Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 37
________________ खरतरगच्छालंकार १५. ततो वाचनाचार्यो जिनवल्लभगणिः कतिचिदिनानि पत्तनभूमौ विहृत्य न तादृशो विशेषेण बोधो विधातुं कस्यापि शक्यते येन सुखमुत्पद्यते मनसि । ततश्चाऽऽत्मतृतीय आगमविधिना सुशकुनेन भव्यजनमनसि भगवद्भणितविधिधर्मोत्पादनाय चित्रकूटदेशादिषु विहृतः । ते च देशाः सर्वेऽपि प्रायेण देवगृहनिवासिमुनीन्द्राप्ताः । सर्वोऽपि तद्वासितो लोकः, किंबहुना । नानाग्रामेषु विहारं विदधश्चित्रकूटे प्राप्तः । यद्यपि तत्राऽशुभैर्भाविता लोकास्तथाऽप्ययुक्तं कर्तुं न शक्नुवन्ति, पत्तने गुरूणां प्रसिद्धिश्रवणात् । स्थानं याचितास्तत्रत्यश्राद्धाः। तैश्च भणितम्-'चण्डिकामठोऽस्ति यदि तत्र तिष्ठथ' । ततो जिनवल्लभगणिना ज्ञातमशुभबुद्ध्या भणन्त्येते, तथापि तत्रापि स्थितस्य देवगुरुप्रसादाद् भद्रं भविष्यतीति चिन्तयित्वा भणितास्ते-'तत्रैव बहु मन्यध्वं यूयं येन तिष्ठामः' । तैरभाणि तिष्ठत । ततो देवगुरून् स्मृत्वा देवतां चानुज्ञाप्य स्थितास्तत्र । देवता च तेषां ज्ञानेन ध्यानेन सदनुष्ठानेन तुष्टा सती तान् प्रत्ययुक्तं रक्षति । ते चं जिनवल्लभगणयः सर्वविद्यानिधानभूताः। कथम् , तथाहि-वेदितारो जिनेन्द्रमतस्थापकतर्काभयदेवानेकान्तजयपताकादि परदर्शनकन्दली -किरणावली-न्यायतर्कादि पाणिन्याद्यष्टव्याकरणं सूत्रतोऽर्थतश्च, चतुरशीतिनाटक-सर्वज्योतिप्कशास्त्र-पञ्चमहाकाव्यादिसर्वकाव्य-जयदेवप्रभृतिसर्वच्छन्दोज्ञातारः' इति प्रसिद्धिश्चित्रकूटे जाता। सर्वे परदर्शनीयविप्रादिलोका आगन्तुं प्रवृत्ताः । यस्य यस्य यस्मिन् यस्मिन् शास्त्रविषये संशय उत्पद्यते स सर्वोऽपि जनः पृच्छति, यथा सन्देहस्त्रुट्यति तथोत्तरं ददाति । श्रीवका अपि केचन केचन समाजग्मुः । सिद्धान्तवचनानि श्रुत्वा तदनुसारेण क्रियामपि दृष्ट्वा साधारण-सड्डकप्रभृतिश्रावकैः समाधिना श्रीवाचनाचायजिनवल्लभगणयो' गुरुत्वेन प्रतिपन्नाः । गुरूपदेशेन परिज्ञानं, ज्योतिष्कपरिज्ञानमप्यतीवाऽऽसीत् । साधारणेन परिग्रहपरिमाणयार्चनं कृतम् । गुरुगा भणितम्'गृहाणं कियन्मानं ग्रहीष्यसि ?' । 'भगवन् ! विंशतिसहस्रमानं सर्वसंग्रहे करिष्यामि' । पश्चाद् गुरुभिरुक्तम्-'बहुतरं कुरु, किं बहुना, लक्षं द्रम्माणां परिमाणं कारितः। पश्चाद् यथा यथा सर्वसम्पदा प्रवर्धमानः साधारणो जज्ञे तथा तथा संघस्य सर्वसामर्थेन गुर्वाज्ञया साधारणो भवितुं प्रवृत्तः । अन्ये तु श्राद्धास्तथा प्रवर्तितुमारब्धाः। १६. तथाऽश्वयुजि मासे कृष्णपक्षे त्रयोदश्यां श्रीमहावीरगर्भापहारकल्याणकदिने भणितं श्रीजिनवल्लभगणिना श्राद्धानां पुरः-'यदि देवा वन्द्यन्ते देवगृहे महावीरस्य तदा सुभद्रं भविष्यति । षष्ठमपि कल्याणकं गर्भापहारलक्षणम् , *यतः "पंच हत्थुत्तरे होत्था साइणा परिनिव्वुडे" इति सिद्धान्ते भणनात्' । तस्मिन् प्रस्तावे विधिचैत्यं नास्ति । चैत्यनिवासिगुरुदेवगृहेषु गम्यते । पश्चाच्छ्रावकैर्भणितम्-'भयवन् ! यदि युष्माकं सम्मतं तत् क्रियते' । ततः सर्वे श्रावका निर्मलशरीरा निर्मलवस्त्रा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः। ततो देवगृहस्थितयाऽऽयिकया गुरून् श्राद्धसमुदायेनाऽऽगच्छतो दृष्ट्वा पृष्टम्-'को विशेषोऽद्य ?' केनापि कथितम्-वीरगर्भापहारपेष्ठकल्याणकपूजाकरणार्थ समागच्छन्ति । तयाऽचिन्ति -पूर्व केनापि न कृतमेते करिष्यन्तीति न युक्तम् । पश्चात् संयती देवगृहद्वारे पतित्वा स्थिता, द्वारे समागतान् दृष्ट्वा तयाऽशुभयाऽभाणि-'मया मृतया यदि प्रविर्शत' । ततोप्रीतिकं ज्ञात्वा निवर्त्य स्वस्थाने गत्वा श्राद्धरुक्तम्-'बृहत्तरसदनानि सन्त्येकस्य गृहस्योपरि चतुर्विंशतिजिनपट्टकं धृत्वा देववन्दनादिसर्व धर्मप्रयोजनं क्रियते' । गुरुणा भणितं युक्तमेव । तत आराधितं विस्तरेण कल्याणकम् । समाधानं समजनि । ततो १ कोऽपि बोधः । २ नास्ति । ३ येन चित्ते। ४ तत आत्मना तृतीयः। ५ नास्ति। ६ चैत्यनिवासि० । ७ कुर्व । ८ गतः । । एतदन्तर्गता पंक्तिर्नास्ति प्र० । ९ लोकाः। १० जिनवल्लभेनाऽचिन्ति--एतेऽशुभबुद्ध्या भणन्ति । ११ वा० जिन । +-+ एतद्दण्डान्तर्गतः पाठो नास्ति प्र० । १२ श्राद्धाः । १३ समाययुः । १-१ नास्ति प्र० । १४ याचितं । १५ गुरुणोक्तं । १६ 'लक्षं परिमाणं' इत्येव प्र०। १७ ततो। १८ उक्तं। १९ भद्रं भवति। २० श्रीवीरस्य षष्ठं कल्याणकं। * नास्ति प्र० । २१ श्राद्धैः सहा । २२ केनोक्तं । २३ वीरषष्ठं । २४ चिन्तितं। २५ चैत्यद्वारे पतिता मया मृतया मध्ये गमिष्यन्ति-इत्येव । २६ गुरुणोक्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148