Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• संयोगजभावस्य मिथ्यात्वम् • विविच्यमानस्यैकत्राप्यनन्त'र्भावेन मिथ्यात्वात् ।३०।।। पुद्गलसंयोगजन्यभावस्य विविच्यमानस्य = भेदनयार्पणया गृह्यमाणस्य एकत्रापि आत्मनि कर्मणि वा कुत्रापि अनन्तर्भावेन = अन्तर्भावाऽसम्भवेन तत्त्वान्तराऽयोगेन च मिथ्यात्वात् = काल्पनिकत्वात् ।
अयमाशयः शबलरूपाया भित्तेः खटिकया रञ्जने या श्वेतभित्तिर्दृश्यते सा न केवलायां भित्तावन्तर्भवति, तस्याः स्वरूपतः श्वेतत्वविरहात्, अन्यथा श्वेतीकरणाऽनावश्यकत्वापत्तेः। न वा केवलायां खटिकायां, तस्याः श्वेतभित्तिगतकाठिन्योच्चस्तरत्व-बाहल्य-दैर्घ्य स्थौल्यादिधर्मशून्यत्वात्, अन्यथा खटिकाया भित्तिरूपतापत्तेः । इत्थं यथा केवलायां भित्तौ खटिकायां वाऽनन्तर्भूतायाः श्वेतभित्तेः सांयोगिक्या मिथ्यात्वापराभिधानं तुच्छत्वं तथैव जीवस्थान-गुणस्थानादिपरिणामानां न केवले आत्मनि तादात्म्यसम्बन्धेन समावेशः, सिद्धेषु विरहात्; न वा केवलेषु पुद्गलेषु, घटादिष्वसम्भवादिति परमार्थचिन्तायां सांयोगिकानां तेषां तुच्छत्वमेव । यथोक्तं अध्यात्मसारे →
नाऽणूनां कर्मणो वाऽसौ भवसर्गः स्वभावजः । एकैकविरहेऽभावान्न च तत्त्वान्तरं स्थितम् ।। श्वेतद्रव्यकृतं श्वैत्यं भित्तिभागे यथा द्वयोः । भात्यनन्तर्भवच्छून्यं प्रपञ्चोऽपि तथेक्ष्यताम् ।। यथा स्वप्नावबुद्धोऽर्थो विबुद्धेन न दृश्यते । व्यवहारमतः सर्गो ज्ञानिना न तथेक्ष्यते ।। . मध्याह्ने मृगतृष्णायां पयःपूरो यथेक्ष्यते । तथा संयोगजः सर्गो विवेकाऽख्यातिविप्लवे ।। गन्धर्वनगरादीनामम्बरे डम्बरो यथा । तथा संयोगजः सर्गो विलासो वितथाकृतिः ।।
- (अ.सा.१८/२६-३०) इति । यद्वा → जह सेडिया दु ण परस्स सेडिया, सेडिया य सा होइ । तह जाणओ दु ण परस्स जाणओ सो दु ।। (स.सा.३५६) इति समयसारगाथावृत्त्युक्तदिशाऽयं प्रघट्टको भावनीयः
परेषामपि सम्मतमिदम् । तदुक्तं मैत्रायण्युपनिषदि → द्वे वाव ब्रह्मणो रूपे मूर्तं चाऽमूर्तं च । अथ यन्मूर्तं तदसत्यं, यदमूर्तं तत्सत्यं तद् ब्रह्म तत् ज्योतिः - (मैत्रा.६/३) इति । → जन्ममृत्यु-जराद्या ये अशुद्धाः पर्यवाश्च ते । भिन्नाः शुद्धात्मनो ज्ञेयास्तत्र स्वत्वं न किञ्चन ।। - (अध्या.गी.७) इति अध्यात्मगीतावचनमप्यत्र स्मर्तव्यम् । तदुक्तं न्यायखण्डखाद्ये ग्रन्थकृता → अशुद्धिः शुद्धिं न स्पृशति वियतीवात्मनि कदाप्यथारोपात्कोपारुणिमकणिकाकातरदृशाम् । ગુણસ્થાન વગેરે ભાવોનો નથી આત્મામાં અન્તર્ભાવ કરી શકાતો કે નથી તો પુદ્ગલમાં અંતર્ભાવ કરી શકાતો. કારણ કે જીવસ્થાન, ગુણસ્થાન વગેરે ભાવોમાં રહેલ પૌગલિકપણું – એકેન્દ્રિયપણું વગેરે શુદ્ધ આત્માનું કાર્ય ન હોવાથી આત્મામાં તે ભાવોનો સમાવેશ થઈ શકતો નથી. તથા તે ભાવોમાં રહેલ ઉપયોગ અંશ પુદ્ગલનું કાર્ય ન હોવાથી પુદ્ગલમાં પણ તે ભાવોનો સમાવેશ થઈ શકતો નથી. જડ અને પુદ્ગલ આ બન્નેમાંથી કોઈ પણ એકમાં તે ભાવોનો અંતર્ભાવ ન થવાના લીધે કેવલ ભેદનયની દૃષ્ટિએ = શુદ્ધનિશ્ચયનયની દૃષ્ટિએ તે જીવસ્થાનાદિ ભાવો મિથ્યા છે, કાલ્પનિક છે. જેમ દીવાલમાં ચૂનો ચોપડવામાં આવે તો તે સફેદ દીવાલનો કેવલ ભીંતમાં કે કેવળ ગુનામાં સમાવેશ થતો નથી. કારણ કે સફેદાઈ દીવાલનો ગુણધર્મ = ભાવ નથી. તથા ઊંચાઈ-જાડાઈ-લંબાઈ-પહોળાઈ-દીવાલપણું ચુનાનો પરિણામ નથી. માટે સફેદ हीपालनो माथी. मेयमा समावेश यतो नथी. ते रीत. प्रस्तुतम सम४. (१०/30) १. '...नन्तभावेन' इत्यशुद्धः पाठो मुद्रितप्रतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org