज्ञा न प्रवर्तते, किं तर्हि जिनाज्ञानिरपेक्षः स्वच्छया जनो वर्तते, तजिनगृहं जनगृहं वा प्रोच्यत इति प्रतिपादयध्वं यूयम्' । आचार्यः'यत्र साक्षाजिनोऽन्तर्निविष्टो दृश्यते तत्कथं जिनमन्दिरं नोच्यते ?' । देवधरः-'आचार्य ! वयं तावन्मूर्खाः, परमेतद् वयमपि जानीमो यदुत यत्र यस्याज्ञा न प्रवर्तते तगृहं तदीयं नोच्यते । एवं च पाषाणरूपार्हद्विम्बमात्रान्तनिवेशनेन भगवदाज्ञापरिहारेण स्वेच्छया व्यवहारे कथं नाम तजिनमन्दिरमुच्यते । परमेवं जानाना अपि यूयं प्रवाहमार्ग न निवारयध्वे प्रत्युत पोषयध्वे, तदेते वन्दिता अनुज्ञापिताश्च मया यूयम्-यत्र तीर्थकराज्ञा प्रवर्तते स मार्गों मयाऽभ्युपेतव्यः' इत्यभिधायोत्थितो देवधरः। सहानीतस्वकुटुम्बरूपश्रावकाणां जातं स्थिरीकरणं विधिमार्गविषये। प्राप्तः श्रावकसमुदायसहितोऽजयमेरौ । वन्दिता भावसारं श्रीजिनदत्तसूरयस्तदभिप्रायावगमपूर्वकं कृता पूज्यैर्देशना । जातोऽसौ निःसन्देहः । अभ्यर्थिताः प्रभवः श्रीविक्रमपुरविहारं प्रति । ततो विस्तरेण तत्र देवगृहबिम्बाम्बिकागणधरादिप्रतिष्ठां विधाय समागताः श्रीदेवधरेण सह विक्रमपुरे । प्रबोधितस्तत्रत्यो जनो बहुः । स्थापिता श्रीमहावीरप्रतिमा ।
३८. तत्र उच्चायां गच्छतामन्तराये भूतादयस्तेऽपि प्रतिबोधिताः । किं पुनरुच्चकीयलोकः। ततो नवहरे विहृताः। ततस्त्रिभुवनगिरौ, प्रतियोधितस्तत्र कुमारपालो नाम राजा । कृतस्तत्र प्रचुरतरयतिजनविहारः। प्रतिष्ठितो भगवान् शान्तिनाथदेवः । तथोजयिन्या विहारेण प्रतिबोधितं पूज्यैयोंगिनीचक्रम् । तथैकदा श्रीचित्रकूटप्रवेशके दुष्टैरपशकुनाय सम्मु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org