Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 35
________________ खरतरगच्छालंकार भविष्यति; तदर्धेन सिद्धान्तलेखनं कारयिष्यामः' । गुरुणाऽभाणि-'भवतां मुक्तिकारणम् , युक्तः परिणामः, कर्तव्य एव । ततः पुनरपि प त ने समायाताः श्रीमदभयदेवसूरयः । सर्वदिक्षु प्रसिद्धि प्रापुरेत एव सिद्धान्तपारगाः । १३. तत आ शी दुर्गे श्रीमत्कूर्चपुरीयदेवगृहनिवासिजिनेश्वरसरिरासीत् । तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य मठे पठन्ति । तत्रापि जिनवल्लभनामा श्रावकपुत्रोऽस्ति । तस्य पिता मृतो । मात्रा पालितः। पाठयोग्यः सन् मठे पठितुं क्षिप्तः । सर्वेभ्यश्चट्टेभ्यः सकाशात्तस्याधिकः पाठ आजगाम । अन्यदा, कदाचित् तेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तम् । तत्र विद्याद्वयं लिखितमस्ति, सर्पाकर्षणी मोक्षणी च । प्रथमं प्रथमा वाचिता । तस्याः प्रभावेन सर्वाभ्यो दिग्भ्यः सर्पानागच्छन्तो दृष्ट्वा निर्भीकेनाऽचिन्ति-विद्याप्रभावोऽयम् । पुनस्तले द्वितीया वाचिता, तत्प्रभावेण पश्चान्मुखाश्चलिताः । एतत्स्वरूपं गुरुणा श्रुतम् । तेन विदित-बहुगुण एषः स्वीकर्तुं युक्तः। ततस्तं वशीकृत्य तन्मातरं प्रियवचनैः सम्बोध्य द्रम्मशतपञ्चकं तस्यै दापयित्वा जिनवल्लभो विनेयः कृतः । लक्षणादिसर्वा विद्याः पाठिताः। कदाचित्तस्याऽऽचार्यस्य ग्रामादौ प्रयोजनमुपस्थितम् । तेन गच्छता पण्डितजिनवल्लभायाऽऽढतिदत्ता-'सर्वा चिन्ता कार्या यावत् प्रयोजनं विधायाऽऽगच्छामि' । 'भवद्भिः शीघ्रं स्वप्रयोजनं निष्पाद्याऽऽगन्तव्यम् । ततो द्वितीये दिने चिन्तितं जिनवल्लभेन-'भाण्डागारमध्ये मञ्जुषा पुस्तकभृता दृश्यते, एतेषु पुस्तकेषु किमस्ति ?' । तद्वशे सर्व ज्ञानमस्तीत्येकं पुस्तकमुच्छोटितं सिद्धान्तस्य । तत्रोक्तं पश्यति-'यतिना द्विचत्वारिंशद्दोषविवर्जितः पिण्डो गृहस्थगृहेभ्यो मधुकरवृत्त्या गृहीत्वा संयमहेतुर्देहधारणा कर्तव्या-इत्यादिविचारान् दृष्ट्वा मनसा विस्मितः-'अहो व्रताचारौ न्यायेन मुक्तौ गम्यते । नाऽस्माकमाचारो मुक्तिगमनयोग्यः' इत्यादि परिभाव्य गम्भीरवृत्त्या यथास्थितिं कृत्वा भणितरीत्या स्थितः । आचार्योऽपि समागतः । तेन चिन्तितम्-'किमपि स्थानं न हीनं समजनि, सर्व जिनवल्लभेन भव्यरीत्या धारितम् । तस्माद् यथा योग्यश्चिन्तितस्तथा भविष्यति । परं सर्वा विद्या अनेन सिद्धान्तं विनाऽभ्यस्ताः । सा च सिद्धान्तविद्या सम्प्रति श्रीमदभयदेवमूरिसमीपे श्रूयते । तस्य पार्श्वे जिनवल्लभं प्रेषयित्वा सिद्धान्तवाचनां ग्राहयित्वा स्वपदे निवेशयामः' इति परिभाव्य वाचनाचार्य कृत्वा पञ्चशतसुवर्ण निर्व्याकुलभोजनादियुक्तिं च जिनशेखराभिधानद्वितीयशिष्यवैयावृत्त्यकृत्सहितं च जिनवल्लभं श्रीअभयदेवमूरिसमीपे मुत्कलितो मरु को ट्ट मध्ये । अन हिल्लं पत्त ने गच्छता म रु कोट्टे रात्रौ माणूश्रावकदेवगृहे प्रतिष्ठा कृता । ततः प त ने प्राप्तः। श्रीमदभयदेवरिवसतिं पृष्ट्वा गतस्तत्र । दृष्टो गुरुभक्त्या वन्दितः । गुरुणा च दर्शनमात्रेण चूडामणिज्ञानाच्च ज्ञातः-योग्यो जीवो दृश्यते । पृष्टश्च 'किमागमनप्रयोजनम् ?' । 'गुरुणा श्रीपूज्यपादपॅझे सिद्धान्तवाचनारसास्वादलम्पटो मधुकरसदृशः प्रेषितोऽहं युष्माकं पार्श्वे' । पश्चादचिन्ति सुगुरुणा-देवगृहनिवासिगुरुशिष्य एषः, परं योग्यः । सिद्धान्तवचनं च चिन्तितम् मरिजा सह विजाए कालंमि आगए विऊ। अपत्तं च न वाइजा, पत्तं च न विमाणए ॥[१२] इति परिभाव्योक्तम्-'युक्तं विहितं भवता यत्सिद्धान्तवाचनाभिप्रायेणात्र समागतः । ततः प्रधानदिने वाचनां दातुमारब्धा । यथा यथा सुगुरुर्जिनवचनवाचनां ददाति तथा तथा सन्तुष्टः सन् शिष्यः सुधारसमिव तामास्वादयति । तं तादृशं शिष्यमवलोक्य गुरुरप्यानन्दभाक् संपनिपद्यते । पश्चात् सुगुरुरहनिशं तथा तथा ज्ञापनाबुद्ध्या वाचनां दातुं प्रवृत्तो यथा स्तोकेनैव कालेन सिद्धान्तवाचना परिपूर्णा भूती १४. तथा गुरोज्योतिष्किक एकः प्रतिपन्न आसीत्-'यदि भगवतां कश्चिच्छिष्यो योग्यो भवति तदा मह्यं समर्पणीयो येन तस्मै ज्योतिष्कं समर्पयामि यथापरिज्ञातम्' । ततो जिनवल्लभगणिः समर्पितः । तेनाऽपि तस्मै यथापरिज्ञानं १ नास्ति पदमेतत् प्र० । २ नास्ति 'कदाचित्' । ३ 'तेनाचिन्ति जिनवल्लभेन' इत्येव प्र० । ४ 'पार्थे' । ५ 'अनघिल्ल०' आदर्श । ६ 'माणदेवश्रावकगृहे' । ७ नास्ति पदमेतत् प्र० । ८ 'दृष्ट्वा' । ९ 'जातः' । १० 'ततः' । ११ 'पूर्णी जाताः'। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148