Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 42
________________ १५ खरतरगच्छालंकार दीयमुखचूरणार्थमात्ममुखमण्डनार्थ च' । पश्चाद्गतः स न किमपि वक्तुं शक्तः । भणनस्थाने गतः। तत्रानेकेऽधिकारिपुत्रा भणन्ति पञ्जिकाम् । सा च धर्मशाला । तत्र सोमचन्द्रोऽपि भणति। अन्यदा कदाचित्तेनाचार्यण परीक्षार्थ पृष्टैः-'भो सोमचन्द्र ! नवकारो यथार्थ नाम ?' पश्चादभाणि सोमचन्द्रेण-'मैवमाचार्या भणन्तु, किं तर्हि ? नवकरणं नवकार एवं व्युत्पत्तिः कार्या' । आचार्येण ज्ञातं वक्तुं न शक्यतेऽनेन सह । सदुत्तर एषः।। ____ अन्यदा लोचदिने न गन्तुं शकितो व्याख्याने। व्याख्यानव्यवस्थेशी-योकोऽपि छात्रो नागच्छति तदा व्याख्यानं न भाणय त्याचार्यः । ते अधिकारिपुत्रा गर्विष्ठा भणन्ति-'तस्य स्थाने पाषाणो धृतः' भाणयन्त्वाचार्या व्याख्यानम् । तदनुरोधेन भाणितम् । द्वितीय दिने त्वागतः सोमचन्द्रो भणितवान्-'युक्तं कृतं यन्मम स्थाने पाषाणो धृतः। परं यावती पञ्जिका भाणिता तावती मां पृच्छन्तु, एतानपि; याथातथ्यां यो भणिष्यति, स न पापाणोऽन्यः पापाण एव' । 'भोः सोमचन्द्र ! खां कस्तूरिकां जानाम्येव परमेतेमूखैः प्रेरितो व्याख्याने, क्षन्तव्यं भवता ।' २९. हरिसिंहाचार्येण सर्वा सिद्धान्तवाचना दत्ता पण्डितसोमचन्द्राय । तथा मन्त्रपुस्तिका कपलिका च दत्ता यया सिद्धान्तवाचना गृहीता, भगवता तुष्टेन । तथा देवभद्राचार्येण कटाखरणं दत्तं येन महावीरचरितादि चखारि कथाशास्त्राणि पट्टिकायां लिखितानि तुष्टेन । पण्डितसोमचन्द्रगणिामानुग्रामं ज्ञानी ध्यानी मनोहारी सन् विहरति यतिक्रमेण श्रावकाणामतीवाह्लादकारी । ३०. ऐवं सोमचन्द्र पण्डिते विहारं कुर्वति सति श्रीदेवभद्रसूरिभिः श्रीजिनवल्लभसूरीणां देवलोकगमनमश्रावि । अती4 सन्ताप उत्पन्नः । अहो सुगुरूणां पदमुद्योतितमासीत् परं विघटितम् । पश्चाद् देवभद्राचार्याणामीदृश चित्तमुदपादियदि श्रीजिनवल्लभसूरेयुगप्रधानपदं योग्यस्थानेन नोद्धियते तदा का भक्तिः कृता भवति । पश्चाच्चिन्तयत्याचार्योऽस्मिन् गच्छे कस्तत्पदयोग्यः । चिन्तयतश्चित्ते पण्डितसोमचन्द्रो लग्नः-एष एव योग्यः, श्रावकाणामानन्दकारी ज्ञानध्यानक्रियापरवात् । पश्चात् सर्वसम्मतेन 'पण्डितसोमचन्द्रस्य लेखो दत्तः-खया चित्रकूटे समागन्तव्यम् , येन श्रीजिनवल्लभसूरीणां पदे निवेशयामि त्वाम् । तेषामपि सम्मतमेतत् 'श्रीजिनवल्लभसूरीणाम् । यतः पूर्वमेवाकारित आसीत् । अनेके तत्पदे स्थातुमभ्युद्यता आसन् । किं बहुना सोमचन्द्रपण्डितो देवभद्राचार्या अपि समाजग्मुः। सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभसूरिपदे सूरिस्थापनं भविष्यतीति । 'श्रीचित्रकूटे श्रीजिनवल्लभमूरिप्रतिष्ठिते श्रीमहावीरचैत्ये श्रीसाधारणसाधुना श्राद्धेन पूजिते श्रीमहावीरसंघे-त्वामहं श्रीजिनवल्लभसूरिपदे स्थापयिष्यामि -अर्वागेव दिने पण्डितसोमचन्द्रं भणितवान् श्रीदेवभद्रसूरिरेकान्ते-'अस्मिन् दिने परिभावितमस्ति लग्नम्' । 'युक्तमेतत् , परं यद्यस्मिन् लग्ने स्थापयिष्यथ तदा न चिराय जीवितं भविष्यति । यदी तु षण्णां दिनानामुपरि शनैश्चरवारे यल्लग्नं भविष्यति तत्रोपविष्टानामस्माकं चतुर्दिक्षु विहरतां चतुर्विधश्रीश्रमणसंघः श्रीजिनवल्लभसूरिवचने प्रभूतो भविष्यति । श्रीदेवभद्रसूरिभिरमाणि-'तल्लग्नं न दूरे, तत्रैव भवतु' । ततस्तस्मिन्नेव दिने -११६९ वैशाख सुदि १-चित्रकूटे श्रीजिनवल्लभसूरिपदे विस्तरेण संस्थापिताः श्रीजिनदत्तसूरिनामानः । सन्ध्यासमयं यावल्लग्नवेला, ततो वादित्रैर्वाद्यमानैः समागता वसतौ । प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिमिभणितम्-'देशनां कुरुत'। तथा देशना सिद्धान्तोदाहरणैः सुधा १ नास्ति प्र०।२ शकितः। ३ पृष्टः सोमचन्द्रः। ४ इति । ५ नायाति । ६ भणत्या० । ७ व्याख्यानं । ८ द्वितीयेऽहि । ९-९ किं करोग्याचार्येणोक्तमेतैमूर्खः प्रेरितः । १० हरिचन्द्राचा०। ११-११ एतदकाङ्किता पंक्तिर्नास्ति प्र० । १२ ज्ञानी ध्यानी श्राद्धानामतीवाह्लादकारी विहरति । १३ एवं विहरति । १४ °सूरिणा। १५ °सूरेः । १६ 'अतीव' नास्ति । १७-१७ 'ततो गच्छे आचार्येणोपयोगो दत्तः। सोमचन्द्रो लमः, जनानन्दकारी' । १८ लेखः प्रेषितः सोमचन्द्राय । - एतदङ्किता पंक्तिर्नास्ति प्र०। १९-१९ श्रीजिनवल्लभसूरिप्रतिष्ठिते श्रीवरचैत्ये सूरिपदे स्थापयामि । २० यदि । २१ शनिवारे। २२-२२ 'चतुर्विधः संघः प्रभूतो' । २३ आचार्येणोक्तं तत्र भवतु । २४ दिने सूरिपदे। २५श्रीआचार्येणोक्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148