________________
खरतरगच्छालंकार खीकृतो रश्मिबद्धः कृष्णभुजङ्गमः। ततो मन्दीभूतानि गीतवादित्रादीनि । श्रावका अद्याऽहो न सुन्दरमिति जाताः सविषादाः । ततः प्रोक्तं ज्ञानदिवाकरैः श्रीजिनदत्तसूरिभिः-'भो किमेवं विमनस्का यूयम् १ यथेष कृष्णभुजङ्गो रश्म्या बद्धः, एवमन्येऽपि ये केचनास्मद्दष्टास्तषां बन्धनं पतिष्यतीति प्रेरयिताऽतीव सुन्दरं शकुनमेतत् । पुनरग्रतो गच्छता दुष्टैरेका कृत्तनासिका दुनिमित्तविधानाय प्रेषिता । सा चाग्रतः स्थिता दृष्टा पूज्यपादैर्जल्पिता च यथा 'आई ! भल्ली ?" ततस्तया दुष्टरण्डया दत्तं प्रतिवचो यथा 'भल्लइ धाणुक्कइ मुक्की' । पुनरुक्ता किश्चिद्विहस्य सप्रतिभैः श्रीपूज्यैर्यथा'पक्खहरा तेण तुह छिन्ना । ततः सा गयविलक्खा उत्तर निक्खुट्टी (?) । इत्यनेकाश्चर्यनिधानानां निरन्तरं किङ्करैरिव सुरैः सर्वदोपास्यमानपादानां करुणासमुद्राणां धारापुरी-गणपद्रादिस्थानेषु प्रतिष्ठितवीरपार्श्वशान्त्यजितादितीर्थकृद्धिम्बदेवगृह-शिखराणां स्वज्ञानबलदृष्टानजपट्टोद्धारकारिरासलाङ्गरहाणा भास्करवद्विबोधितभुवनमण्डलभव्याम्भोरुहाणां श्रीजिनदत्तसूरीणां चरित्रलेशः प्रतिपादितः। ततो महता विस्तरेण श्रीचित्रकूटे प्रविष्टाः । ततः श्रीजिनबिम्बप्रति महामहोत्सवाः कृताः । ततः सं० १२०३ अजयमेरौ फाल्गुन सुदी ९ जिनचन्द्रसूरिदीक्षा । सं० १२०५ वैशाखशुक्लषष्ठयां विक्रमपुरे, इतरजनदुःसाध्यध्यानतपोबलावलोकितानवद्यविद्यामत्रतत्रयत्रप्रभावैश्चिन्तामणिगणायमानाः-चिन्तामणिगणा इवाचरन्ति चिन्तामणिगणायन्ते, चिन्तामणिगणायमाना उपदेश्या येषां ते तथा तैर्देशैः-श्रीजिनदत्तसूरिभिः स्वकीयपदे सा० रासलकुलव्योममण्डलायमाननववर्षवयोमानविबुधजनमनोहारिसौभाग्यभाग्यारोग्यादिगुणगणनिधानश्रीजिनचन्द्रसूरय उपवेशिताः। सं० १२११ आषाढ वदि ११ जिनदत्तसूरयो दिवं गताः ।
३९. सं० १२१४ श्रीजिनचन्द्रसूरिभित्रिभुवनगिरौ श्रीशान्तिनाथशिखरे सजनमनोमन्दिरे प्रमोदारोपणमिव सौवर्णदण्डकलशध्वजारोपणं महता विस्तरेण कृत्वा, हेमदेवीगणिन्याः प्रवर्तिनीपदं दत्त्वा, मथुराया यात्रां कृत्वा, सं० १२१७ फाल्गुनशुक्लदशम्यां पूर्णदेवगणि-जिनरथ-वीरभद्र-वीरजय-जगहित-जयशील-जिनभद्रैः सार्ध श्रीजिनपतिसरयो दीक्षिताः । सा० क्षेमन्धरः प्रतिबोधितः । वैशाखशुक्लदशम्यां मरुकोट्टे चन्द्रप्रभस्वामिविधिचैत्ये साधुगोल्लककारितसौवर्णदण्डकलशध्वजारोपणं कृतम् । तत्र च सा० क्षेमन्धरेण पारुत्थद्रम्मशतपश्चकेन माला गृहीता। सं० १२१८ उच्चायां ऋषभदत्त-विनयचन्द्र-विनयशील-गुणवर्धन-वर्धमानचन्द्रसाधुपञ्चकं जगश्री-सरस्वती-गुणश्रीसाध्वीत्रयं च दीक्षितम् । अनेन क्रमेण साधवो [बहव]श्च कृताः। सं० १२२१ सागरपाटे सा० गयधरकारिता श्रीपार्श्वनाथविधिचैत्ये देवकुलिका प्रतिष्ठिता । अजयमेरौ श्रीजिनदत्तमूरिस्तूपः प्रतिष्ठितः । बब्बेरके च वा० गुणभद्रगणि-अभयचन्द्र-यशश्चन्द्र-यशोभद्र-देवभद्रा दीक्षिताः । देवभद्रभार्याऽपि दीक्षिता । आशिकायां नागदत्तस्य वाचनाचार्यपदं दत्तम् । महावने श्रीअजितस्वामिविधिचैत्ये प्रतिष्ठा देवनागकारिता । इन्द्रपुरे शान्तिनाथविधिचैत्ये सौवर्णदण्डकलशप्रतिष्ठा वा० गुणभद्रगणिपितामहलालेश्रावककारिता । तग(?)लाग्रामेऽजितस्वामिविधिचैत्यं प्रतिष्ठा च । कृताश्च सर्वा अपि श्रीजिनचन्द्रसूरिभिः। सं० १२२२ वादलीनगरे श्रीपार्श्वनाथभवने वा० गुणभद्रगणिपितामहलालेश्रावककारितसौवर्णदण्ड-कलशौ प्रतिष्ठाप्याम्बिकाशिखरयोग्यं सौवर्णकलशं च प्रतिष्ठाप्य, रुद्रपल्ल्यां विहृताः। ततोऽपि परतो नरपालपुरे कश्चिज्ज्योतिःशास्त्रसम्यक्परिज्ञानाभिमानादागतं ज्योतिषिकं वृषलग्नसत्कैकोनविंशात्रिंशांशे मृगशीर्षमुहूर्ते षट्सप्तत्यधिकवर्षशताचलस्थित्यवधिप्रदानप्रतिज्ञया श्रीपार्श्वनाथदेवगृहपुरतो रङ्गायामेकां शिलां स्थापयिखा जितवन्तः । तच्छिलोपरितना भित्तिरद्यापि तथैव वर्तते।।
४०. पुनरपि रुद्रपल्ल्यां विहृताः। तत्र चान्यदा कदाचिन्मुनिमण्डलीमण्डितपार्श्वदेशाल्लघुवयसो बहिर्भूम्यां गच्छतः श्रीजिनचन्द्रसूरीन् दृष्ट्वा श्रीपद्मचन्द्राचार्यों मत्सरवशात् पृच्छति स्म-'आचार्यमिश्राः ! यूयं भद्राः स्थ ? श्रीमत्पूज्यैरुक्तम्-'देवगुरुप्रसादात्' । पुनरपि स प्राह 'साम्प्रतं किं किं शास्त्रं वाच्यमानमस्ति ?' पार्श्वस्थेन मुनिना भणितम्'साम्प्रतं श्रीमत्पूज्या न्यायकन्दलीं चिन्तयन्ति' । स प्राह-'आचार्यमिश्राः ! तमोवादश्चिन्तितः ?" श्रीपूज्यैरुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org