Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 33
________________ ६ खरतरगच्छालंकार 'मसट सटच' । प त्त ने गत्वा यस्याssचार्यस्य हस्तेन प्रक्षालितानि यास्यति स युगप्रधानः । सर्वासु वसतिषु गतः, दर्शितान्यक्षराणि, न केनापि बुद्धानि । श्रीजिनेश्वरसूरिवसतौ गतः । दर्शितान्यक्षराणि । चिन्तयित्वा प्रक्षालितानि, गाथात्रयं चालेखि । तेन चिन्तितम् - एष युगप्रधानः । विशेषेण गुरुत्वेनाऽङ्गीकृतः । इत्यादितीर्थकरमहावीरदर्शितधर्मप्रभावनां कृत्वा श्रीजिनेश्वरसूरिर्देवत्वं गतः । ८. पश्चजिनचन्द्रसूरिः सूविर आसीत्, यस्याष्टादश नाममालाः सूत्रतोऽर्थतश्च मनस्यासन् । सर्वशास्त्रविदा येनाऽष्टादशसहस्रप्रमाणा ‘संवेग रंगशाला' मोक्षप्रासादपदवी भव्यजन्तूनां कृता । येन जा वा लिपु रे विहृतेन श्रावकाणामग्रे 'चीवंदणमावस्सय' इत्यादिगाथाया व्याख्यानं कुर्वता, ये सिद्धान्तसंवादाः कथितास्ते सर्वे सुशिष्येण लिखिताः । शतत्रयप्रमाणो 'दिनचर्याग्रन्थो' जातः श्राद्धानामुपकारी । सोऽपि श्रीवीरधर्म याथातथ्यं प्रकाश्य दिवं गतः । 1 ९. तदनन्तरं श्रीमदभयसूरिर्नवाङ्गवृत्तिकर्ता युगप्रधान आसीत् । स कथं नवाङ्गवृत्तिकर्ता, तत्राह - तस्य शम्भा ग्रामे शरीरकार बभूव । यथा यथौषधादिः प्रयुज्यते तथा रोगो वृद्धिं याति, न निवर्तते । लोकः पृथग्ग्रामेषु भक्तः, यदा यदा चतुर्दशीप्रतिक्रमणं भवति ततश्चतुर्योजनदूरक्षेत्रादागत्य प्रतिक्रामन्ति श्रावकास्तत्र । कदाचिदतीव रोगाक्रान्तं शरीरं ज्ञात्वा दुष्कृतनिमित्तं समाहूताः सर्वे श्राद्धाः । त्रयोदशीदिने पश्चाद्रात्रौ प्रहरद्वये शासनदेवता समाजगाम । तयाsभाणि - 'स्वपिषि जागर्षि वा ?' । ततो मन्दं मन्दं भणितम् - 'जागमिं' । तया भणितम् - 'शीघ्रमुत्तिष्ठ, सूत्रकुक्कुटिका नवोन्मोचय' । भणति - ' न शक्रोमि' । 'कथं न शक्नोषि ? अद्यापि बहुकालं जीविष्यसि, नवाङ्गवृत्तौ प्रतिविधास्यसि' | 'कथं विधास्याम्येवंविधे शरीरे ?' । तत उपदेशं ददति देवता - 'स्तम्भ न क पु रे से ढी नद्युपकण्ठे खंखरापलाशमध्ये पार्श्वनाथप्रतिमा स्वयम्भूर्विद्यते । तस्या अग्रे देवान् वन्दख येन स्वस्थशरीरो भवसि । पश्चाद्देवताऽदर्शनी भूता । प्रभाते मिथ्यादुष्कृतं दास्यन्ति गुरवः - इत्यभिप्रायेणाऽऽगन्तुकाः स्थानस्थिताश्च सर्वे मिलित्व समययुः । पूज्या वन्दिताः । वन्दितैः सद्भिर्भणितम्- 'स्तम्भ न क पु रे श्रीपार्श्वनाथदेवो वन्दनीयः । ततोऽज्ञायि श्राद्धैःश्री पूज्यानामुपदेशो जातः । ततो भणितं तैर्वयमप्यागमिष्यामः । ततो गुरूणां वाहनं कृतम् । बुभुक्षा सर्वथैव नष्टाssसीत् । प्रथमेऽपि प्रयाण के रसविषयेऽभिलाषोऽभूत् । क्रमेण ध व ल कं यावत् प्राप्तस्य शरीरं स्वस्थं जातम् । पश्चात् पादैः स्तम्भ न क पुरे विहृतः । श्रावकाः श्रीपार्श्वनाथप्रतिमामवलोकयितुं प्रवृत्ताः । कुत्राऽपि न दृष्टा । पश्चाद् गुरवः पृष्टाः, तैरभाणि - 'खंखरापलाशमध्येऽवलोकयत' । ततोऽवलोकिता दृष्टा देदीप्यमानी । प्रतिदिनं गौरेका स्नानाय दुग्धं क्षरति । ततस्तैस्तुष्टैरागत्यं भणितं गुरोः पुरः - 'भगवन् ! दृष्टा यथा भणिता' । ततो भगवान् वन्दनाय भक्त्या चलितः । दृष्टा तत्र, वन्दिता भक्त्या । तत ऊर्द्ध स्थितेन देवप्रभावात् तदैव 'जय तिहुयणे 'त्यादि नमस्कारद्वात्रिंशिका कृता । देवताभिर्भणितम् -'नमस्कारद्वयमुत्तारय; तस्मिन् ध्याते सर्वस्यापि प्रत्यक्षीभवनं भविष्यति । तदपि कष्टम् । त्रिंशताऽपि नमस्कारैर्ध्या तैः सर्व भद्रं विधास्यामः । तत उत्तारितम् । समुदायेन सह देववन्दनं कृतम् । समुदायेनें विस्तरेण स्नानाद्याभरणपूजा कृता । तत्र स्थापना विहिता । देवगृहं जातम् । सर्वलोकवाञ्छितेपूरणेन श्रीमदभयदेवसूरिस्थापितं श्रीपार्श्वनाथतीर्थं नाम प्रसिद्धिं गतम् । * एतत् स्थाने 'तीर्थं प्रभाव्य' इत्येव प्र० । १ ' ततः' । २ नास्ति पदमेतत् प्र० । ३ ' वीरशासनं ' । ४ ततोऽभयदेवसूरि' । ५ 'आसीत्' नास्तिं प्र० । ६ पतितं मूलादर्शे पदमेतत् । ७ ' तदा तदा' । ८ 'वपुः' । ९ 'समागता' । १० 'शक्ष्यसि' । ११ ‘ददते' । १२ 'अदृश्यी' । १३ ' लास्यन्ति' । १४ 'मिलिताः । १५ 'गताः । १६ 'श्राद्धाः । १७ 'तैः । १८ नास्ति पदमेतत् प्र० । १९ ' आगत्योक्तं भगवन्' । २० 'पूज्या वन्दनाय चलिताः । २१ 'करिष्यामः' । २२ 'संघेन' । २३ सर्वलोकेप्सित' । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148