Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 47
________________ खरतरगच्छालंकार खीकृतो रश्मिबद्धः कृष्णभुजङ्गमः। ततो मन्दीभूतानि गीतवादित्रादीनि । श्रावका अद्याऽहो न सुन्दरमिति जाताः सविषादाः । ततः प्रोक्तं ज्ञानदिवाकरैः श्रीजिनदत्तसूरिभिः-'भो किमेवं विमनस्का यूयम् १ यथेष कृष्णभुजङ्गो रश्म्या बद्धः, एवमन्येऽपि ये केचनास्मद्दष्टास्तषां बन्धनं पतिष्यतीति प्रेरयिताऽतीव सुन्दरं शकुनमेतत् । पुनरग्रतो गच्छता दुष्टैरेका कृत्तनासिका दुनिमित्तविधानाय प्रेषिता । सा चाग्रतः स्थिता दृष्टा पूज्यपादैर्जल्पिता च यथा 'आई ! भल्ली ?" ततस्तया दुष्टरण्डया दत्तं प्रतिवचो यथा 'भल्लइ धाणुक्कइ मुक्की' । पुनरुक्ता किश्चिद्विहस्य सप्रतिभैः श्रीपूज्यैर्यथा'पक्खहरा तेण तुह छिन्ना । ततः सा गयविलक्खा उत्तर निक्खुट्टी (?) । इत्यनेकाश्चर्यनिधानानां निरन्तरं किङ्करैरिव सुरैः सर्वदोपास्यमानपादानां करुणासमुद्राणां धारापुरी-गणपद्रादिस्थानेषु प्रतिष्ठितवीरपार्श्वशान्त्यजितादितीर्थकृद्धिम्बदेवगृह-शिखराणां स्वज्ञानबलदृष्टानजपट्टोद्धारकारिरासलाङ्गरहाणा भास्करवद्विबोधितभुवनमण्डलभव्याम्भोरुहाणां श्रीजिनदत्तसूरीणां चरित्रलेशः प्रतिपादितः। ततो महता विस्तरेण श्रीचित्रकूटे प्रविष्टाः । ततः श्रीजिनबिम्बप्रति महामहोत्सवाः कृताः । ततः सं० १२०३ अजयमेरौ फाल्गुन सुदी ९ जिनचन्द्रसूरिदीक्षा । सं० १२०५ वैशाखशुक्लषष्ठयां विक्रमपुरे, इतरजनदुःसाध्यध्यानतपोबलावलोकितानवद्यविद्यामत्रतत्रयत्रप्रभावैश्चिन्तामणिगणायमानाः-चिन्तामणिगणा इवाचरन्ति चिन्तामणिगणायन्ते, चिन्तामणिगणायमाना उपदेश्या येषां ते तथा तैर्देशैः-श्रीजिनदत्तसूरिभिः स्वकीयपदे सा० रासलकुलव्योममण्डलायमाननववर्षवयोमानविबुधजनमनोहारिसौभाग्यभाग्यारोग्यादिगुणगणनिधानश्रीजिनचन्द्रसूरय उपवेशिताः। सं० १२११ आषाढ वदि ११ जिनदत्तसूरयो दिवं गताः । ३९. सं० १२१४ श्रीजिनचन्द्रसूरिभित्रिभुवनगिरौ श्रीशान्तिनाथशिखरे सजनमनोमन्दिरे प्रमोदारोपणमिव सौवर्णदण्डकलशध्वजारोपणं महता विस्तरेण कृत्वा, हेमदेवीगणिन्याः प्रवर्तिनीपदं दत्त्वा, मथुराया यात्रां कृत्वा, सं० १२१७ फाल्गुनशुक्लदशम्यां पूर्णदेवगणि-जिनरथ-वीरभद्र-वीरजय-जगहित-जयशील-जिनभद्रैः सार्ध श्रीजिनपतिसरयो दीक्षिताः । सा० क्षेमन्धरः प्रतिबोधितः । वैशाखशुक्लदशम्यां मरुकोट्टे चन्द्रप्रभस्वामिविधिचैत्ये साधुगोल्लककारितसौवर्णदण्डकलशध्वजारोपणं कृतम् । तत्र च सा० क्षेमन्धरेण पारुत्थद्रम्मशतपश्चकेन माला गृहीता। सं० १२१८ उच्चायां ऋषभदत्त-विनयचन्द्र-विनयशील-गुणवर्धन-वर्धमानचन्द्रसाधुपञ्चकं जगश्री-सरस्वती-गुणश्रीसाध्वीत्रयं च दीक्षितम् । अनेन क्रमेण साधवो [बहव]श्च कृताः। सं० १२२१ सागरपाटे सा० गयधरकारिता श्रीपार्श्वनाथविधिचैत्ये देवकुलिका प्रतिष्ठिता । अजयमेरौ श्रीजिनदत्तमूरिस्तूपः प्रतिष्ठितः । बब्बेरके च वा० गुणभद्रगणि-अभयचन्द्र-यशश्चन्द्र-यशोभद्र-देवभद्रा दीक्षिताः । देवभद्रभार्याऽपि दीक्षिता । आशिकायां नागदत्तस्य वाचनाचार्यपदं दत्तम् । महावने श्रीअजितस्वामिविधिचैत्ये प्रतिष्ठा देवनागकारिता । इन्द्रपुरे शान्तिनाथविधिचैत्ये सौवर्णदण्डकलशप्रतिष्ठा वा० गुणभद्रगणिपितामहलालेश्रावककारिता । तग(?)लाग्रामेऽजितस्वामिविधिचैत्यं प्रतिष्ठा च । कृताश्च सर्वा अपि श्रीजिनचन्द्रसूरिभिः। सं० १२२२ वादलीनगरे श्रीपार्श्वनाथभवने वा० गुणभद्रगणिपितामहलालेश्रावककारितसौवर्णदण्ड-कलशौ प्रतिष्ठाप्याम्बिकाशिखरयोग्यं सौवर्णकलशं च प्रतिष्ठाप्य, रुद्रपल्ल्यां विहृताः। ततोऽपि परतो नरपालपुरे कश्चिज्ज्योतिःशास्त्रसम्यक्परिज्ञानाभिमानादागतं ज्योतिषिकं वृषलग्नसत्कैकोनविंशात्रिंशांशे मृगशीर्षमुहूर्ते षट्सप्तत्यधिकवर्षशताचलस्थित्यवधिप्रदानप्रतिज्ञया श्रीपार्श्वनाथदेवगृहपुरतो रङ्गायामेकां शिलां स्थापयिखा जितवन्तः । तच्छिलोपरितना भित्तिरद्यापि तथैव वर्तते।। ४०. पुनरपि रुद्रपल्ल्यां विहृताः। तत्र चान्यदा कदाचिन्मुनिमण्डलीमण्डितपार्श्वदेशाल्लघुवयसो बहिर्भूम्यां गच्छतः श्रीजिनचन्द्रसूरीन् दृष्ट्वा श्रीपद्मचन्द्राचार्यों मत्सरवशात् पृच्छति स्म-'आचार्यमिश्राः ! यूयं भद्राः स्थ ? श्रीमत्पूज्यैरुक्तम्-'देवगुरुप्रसादात्' । पुनरपि स प्राह 'साम्प्रतं किं किं शास्त्रं वाच्यमानमस्ति ?' पार्श्वस्थेन मुनिना भणितम्'साम्प्रतं श्रीमत्पूज्या न्यायकन्दलीं चिन्तयन्ति' । स प्राह-'आचार्यमिश्राः ! तमोवादश्चिन्तितः ?" श्रीपूज्यैरुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148