Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 330
________________ • उभयापेक्षानुविद्धानुष्ठानस्वरूपमीमांसा • "उभयाऽपेक्षाजनितमतिरिच्यते' ? न, उभयाऽपेक्षायामप्यधिकस्य बलवत्त्वादिति सम्भावयामः ।।१२।। परेषामपि सम्मतमिदम् । तदुक्तं शिवगीतायां अपि → फलं कामयमानास्ते चैहिकाऽमुष्मिकादिकम् । क्षयिष्ण्वल्पं सातिशयं ततः कर्मफलं मतम् ।। तदविज्ञाय कर्माणि ये कुर्वन्ति नराऽधमाः । मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ।। - (शि.गी.१४/३६-३७) इति । न चाऽनर्थसम्पादकत्वसाम्येऽपि कथमनयोर्भेदेनोपन्यासः ? इति शङ्कनीयम्, विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यासः (यो.वि.वृ. १२) इति योगविंशिकावृत्ती व्यक्तम् । अध्यात्मसारेऽपि → दिव्यभोगाऽभिलाषेण कालान्तरपरिक्षयात् । स्वाऽदृष्टफलसम्पूर्तेर्गराऽनुष्ठानमुच्यते ।। यथा कुद्रव्यसंयोगजनितं गरसंज्ञितम् । विषं कालाऽन्तरे हन्ति तथेदमपि तत्त्वतः ।। - (अ.सा.१०/५-६) इति । अनयोरनुष्ठानयोर्हेयत्वेनैव सर्वत्र निदानपरिहार आगमे दर्शितः । तदुक्तं स्थानाङ्गसूत्रे → सव्वत्थ भगवता अणिताणता पसत्था - (स्था.सू. ६।६।५२९) इति । इदमुपजीव्य ग्रन्थकृताऽपि अध्यात्मसारे → निषेधायानयोरेव विचित्राऽनर्थदायिनोः । सर्वत्रैवाऽनिदानत्वं जिनेन्द्रैः प्रतिपादितम् ।। - (अ.सा. १०/७) इति गदितम् । ननु यत्रैहिकाऽऽशंसा केवला तस्य विषाऽनुष्ठानत्वम्, यत्र च केवला परलोकाशंसा तस्य गरानुष्ठानत्वमिति सुष्ठु ज्ञातम्। किन्तु यत्रैहिकाऽऽमुष्मिकफलाऽऽशंसा तस्य का संज्ञेति चेत् ? अत्रोच्यते, उभयाऽपेक्षाजनितं = इहलौकिक-पारलौकिकाऽऽशंसाप्रयुक्तं देवपूजाद्यनुष्ठानं न अतिरिच्यते = न विशिष्यते, विष-गराऽनुष्ठानभिन्नं न भवतीति यावत् । न चाऽनयोरन्यतराऽऽशंसाजनितत्वात् कथमत्रोभयाऽपेक्षाजनितस्याऽस्याऽन्तर्भावस्स्यादिति शङ्कनीयम्, उभयाऽपेक्षायामपि = ऐहिक-पारत्रिकोभयभोगाऽऽशंसायामपि अधिकस्य इहाऽमुत्राऽन्यतरभोगस्पृहणस्य बलवत्त्वात् विष-गराऽन्यतरव्यपदेशस्य सुवचत्वात् । उभयाऽऽशंसासत्त्वेऽप्यहिकाऽऽशंसाया बलवत्त्वे विषाऽनुष्ठानत्वम्, पारलौकिकाऽऽशंसाया बलवत्त्वे च गराऽनुष्ठानत्वमिति नाऽनुष्ठानविभागन्यूनताऽऽपत्तिः न वोभयाऽपेक्षानुष्ठानस्याऽसमावेशप्रसङ्ग इति भावः । केचित्तु यथा प्रातिभज्ञानं न केवलं श्रुतज्ञानं, न वा केवलज्ञानं न वा ज्ञानान्तरं तथोभयाऽपेक्षं देवगुर्वादिपूजनं न केवलं विषाऽनुष्ठानं न वा गराऽनुष्ठानं न वाऽनुष्ठानान्तरमित्याहुः । शीघ्रं सच्चित्तघातित्वात् नेदं गरानुष्ठानं, कालान्तरेऽपि सच्चित्तनाशनान्न विषानुष्ठानमिति विजातीयमेवेति परे वदन्ति । तच्चिन्त्यम् ।।१३/१२ ।। પરિણામને ખતમ કરે છે.) અહીં શંકા થાય કે – આ લોકના અને પરલોકના સુખની ઈચ્છાથી ઊભું થયેલું અનુષ્ઠાન ઉપરોક્ત બન્ને અનુષ્ઠાન કરતાં અલગ માનવું પડશે. હું તો આ શંકા બરાબર નથી. કારણ કે બન્ને અપેક્ષા હોવા છતાં પણ જે અપેક્ષા અધિક હોય તે બળવાન હોય - આમ અમે સંભાવના કરીએ છીએ. (૧૩/૧૨) ......... चिह्नद्वयगतः पाठो हस्तादर्श नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358