Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 34
________________ युगप्रधानाचार्यगुर्वावली । १०. तत्स्थानात् पत्त ने समायाताः । क र डि ह ट्टी वसतौ स्थिताः । तत्र स्थितैनवाङ्गानां स्थानप्रभृतीनां वृत्तयः कृताः । यत्र सन्देह उत्पद्यते तत्र स्मरणप्रस्तावे, जया-विजया-जयन्ती-अपराजिता देवताः स्मृताः सत्यस्तीर्थकरपार्श्व महाविदेहे गत्वा तान् पृष्ट्वा निस्सन्देहं तत्स्थानं कुर्वन्ति । ११. तस्मिन् प्रस्तावे देवगृहनिवास्याचार्यमुख्यो द्रोणाचार्योऽस्ति । तेनाऽपि सिद्धान्तो व्याख्यातुं समारब्धः । सर्वेऽप्याचार्याः कपलिकां गृहीत्वा श्रोतुं समागच्छन्ति । तथाऽभयदेवसरिरपि गच्छति । स चाचार्य आत्मसमीपे निषद्यां दापयति । यत्र यत्र व्याख्यानं कुर्वतस्तस्य सन्देह उत्पद्यते, तदा नीचैः स्वरेण तथा कथयति यथाऽन्ये न शृण्वन्ति । अन्यस्मिन् दिने यद् व्याख्यायते सिद्धान्तस्थानं तवृत्तिरानीता। एतां चिन्तयित्वा व्याख्यानयन्तु भवन्तः । यस्ता पश्यति सार्थकां, तस्याऽऽश्चर्यं भवति; विशेषेण व्याख्यातुराचार्यस्य । से चिन्तयति-किं साक्षाद्गणधरैः कृताऽथवाऽनेनाऽपि, तस्मिन् विषये ऽतीवादरो मनसि विहितः । द्वितीयदिने सम्मुखमुत्थातुं प्रवृत्तः । ततस्तादृशं सुविहिताचार्यविषयमादरं दृष्ट्वा, रुष्टा व्युत्थिताः सन्तो वसतौ गता भणन्ति देवर्गृहनिवास्याचार्याः-'केन गुणेनैषोऽधिकः, येनाऽस्माकं मुख्योऽप्येवंविधमादरं दर्शयति; पश्चात् के वयं भविष्यामः । द्रोणाचार्योऽपि बृहत्तरः सदर्थो विशेषज्ञो गुणपक्षपाती सन् नूतनं वृत्तं कृत्वा सर्वेषु देवगृहनिवास्याचार्यमठेषु प्रेषितम् आचार्याः प्रतिसद्म सन्ति महिमा येषामपि प्राकृतै तुं नाऽध्यवसीयते सुचरितैस्तेषां पवित्रं जगत् । एकेनापि गुणेन किन्तु जगति प्रज्ञाधनाः साम्प्रतं, यो धत्तेऽभयदेवसूरिसमतां सोऽस्माकमावेद्यताम् ।। [१०] तत उपशान्ताः सर्वे । द्रोणाचार्येणाऽभाणि श्रीमदभयदेवसूरीणामग्रे-'या वृत्तीः सिद्धान्ते करिष्यसि ताः सर्वा मया शोधनीया लेखनीयाश्च ।' तथा तत्र स्थितेन पारिग्रहिकद्वयं प्रतिबोधितम् , सम्यक्त्वद्वादशव्रतस्थितं कारितम् । तच्च समाधिना श्रावकत्वं प्रतिपाल्य देवलोकं गतम् । देवलोकात् तीर्थकरवन्दनार्थ महाविदेहे गतम् । सीमन्धरस्वामि-युगन्धरस्वामिनौ वन्दितौ, धर्म श्रुत्वा पृष्टौ-'मम गुरुः श्रीमदभयदेवसूरिः कतिथे भवे मुक्तिं गमिष्यति ?' भगवद्भयां भणितम्-'तृतीये भवे सेत्स्यती'ति श्रुत्वा तुष्टौ देवौ स्वगुरुपायें गतौ जिनवार्ता कथिता । वन्दित्वा गच्छद्भयामिमा गाथा पठिता भणियं तित्थयरेहिं महाविदेहे भवंमि तइयंमि । तुम्हाण चेव गुरवो मुत्ति सिग्धं गमिस्संति ॥ [११] सा च स्वाध्यायं कुर्वत्या तिन्या श्रुताऽऽनायिता च गुरूणां निवेदिता । भणितम्-ज्ञाता चैवाऽस्माभिः । १२. पश्चात् पा.ब्द उदा ग्रा मे विहृताः । तत्र सम्बन्धिनो भक्ताः श्रमणोपासकाः सन्ति । तेषां यानपात्राणि वहन्ति। पयोधौ तानि च प्रेषितानि । तेषां चाऽऽगच्छतां क्रयाणकभृतानां वार्ता जाता-'बुडितानि' । ते च श्राद्धा वार्ता श्रुत्वाऽसुखिनो जज्ञिरे । ते च श्रीमदभयदेवसूरिस्मरणप्रस्तावे वसतौ गताः । वन्दिता भगवन्तः । तैश्च पृष्टाः-'किमिति वन्दनकविषयवेलातिक्रमो जातः । 'भगवन् ! कारणेन' । 'किं कारणम् ?' 'पोतबुडनोदन्ताकर्णनेनाऽसुखिताः स्मः तेन नाऽऽगताः । ततः क्षणमात्रं चित्ते ध्यानं धृत्वा भणितम्-अत्र विषयेऽसमाधानं न विधेयं भवद्भिः । पश्चाद् द्वितीयदिने मानुष आगतः। पोताः क्षेमेणोत्तरिताः । वार्तामाकर्ण्य श्राद्धैः सर्वसम्मतेन गुरखो भणिताः-'यावल्लाभः क्रयाणकेन १ ततः पत्तने । २ 'स्थानाङ्ग' । ३ 'लात्वा' । ४ 'यद्यत्र' । ५ 'किं' । ६ 'चैत्यनिवा०' । ७ 'पाल्हउद ग्रामे' । ८ 'श्राद्धाः'। ९ जाताः' । १० 'स्मरणाकाले' । ११ 'उक्तम् । १२ 'चिन्ता न कार्या' । १३ 'उत्तीर्णा' । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148