Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 40
________________ युगप्रधानाचार्यगुर्वावली । १३ २२. अन्यदा धारानगर्यां श्रीनरवर्मराज्ञो राजमान्यां पण्डितसभां श्रुत्वा दक्षिणदिग्विभागात् पण्डितद्वयं कौतुकेन पाण्डित्यस्य दर्शनार्थमाजगाम । आगत्य पण्डितसभामध्ये 'कण्ठे कुठारः कमठे ठकारः' इत्येकपदानुसारिणाऽन्यपदत्रयेण पूरयन्तु समस्यां भवन्तः । प्रत्येकं पूरिता, परं न तयोस्तां दृष्ट्वा मनो मुमुदे । केनापि राज्ञः पुरो भणितम् - 'देव ! न पण्डितपूरिताः समस्याः प्रतिभान्त्यनयोः ।' देवेनाभाणि - 'अस्ति कश्चिदुपायो येनानयोर्मनो रज्यते ?' नापि विवेकिना पुरुषेणोक्तम्- 'देव ! चित्रकूटे श्वेतपटो जिनवल्लभगणिः सर्वविद्यानिधानमाकर्ण्यते । राज्ञा तदैवोष्ट्रद्वयं शीघ्रगतिं सपुरुषं सलेख प्रेषितम्- 'इयं समस्या पूरिता मनोहारिणी सती स्वगुरोः पार्श्वात् समागच्छन्ती शीघ्रं भोः साधारण ! तथा कार्यम्' । प्रतिक्रमणवेलायां सन्ध्यासमये प्राप्तं स्वरूपं साधारणेन । गुरोर्दर्शितं स्वरूपम् । प्रतिक्रमणं कृत्वा पूरिता, लेखिता च रे रे नृपाः ! श्रीनरवर्मभूपप्रसादनाय क्रियतां नताङ्गैः । कण्ठे कुठारः कमठे ठकारश्चक्रे यदश्वोऽग्रखुराग्रघातैः ॥ [१८] आगन्तुक पुरुषद्वयं रात्रावपि मुत्कलितं शीघ्रं प्राप्तम् । तया समस्यया रञ्जित तयोर्मनः, भणितं ताभ्याम् -'अस्यां सभायां नास्तीदृशो विद्वान्, येनेयं पूरिता; किं तर्ह्यन्यः कश्चित् ।' वस्त्रादिदानेन पूजयित्वा मुत्कलितौ । २३. श्रीजिनवल्लभगणिरपि कतिचिद्दिनैर्विहृतो धारायाम् । केनाप्युक्तं राज्ञः पुरो- 'देव ! सोऽपि श्वेतपटो समस्यापूरक आगतोऽस्ति ।' राज्ञोक्तम्- 'शीघ्रमाकारय तम्' । तमाकारितः । राज्ञा तुष्टेनोक्तम्- 'भो जिनवल्लभगणे ! पारुत्थलक्षत्रयं ग्रामत्रयं वा गृहाण' । भणितं गणिभिः - 'भोः महाराज ! वयं व्रतिनोऽर्थादिसङ्ग्रहं न कुर्मः । चित्रकूटे देवगृहद्वयं श्रावकैः कारितमस्ति, तत्र पूजार्थं स्वमण्डपिकादानात् पारुत्थद्वयं प्रतिदिनं दापय' । ततो राजा तुष्टः- अहो निर्लोभता एतस्य महात्मनः श्रीजिनवल्लभगणेरिति चिन्तितवान् । चित्रकूटमण्ड पिकातस्तत् शाश्वतदानं भविष्यतीति कृतम् । श्रीजिनवल्लभगणेर्धार्मिकत्वेन सर्वत्र प्रसिद्धिर्जज्ञे । २४. श्रीनागपुरे श्रावकैर्नेमिनाथदेवगृहं नेमिनाथबिम्बं च कारितमस्ति नूतनम् । तेषामेषोऽभिप्रायो जज्ञे - 'वयं श्रीजिनवल्लभगणिं गुरुत्वेनाङ्गीकृत्य तस्य हस्तेनोभयोः प्रतिष्ठां कारयिष्यामः - इति चिन्तयित्वा सर्वसम्मतेन प्रतिपत्त्या श्रावकैराकारितः श्रीजिनवल्लभगणिः । ततः शुभलग्नेन देवगृहं नेमिनाथविम्बं च प्रतिष्ठितम् । तत्प्रभावालक्षपतयः श्रावको जज्ञिरे । नेमिनाथविम्बे रत्नमयान्याभरणानि कारितवन्तः । [ एवमनेके श्राद्धाः प्रतिबोधितास्तत्र, प्र० ] तथा नरवरश्रावकाणां तथाऽभिप्रायो जज्ञे - 'वयमपि जिनवल्लभगणिं कक्षीकृत्य गुरुत्वेन प्रतिष्ठां देवगृहे च बिम्बे च कारयामः' - इति पर्यालोच्य कृतं तथैव । उभयोरपि देवगृहयो रात्रौ बलिधरण-स्त्रीप्रवेश - लकुटादिदानं निषेधादिको विधिलिखितो मुक्तिसाधकः । ततो मरुकोट्टश्रावकैः श्रीजिनवल्लभगणयो विहारक्रमेण समाहूतास्ततो विक्रमपुरमध्येन मरुकोट्टे विहृताः । तत्र श्राद्धैः श्रद्धावद्भिर्वसतिर्गुप्तिस्थानयुक्ता दत्ता । स्थितास्तत्र । श्रावकैरभाणि - 'भगवन् ! युष्मद्वदनारविन्दाजिनवचनरसमाखादितुमिच्छामः' । 'युक्तमेतच्छ्रावकाणाम्, तद्युपदेशमाला कथयितुमारभ्यते' । तैरभाणि - 'पूर्वमेव श्रुता । तथाऽपि पुनरपि भणितव्या' - अभयदिने भणितुमारब्धा । 'संवच्छर मुस भजिणो' - इत्यादिगाथाया एकस्या भणने षण्मासावधिः कालो लग्नस्तथाऽपि श्रावकाणां नानासिद्धान्तोदाहरणामृतेन तृप्तिर्न जाता । वदन्ति- 'भगवन् ! तीर्थकरा एवैतत्सुखमुत्पादयितुं समर्थाः, वचनामृतेन भगवन्तोऽप्येवंविधातुं समर्थाः - इत्याश्चर्यतुष्टाः श्रावकाः देशनया । २५. अन्यदा कदाचिद् व्याख्यानं कृत्वा श्राद्धैः सह वसतौ समाजगाम । तस्मिन्नेव प्रस्ताव एकः पुरुषोऽश्वारूढः * एतत् प्रकरणं नास्ति प्र० । १ गृहं बिम्बं । २ जाताः श्राद्धाः । ३ नेमिबिम्बे । ४ - ४ एतदङ्काङ्किता पंक्तिर्नास्ति प्र० । ५--५ एतत् समस्तप्रकरणस्थाने प्र० ' ततो मरुकोट्टे विहृतास्तत्र श्राद्धैः सह वसतौ जगाम' - इत्येव पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148