________________
युगपवानाचार्यगुर्वावली ।
२१
'चिन्तितः । स प्राह 'हृदये जमा श्रीमत्पूज्यैरुक्तम्- 'अवगतः ' । स प्राह 'तत्किं तमो रूपविशेषमेव ?' श्रीपूज्यैरुक्तम्- 'ननु भवतु रूपेण यादृशं तादृशं तमः परं वादव्यवस्थया राजसभायां प्रधानसभ्यसमक्षं वादिना कदापि कीदृशं स्थापयखे, नतु स्थापनामात्रेण वस्तु स्वस्वरूपं त्यजति' । पुनरपि स प्राह-'मा त्याक्षीत् स्थापनामात्रेण वस्तु स्वस्वरूपम्, परं परमेश्वरैस्तीर्थकरैस्तमो द्रव्यमेवोक्तम्' । श्री पूज्यैरुक्तम्- ' को नाम न मन्यते द्रव्यत्वं तमसः । परमाचार्यदर्पिष्ठ प्रतिवादी यथा तथा जितो विभीय ( ९ ) ।' तदनन्तरं कोपावेगाद्रक्तीभवन्नेत्रः कम्पमानगात्रः सन् स इदमाह - 'प्रमाणरीत्या द्रव्यमेव तम इति स्थापयति सति मयि, तव योग्यताऽस्ति सम्मुखी भवितुम् ?' श्रीपूज्यैरुक्तम्- 'कस्याऽपि योग्यताऽस्ति, कस्याऽपि नास्तीति ज्ञास्यते राजसभायाम् । पशुप्रायाणामेवारण्यं रणभूमिः । तथाऽऽचार्य ! माऽस्मान् लघुवयसो दृष्ट्वा स्वशक्तिं स्फोरय; लघुरपि सिंहः पर्वतसमानोपममतङ्गजानुत्रासयति' । एवं च विवदतां तेषां कौतुकदर्शनार्थं मिलितः सर्वोऽपि नागरिको लोकः । उभयभक्त श्रावकाश्च निजनिजाचार्यपक्षपातेन परामहङ्कारकोटिमारूढाः । किम्बहुना राजलोकसमक्षं व्यवस्थापत्रे लिखिते सति सावष्टम्भेषु च श्रीजिनचन्द्रसूरिषु सत्सु, वादवार्तयाऽपि भ श्रीपद्मचन्द्राचार्य दृष्ट्वा सर्वलोकसमक्षं राजलोकैर्दत्तं जयपत्रं श्रीजिनचन्द्रसूरीणाम् । जयकारश्चक्रे । लोके महती प्रभावना संजाता जिनशासने । महानन्दभरनिर्भरैश्च श्रावकैर्बृहद्वर्धापनकं कारितम् । तदनन्तरं श्रीपूज्य - भक्तश्रावका 'जयतिहट्ट' इति नाम्ना प्रसिद्धिं गताः । पद्मचन्द्राचार्यभक्ताश्च श्रावकाः सर्वैरपि लोकैस्तर्यमाना हस्य - मानाः 'तर्कहट्ट' इति नाम्ना प्रसिद्धिं गताः । अनया रीत्या कानिचिद्दिनानि स्थित्वा, सिद्धान्तोक्तविधिना सुसार्थेन सह ततः प्रचलिताः ।
४१. मार्गे च चौरसिंदानकग्रामसमीप उत्तरितः संघातः । तत्र च म्लेच्छभयादाकुलीभूतं संघातलोकं दृष्ट्वा श्रीपूज्यैरुक्तम्- 'किमिति भो ! यूयमाकुलीभूताः ?' तैरुक्तम्- 'प्रभो ! म्लेच्छकटकमागच्छदस्ति, पश्यता - sस्यां दिशि गगनतलावलम्बिनीं धूलिम् शृणुत निखानशब्दम्' । श्रीपूज्यैरवधानं दत्त्वा भणितम् -'अहो सार्थिकलोका ! विश्वस्तभवत, सर्वमपि वस्तु वृषभादिचतुष्पदादिकमेकत्र कुरुत, प्रभुश्रीजिनदत्तसूरिभेलिष्यति' । तदनन्तरं श्रीपूज्यैर्मत्र ध्यान पुरस्सरं निजदण्डकेन संघातकस्य चतुर्दिक्षु कोष्ठाकारा रेखा कृता । सार्थलोकश्च सर्वोऽपि गोणी - पविष्टः । संघातनिकटदेशे वहमानान् तुरगाधिरूढान् सहस्रसंख्यान् म्लेच्छान् पश्यति, म्लेच्छाश्च संघातं न पश्यन्ति, केवलं कोट्टं पश्यन्तो दूरं गताः । निर्भये सति ततः स्थानात् प्रचलितान् पृष्ठग्रामे संघातेन सहाऽऽगतान् श्रीपूज्यान् श्रुखा दिल्लीवास्तव्य ठ० लोहट-सा० पाल्हण - सा० कुलचन्द्र - सा० गृहिचन्द्रादिसंघ मुख्य श्रावका महता विस्तरेण वन्दनार्थ सम्मुखं प्रचलिताः । तांश्च प्रधानवेषान् प्रधानपरिवारान् प्रधानवाहनाधिरूढान् ढिल्लीनगराद्बहिर्गच्छन्तो दृष्ट्वा स्वप्रसादोपरि वर्तमानः श्रीमदनपालराजा विस्मितः सन् स्वकीयराजप्रधानलोकं पप्रच्छ - 'किमित्येष नगरवास्तव्यलोकः सर्वोऽपि बहिर्गच्छति ?' राजप्रधानैरुक्तम्- 'देव ! अतीवरमणीयरूपोऽनेकशक्तियुक्तो गुरुरेषां समागतोऽस्ति । तस्य सम्मुखं भक्तिवशाद्यान्त्यते ।' तदनन्तरं कुतूहलिनैतेन राज्ञोक्तम्- 'महासाधनिक ! प्रगुणय पट्टतुरङ्गमं, वादय च काहलिकहस्तेन काहलां यथा सर्वोऽपि राजलोकः प्रभूय प्रभूय शीघ्रमत्राऽऽगच्छति' । आदेशानन्तरं सहस्रसंख्य घोटका धिरूढसुभटैरलंक्रियमाणः श्रीमदनपालराजा श्रावकलोकात् प्रथममेव श्रीपूज्यानां पार्श्वे गतः । तत्र च सार्थमध्यस्थितलोकैः प्रभूतढौकनिकदानपुरस्सरं राजा ज्योत्कृतः; श्रीपूज्यैश्च कर्णसुखकारिण्या वाण्या धर्मदेशना कृता । राज्ञा चोक्तम्- 'आचार्याः ! कुतः स्थानाद्यूयमत्राऽऽगताः ?' श्रीपूज्यैरुक्तम्- 'रुद्रपल्लीत : ' । राज्ञोक्तम्'आचार्याः ! उत्तिष्ठत यूयम्, पवित्रीकुरुत मदीयं नगरम् ' । श्रीपूज्यैः प्रभुश्रीजिनदत्तसूरिदत्तोपदेशस्मरणान किमपि भणितम् । पुनरपि राज्ञोक्तम्- 'आचार्याः ! किं न ब्रूत यूयम्, किं मदीये नगरे युष्माकं प्रतिपन्थी कश्चिद्वर्तते ?, आहो
१ 'सत्कृतः ' प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org