Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 36
________________ युगप्रधानाचार्यगुर्वावली । ९ समर्पितम् । गुरुभ्यः सकाशात् स्वगुरुसमीपगमने मुत्कलनवचनं प्रतीच्छति । ततो गुरुणाऽभाणि - 'पुत्र ! सर्व सिद्धान्तं यथाज्ञानं निवेदितम् । तदनुसारेण यथा वर्तसे तथा विधेयम्' । जिनवल्लभगणिना भणितम् -'तथैव यथाशक्ति प्रवर्तयिप्यामि' । ततः प्रधानदिने' चलितो यथागतमार्गेण । पुन र्म रु को ट्टे प्राप्तः । आगच्छता सिद्धान्तानुसारेण देवगृहे विधिलिखितः, येनाविधिचैत्यमपि विधिचैत्यं मुक्ति हेतुर्भवति । स चायम् अत्रोत्सूत्रजनक्रमो न च न च स्नानं रजन्यां सदा, साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जाति- ज्ञातिकदाग्रहो न च न च श्राद्धेषु ताम्बूलमित्याज्ञात्रेयमनिश्चिते विधिकृते श्रीजैन चैत्यालये ॥ [१३] इत्यादिविधिर्विधेयो येन धर्मो मुक्तिमार्गो भवति । ततोऽनन्तरं स्वगुरुसमीपे गन्तुं प्रवृत्तः । प्राप्तौ माइयडग्रामे आसीदुर्गादर्वाक्क्रोशत्रये । तत्रैव स्थितः । गुरुमीलनाय पुरुषः प्रेषितः । तस्य हस्ते लेखो लेखि - 'युष्माकं प्रसादेन सुगुरुसमीपे वाचनां गृहीत्वा माइयडग्रामे समाजगाम । प्रसादं कृत्वाऽत्रैव श्री पूज्यै मिलितव्यम् ।' ततो गुरुभिरज्ञायि'किमिति जिनवल्लभेत्थं निर्दिष्टम्, नात्राऽऽगतः ?' । ततो द्वितीयदिने सँकललोकेन समेतः समायात आचार्यः । अभिमुखगतो जिनवल्लभः । वन्दितो गुरुः । क्षेमवार्ता' पृष्टा गुरुभिः । सर्वा यथोक्ता कथिता । तथा ब्राह्मणसमाधाननिमित्तम्, मेघादिस्वरूपाणि ज्योतिष्कबलेन भणितानि कानिचित्तथा जातानि यथा गुरोरप्याश्चर्यकारीणि । पश्चाद्गुरुणा पृष्टो जिनवल्लभ गणि: - 'किमिति मध्ये त्वं नाऽऽगतः ?' । भणितम् - 'भगवन् ! सुगुरुमुखाजिनवचनामृतं पीत्वा कथं देवगृहनिवासं विषसदृक्षं सेवितुमिच्छामि ?' । ततो गुरुभिर्भणितम् -'भो जिनवल्लभ ! मयेदं चिन्तितमासीत्, तुभ्यं स्वपदं दवा व स्व-गच्छ-देवगृह - श्रावकादिचिन्तां निवेश्य, पश्चात् स्वयं गुरुपार्श्वे वसतिमार्गमङ्गीकरिष्यामः' । जिनवल्लेभो भगति - 'तर्हि किमिति नाङ्गीक्रियते ?, विवेकस्येदं फलमयुक्तं परिहियते युक्तमङ्गीक्रियते । ततोऽभाणि गुरुभिः'एवंविधा निस्पृहता नाऽस्त्यस्माकम् येन चिन्ताकरणसमर्थ पुरुषं विना स्वगच्छे देवगृहादिचिन्तां मुक्त्वा सुगुरुपार्श्वे 'सतिस्थितिमङ्गीकुर्महे; भवता तु विधातव्यं वसतिवसनम्' । ततो गुरुं वन्दित्वा तत्सम्मतेन पुनः पत्तने' विजहार । श्रीमदभयदेवसूरिपादान् भावेन वन्दितवान् । सुगुरोरतीव समाधानं समजनि । चिन्तितं यथा परीक्षितस्तथा जज्ञे । ततो मनसि विदन्ति न कस्यापि निवेदयन्ति - स्वपदयोग्य एष एव परं देवगृहनिवासिशिष्य इति हेतोरिदानीं गच्छस्य सम्मतं न भविष्यतीति - गच्छाधारको वर्द्धमानाचार्यो गुरुपदे निवेशितः । जिनवल्लभगणेः स्वकीयोपसम्पदं दत्तवन्तः–‘अस्माकमाज्ञया सर्वत्रैव "विहर्तव्यः' । एकान्ते प्रसन्नचन्द्राचार्यो भणित: - ' मदीयपदे भव्यलने जिनवल्लभगणी स्थापनीयः । तस्यापि सुगुरुपदनिवेशनप्रस्तावो न जज्ञे । तेनापि स्वायुःपरिसमाप्तिसमये कर्पटकवाणिज्ये देवभद्राचार्याणां विज्ञतम्- 'सुगुरूपदेशः पूर्वोक्तो युष्माभिः सफलीकर्तव्योऽवश्यमेव, मया न कर्तुं शक्तः । तैरपि प्रतिपन्नम् - 'वर्तमानयोगेन करिष्यामः । समाधानं विधेयं किं बहुना ?' पूर्वोक्तकथनेन । नवाङ्गवृच्या भव्यजीवान् सुखिनः कृत्वा कालक्रमेण सिद्धान्तविधिना समाधानेन चतुर्थदेवलोकं प्राप्ताः श्रीमदभयदेवसूरयः ॥ , १ नास्ति पदमेतत् प्र० । २ निजगुरु । ३ ' वाचनां लात्वाऽनागतः' इत्येव प्र० । ४ मिलनीयं । ५ शिष्येणेत्थमादिष्टम् । ६ लोकसमेतोऽभिमुखमाचार्यः । वन्दितो गुरुर्जिनवल्लभेन । ७ तेनोक्तं । ८ चैत्यनिवासं विषवृक्षं । ९ गुरुणोक्तं । १० नास्ति प्र० 'त्वयि स्वगच्छ ' । ११ ततः । १२ जिनवल्लभे नोक्तं । १३ सेव्यते । १४ ततो गुरुणाऽभाणि । १५ नरं । १६ चैत्यादि । १७ वसतिमङ्गीकुर्मः । १८ पत्तनं गतः । १९ नास्ति 'भावेन' । २० जातं । २१ ज्ञातं । २२ चैत्यवासिशिप्य । २३ स्थापितः । २४ सर्वत्र विहर्तव्यं । २५ उक्तः । २६ देशो युष्माभिः सफलीकार्यः मया कर्तुं न शक्तिः । पन्नं करिष्यामः समाधानं कार्यं' इत्येव प्र० । २७ नास्ति पदद्वयं प्र० । एतदङ्कितपाठस्थाने - 'तेन प्रति दु० गु० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148