________________
२२
खरतरगच्छालंकार श्वित् परिवारोपयोग्यन्नपानादि न लभ्यतेऽथवाऽन्यत्किमपि कारणं वर्तते यद्यूयं मार्गमुख आगतमपि मदीयं नगरं परिहत्याऽन्यत्र बजथ ?' श्रीपूज्यैरुक्तम्-'महाराज ! युष्मदीयं नगरं प्रधानं धर्मक्षेत्रम्' । 'तद्युत्तिष्ठत चलत ढिल्ली प्रति, न कोऽपि युष्मानङ्गुलिकयाऽपि संज्ञास्यतीत्यादि । 'श्रीमदनपालमहाराजोपरोधाद् युष्माभिर्योगिनीपुरमध्ये कदापि न विहर्तव्यमित्यादिश्रीजिनदत्तसूरिदत्तोपदेशत्यागेन हृदये दूयमाना अपि श्रीपूज्याः श्रीदिल्ली प्रति प्रस्थिताः। बाद्यमानासु चतुर्विंशतिषु निस्वानयुगलीषु, बिरदावली पठत्सु भट्टलोकेषु, धवलेषु दीयमानेषु, वसन्तादिमाङ्गलिक्यरागेण गायत्सु गायनेषु, नृत्यमानासु नर्तकीषु, ऊर्वीकृतेष्वालम्बसहस्रेषु, मस्तकोपरि ध्रियमाणछत्रैर्लक्षसंख्यलोकैरनुगम्यमानैः श्रीमदनपालमहाराजदत्तहस्तैः श्रीजिनचन्द्रमूरिभी राजादेशात्कृततलिकातोरणादिमहाशोभे श्रीयोगिनीपुरे प्रवेशः कृतः।
४२. तत्र चान्यदा कदाचिदत्यन्तभक्तं कुलचन्द्रश्रावकं दुर्बलं दृष्ट्वा करुणार्द्रहृदयैः श्रीपूज्यदैत्तो द्रवरूपीकृतकुडमकस्तूरिकागोरोचनादिसुरभिद्रव्यलिखितानेकमत्राक्षरो यत्रपटः, भणितं च तस्याग्रतः-'महानुभावकुलचन्द्र ! निजमुष्टिप्रमाणैर्वासैरेष पटो दिने दिने पूजनीयः, निर्माल्यीभूताश्चैते वासाः पारदादिसंयोगात् सुवर्णा भविष्यन्ति' । स च गुरूपदिष्टरीत्या पटं पूजयन् कोटीध्वजः सञ्जातः ।
४३. अन्यदोत्तरप्रतोल्यां बहिर्भूमौ गच्छद्भिः श्रीपूज्यैर्महानवमीदिने मांसनिमित्तं मिथ्यादृष्टिदेवताद्वयं महासंरम्भेण युध्यमानं दृष्ट्वा करुणयाऽधिगालिनाम्नी देवता प्रतिबोधिता । तया चोपशान्तचित्तया श्रीपूज्या विज्ञप्ताः-'भगवन्तो! मया परित्यक्तो मांसबलिः, परं मम किञ्चिद्वासस्थानकं दर्शयत यथाऽहं तत्र स्थिता युष्मदादेशं प्रतिपालयामि । श्रीपूज्यैस्तदग्रतो [भणितम्-] 'महानुभावे ! श्रीपार्श्वनाथविधिचैत्ये प्रविशतां दक्षिणस्तम्भे त्वयाऽवस्थातव्यम्' इत्युक्ता पौषधशालायां चाऽऽगत्य सा० लोहड सा० कुलचन्द्र सा० पाल्हणादिप्रधानश्रावकाणामग्रे कथितम् यथा-'श्रीपार्श्वनाथप्रासादे प्रविशतां दक्षिणस्तम्भेऽधिष्ठायकमूर्तिमुत्कारयतेति' । आदेशानन्तरं श्राद्धस्तथैव सर्व कारितम् । महाविस्तरेण श्रीपूज्यस्तत्र प्रतिष्ठा कृता । 'अतिबल' इति नामाऽधिष्ठायकस्य कृतम् । श्रावकैश्च तस्य महान् भोगः कर्तु प्रारेभे । अतिबलोऽपि श्रावकाणां वाञ्छितं पूरयितुं प्रवृत्तः ।
सं० १२२३ समस्तलोककृतक्षामणापूर्वकमनशनविधिना द्वितीयभाद्रपद वदी १४ देवीभूताः श्रीजिनचन्द्रसूरयः।
४४. तदनन्तरं श्रावकैर्महाविस्तरेणानेकमण्डपिकामण्डिते विमान आरोप्य 'यत्र क्वाप्यस्माकं संस्कार करिष्यत यूयं तावती भूमिकां यावन्नगरवसतिर्भविष्यती' त्यादिगुरुवाक्यस्मृतेरतीव दूरभूमौ नीताः। तत्र च भूमौ धृतं श्रीपूज्यविमानं दृष्ट्वा जगद्वयानन्ददायकश्रीपूज्यगुणस्मरणात् समुच्छलत्परमगुरुस्नेहाच्च
चातुर्वर्ण्यमिदं मुदा प्रयतते त्वद्रूपमालोकितुं,
मादृक्षाश्च महर्षयस्तव वचः कर्तुं सदैवोद्यताः । शक्रोऽपि स्वयमेव देवसहितो युष्मत्प्रभामीहते, तत्कि श्रीजिनचन्द्रसूरिसुगुरो ! स्वर्ग प्रति प्रस्थितः ॥
[२२] साहित्यं च निरर्थकं समभवन्निर्लक्षणं लक्षणं,
मन्त्रैर्मन्त्रपरैरभूयत तथा कैवल्यमेवाश्रितम् । कैवल्याज्जिनचन्द्रसूरिवर ! ते स्वर्गाधिरोहे हहा!,
सिद्धान्तस्तु करिष्यते किमपि यत्तन्नैव जानीमहे ॥ ___ [२३] १-१ एतदन्तर्गतं प्रकरणं नास्ति प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org