Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 38
________________ युगप्रधानाचार्यगुर्वावली। गीतार्थः श्रावकैर्मत्रितम्-'विपक्षरविधिप्रवृत्तैर्विधिजिनोक्तो विधातुं न लप्स्यते, ततो यदि गुरोः सम्मतं भवति तदा तले उपरि च देवगृहद्वयं कार्यते । स्वसमाधानं गुरोनिवेदितम् । ततो गुरुणा कथितम् जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ [१४] इति देशनया ज्ञातं गुरोर[प्य]भिप्रेतमेव । लोके च प्रवृत्ता वार्ता-एते देवगृहे कारयिष्यन्ति' । प्रह्लादनबृहत्तरेण बहुदाकेनाऽपि कथितम्-एते कापालिका देवगृहे कारयिष्यन्ति, राजमान्या भविष्यन्ति । इदं च श्रुतं गुरुणा। ततो बहिभूमौ गच्छतः श्रीजिनवल्लभगणेः सोऽपि मिलितस्तथा भणितः-'भद्र ! गर्वो न विधेयः । एतेषां मध्यात् कश्चिद्राजमान्योऽपि भविष्यति, यस्त्वां बद्धमुच्छोटयिष्यति । ततः श्रावकैः सोत्साहैमिलित्वा देवगृहे कारयितुमारब्धे । देवगुरुप्रसादेन प्रमाणीभूते । उपरि श्रीपार्श्वनाथविम्बं तले च महावीरबिम्बं कारितम् । विस्तरेण प्रतिष्ठा जाता। विधिना श्रीजिनवल्लभगणिभिः कृता । सर्वत्र प्रसिद्धिर्जातैत एव गुरवः । १७. अन्यदा ब्राह्मणः कश्चिज्ज्योतिष्किकः पण्डितमानी श्रीजिनवल्लभगणिसमीपे समागतो लोकमध्ये श्लाघां क (श्रु ?) त्वैवंविधा धर्मशास्त्रविदः, श्वेतपटाः समाजग्मुः । श्रावकैः पट्ट आसनं दत्तम् । गुरुणा पृष्टः-'कुत्र भवतो वासः' 'अत्रैव' । पश्चाद्गुरुभि पितः–'कस्मिन् शास्त्रे विशेषेणाभ्यासोऽस्ति ?' । 'ज्योतिष्के' । 'चन्द्रादित्यलग्ने सम्यग्वेत्सि ?' 'सम्यगेव, किमत्रैवागणित एकं द्वे त्रीणि च लग्नानि भणामि ।' जिनवल्लभगणिना ज्ञातम्-'गर्वेणाऽऽगतः।' गुरुणोक्तम्-'भद्रं परिज्ञानम् ।' स ब्राह्मणः पृच्छति-'युष्माकमपि परिज्ञानं विद्यते, लग्नविषये भविष्यति किञ्चित्तहिं कथयन्तु भगवन्तः । 'कति कथयामि दश विंशतिर्वा लग्नानि ?' । तस्यातीवाश्चर्यमभूत् । पश्चाच्छ्रीजिनवल्लभगणिना भणितम्-'भो विप्र ! गगने हस्तद्वयमाना डम्बरिका दृश्यते सा कियन्मात्रं पानीयं करिष्यति ? । [विप्रोजानानः शून्यदृष्टिदिशोऽवलोकयति । ततो भणितं गुरुणा-'भो विप्र! भाजनद्वयं यावत्'] पश्चादत्रैवोपविष्टस्य क्षणमात्रेणैव तया डम्बरिकया सकलं गगनमाच्छाद्य वृष्टिः कर्तुमारब्धा, तावदृष्टिजज्ञे यावद्भाजनद्वयमपि परिपूर्णीभूतम् । ततो विप्रो मस्तके हस्तौ योजयित्वा सुगुरोः पादयोः पतित्वा भणितवान्-'यावत्तिष्ठाम्यत्र तावद्भगवती पादान् वन्दित्वा निश्चयेन भोजनं विधास्यामि । न मयाऽज्ञायि भगवन्त एवंविधाः' । पश्चात् सर्वत्रैव प्रसिद्धिर्जाता ज्ञानिन एव श्वेतपटा भवन्तीति । १८. अन्यदा कदाचिन्मुनिचन्द्राचार्येण शिष्यद्वयं सिद्धान्तवाचनानिमित्तं श्रीजिनवल्लभगणिपार्श्वे प्रेषितम् । गणिरपि तयोर्वाचनां दातुं प्रवृत्तः। तावप्यशुभौ चिन्तयतो जिनवल्लभगणेः श्राद्धान् विप्रतारयाव इति बुद्ध्या रञ्जयन्तः श्रावकार्न । कदाचित् स्वगुरुपार्श्वे प्रेपितुं लेखोऽलेखि । तं च वाचनाकपलिकायां प्रक्षिप्य वाचनां ग्रहीतुं गतौ तौ वसतौ । गणिसमीपे वन्दनं दत्त्वोपविष्टौ तत्र । उच्छोटिता कँपलिका । ततो नंतनो लेखो दृष्ट्वा गृहीतः, उच्छोटितश्च । तावपि हस्ताद् गृहीतुं न शक्नुतः । अवधारितो लेखः । तत्रालेखि-'जिनवल्लभगणेः केचिच्छ्राद्धाः स्ववशं नीताः सन्ति, क्रमेण सर्वे (सर्वान् ?) वशीकरिष्याव इति मनोवृत्तिरस्ति' । ततः श्रीजिनवल्लभगणिना द्विधा विधायाऽऽर्याऽभाणि १-१ एतदद्वयमध्यगतः पाठो नास्ति प्र० । २ चैत्ये । ३ चैत्ये । ४ जिनवल्लभेन कृता इत्येव प्र० । ५-५ गुरुपार्श्व आगतः । आसनं दत्तं श्राद्धैः-इत्येव प्र० । ६-६ 'गुरुणा भाषितः' इत्येव प्र०। ७-७ युष्माकं परिज्ञानमस्ति । किंचित् । कथयन्तु भवन्तः--इति प्र० । ८ ततो गुरुणोक्तम् । ९ जलं । १० प्र०--वृष्टिः कृता भाजनः । ११ नियोज्य । १२ भवतां । १३ नास्ति । १४ करिष्ये । १५ 'ज्ञानिनः श्वेतपटा इति लोके प्रसिद्धिर्जातेति ।' इत्येव । १६ श्राद्धान् । १७ अन्यदा । १८ ‘कपिलिका' मूलादर्शे । १९ 'नूतनं लेख' प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148