Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 46
________________ युगप्रधानाचार्यगुर्वावली । १९ करोतीति सन्देहद्वयं प्रच्छनीयमन्यत्सर्व भव्यम् । पश्चाद् यत् कथयिष्यति तत् करिष्यामि। अग्रे श्रीपूज्यैर्वागडदेशे स्थितैर्ये धारायां प्रेषिता आसन् ते सर्वेऽप्यानायिताः, सिद्धान्तं श्राविताः । ततः स्वदीक्षितो जीवदेवाचार्यो मुनीन्द्रपदे निवेशितः । तथा दश वाचनाचार्याः कृताः । वा०जिनचक्रित (चन्द्र ?) गणिः, वा० शीलभद्रगणिः, वा० स्थिरचन्द्रगणिः, वा० ब्रह्मचन्द्रगणिः, वा० विमलचन्द्रगणिः, वा० वरदत्तगणिः, वा० भुवनचन्द्रगणिः, वा० वरणागगणिः, वा० रामचन्द्रगणिः, वा० माणिभद्रगणिरेते दश । श्रीमति-जिनमति-पूर्णश्री-जिनश्री-ज्ञानश्रियः पञ्च महत्तराः। हरिसिंहाचार्याणां शिष्यो मुनिचन्द्राभिध उपाध्याय आसीत् , तेन जिनदत्तसूरिः प्रार्थित आसीद्-यदि कश्चिन्मदीयः शिष्यो भवतां समीपे समागच्छति योग्यस्तदाऽऽचार्यपदं दातव्यमेवं प्रतिपन्नम् । तस्य शिष्या जयसिंहनामा चित्रकूटे मुनीन्द्रपदे निवेशितः । तस्यापि शिष्यो जयचन्द्रनामा पत्तने समवसरणे मुनीन्द्रपदे स्थापितः। भणितं द्वयोरप्यग्रे-रीत्या प्रवर्तितव्यम् । तथा जीवानन्द उपाध्यायपदे निवेशितः। यद्याचार्योपाध्यायवाचनाचार्यपदानां प्रत्येकं स्थानादिविशेषो भण्यते तदा विस्तरो भवति तेनैकत्रैव भणितम् । सर्वेषु पदस्थेषु शिक्षा दत्त्वा विहारादिस्थानानि भणित्वा स्वयमजयमेरौ विहृताः । विस्तरेण प्रवेशो जातः । ३६. ततः श्रावकैश्चैत्यगृहत्रयाम्बिकास्थानानि पर्वते प्रगुणीकारितानि । ततः श्रीजिनदत्तसूरिः शोभने लग्ने देवगृहेषु मूलनिवेशे वासान् प्रक्षिप्तवान् । ततः शिखरादिनिवेश कारितवन्तः श्रावकाः। ततो विक्रमपुरे सण्हियापुत्रदेवधरेण स्वकुटुम्बानां पञ्चदश श्रावकसमुदायं कृत्वा स्वपितृश्रेयोऽर्थम् , आसदेवादयः श्रावका भणिताः-मयात्र श्रीजिनदत्तसूरयो विहारक्रमं कारयितव्याः । तस्याग्रे कोऽपि किमपि भणितुं न शक्नोति। श्राद्धसमुदायेन निर्गतो नागपुरे प्राप्तः। ३७. तस्मिन् प्रस्तावे तत्र देवाचार्यो विशेषेण प्रसिद्धो वर्त्तते । देवधरोऽपि प्रसिद्धो विक्रमपुरादागतः श्रुतः । पश्चादेवगृहे व्याख्यानप्रस्तावे देवाचार्य उपविष्ट आस्त । देवधरोऽपि पादप्रक्षालनादिशौचं कृता देवगृहे गतः । आचार्यो वन्दितस्तेनापि क्षेमवार्ता पृष्टा । ततः प्रथमत एव देवधरेण पृष्टः-'भगवन् ! यत्र रात्रौ देवगृहे स्त्रीप्रवेशादि प्रवर्तते तत्कीदृशं चैत्यं भण्यते ?' इति प्रश्नकृते चिन्तितं देवाचार्येण-'कथञ्चिजिनदत्ताचार्यमत्रोऽस्य कर्णे प्रविष्टोऽतस्तद्वासित इव लक्ष्यते' इति विचिन्त्योक्तम्-'श्रावक ! रात्रौ स्त्रीप्रवेशादिकं संगतं न भवति । देवधरः-'तहिं किं न वार्यते ?' आचार्यः प्राह-'लक्षसंख्यलोकानां मध्ये को वार्यते ।' देवधरः-'भगवन् ! यत्र देवगृहे जिनाज्ञा न प्रवर्तते, किं तर्हि जिनाज्ञानिरपेक्षः स्वच्छया जनो वर्तते, तजिनगृहं जनगृहं वा प्रोच्यत इति प्रतिपादयध्वं यूयम्' । आचार्यः'यत्र साक्षाजिनोऽन्तर्निविष्टो दृश्यते तत्कथं जिनमन्दिरं नोच्यते ?' । देवधरः-'आचार्य ! वयं तावन्मूर्खाः, परमेतद् वयमपि जानीमो यदुत यत्र यस्याज्ञा न प्रवर्तते तगृहं तदीयं नोच्यते । एवं च पाषाणरूपार्हद्विम्बमात्रान्तनिवेशनेन भगवदाज्ञापरिहारेण स्वेच्छया व्यवहारे कथं नाम तजिनमन्दिरमुच्यते । परमेवं जानाना अपि यूयं प्रवाहमार्ग न निवारयध्वे प्रत्युत पोषयध्वे, तदेते वन्दिता अनुज्ञापिताश्च मया यूयम्-यत्र तीर्थकराज्ञा प्रवर्तते स मार्गों मयाऽभ्युपेतव्यः' इत्यभिधायोत्थितो देवधरः। सहानीतस्वकुटुम्बरूपश्रावकाणां जातं स्थिरीकरणं विधिमार्गविषये। प्राप्तः श्रावकसमुदायसहितोऽजयमेरौ । वन्दिता भावसारं श्रीजिनदत्तसूरयस्तदभिप्रायावगमपूर्वकं कृता पूज्यैर्देशना । जातोऽसौ निःसन्देहः । अभ्यर्थिताः प्रभवः श्रीविक्रमपुरविहारं प्रति । ततो विस्तरेण तत्र देवगृहबिम्बाम्बिकागणधरादिप्रतिष्ठां विधाय समागताः श्रीदेवधरेण सह विक्रमपुरे । प्रबोधितस्तत्रत्यो जनो बहुः । स्थापिता श्रीमहावीरप्रतिमा । ३८. तत्र उच्चायां गच्छतामन्तराये भूतादयस्तेऽपि प्रतिबोधिताः । किं पुनरुच्चकीयलोकः। ततो नवहरे विहृताः। ततस्त्रिभुवनगिरौ, प्रतियोधितस्तत्र कुमारपालो नाम राजा । कृतस्तत्र प्रचुरतरयतिजनविहारः। प्रतिष्ठितो भगवान् शान्तिनाथदेवः । तथोजयिन्या विहारेण प्रतिबोधितं पूज्यैयोंगिनीचक्रम् । तथैकदा श्रीचित्रकूटप्रवेशके दुष्टैरपशकुनाय सम्मु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148