________________
• उभयापेक्षानुविद्धानुष्ठानस्वरूपमीमांसा • "उभयाऽपेक्षाजनितमतिरिच्यते' ? न, उभयाऽपेक्षायामप्यधिकस्य बलवत्त्वादिति सम्भावयामः ।।१२।।
परेषामपि सम्मतमिदम् । तदुक्तं शिवगीतायां अपि → फलं कामयमानास्ते चैहिकाऽमुष्मिकादिकम् । क्षयिष्ण्वल्पं सातिशयं ततः कर्मफलं मतम् ।। तदविज्ञाय कर्माणि ये कुर्वन्ति नराऽधमाः । मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ।।
- (शि.गी.१४/३६-३७) इति । न चाऽनर्थसम्पादकत्वसाम्येऽपि कथमनयोर्भेदेनोपन्यासः ? इति शङ्कनीयम्, विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यासः (यो.वि.वृ. १२) इति योगविंशिकावृत्ती व्यक्तम् । अध्यात्मसारेऽपि →
दिव्यभोगाऽभिलाषेण कालान्तरपरिक्षयात् । स्वाऽदृष्टफलसम्पूर्तेर्गराऽनुष्ठानमुच्यते ।। यथा कुद्रव्यसंयोगजनितं गरसंज्ञितम् । विषं कालाऽन्तरे हन्ति तथेदमपि तत्त्वतः ।। - (अ.सा.१०/५-६) इति ।
अनयोरनुष्ठानयोर्हेयत्वेनैव सर्वत्र निदानपरिहार आगमे दर्शितः । तदुक्तं स्थानाङ्गसूत्रे → सव्वत्थ भगवता अणिताणता पसत्था - (स्था.सू. ६।६।५२९) इति । इदमुपजीव्य ग्रन्थकृताऽपि अध्यात्मसारे → निषेधायानयोरेव विचित्राऽनर्थदायिनोः । सर्वत्रैवाऽनिदानत्वं जिनेन्द्रैः प्रतिपादितम् ।। - (अ.सा. १०/७) इति गदितम् ।
ननु यत्रैहिकाऽऽशंसा केवला तस्य विषाऽनुष्ठानत्वम्, यत्र च केवला परलोकाशंसा तस्य गरानुष्ठानत्वमिति सुष्ठु ज्ञातम्। किन्तु यत्रैहिकाऽऽमुष्मिकफलाऽऽशंसा तस्य का संज्ञेति चेत् ? अत्रोच्यते, उभयाऽपेक्षाजनितं = इहलौकिक-पारलौकिकाऽऽशंसाप्रयुक्तं देवपूजाद्यनुष्ठानं न अतिरिच्यते = न विशिष्यते, विष-गराऽनुष्ठानभिन्नं न भवतीति यावत् । न चाऽनयोरन्यतराऽऽशंसाजनितत्वात् कथमत्रोभयाऽपेक्षाजनितस्याऽस्याऽन्तर्भावस्स्यादिति शङ्कनीयम्, उभयाऽपेक्षायामपि = ऐहिक-पारत्रिकोभयभोगाऽऽशंसायामपि अधिकस्य इहाऽमुत्राऽन्यतरभोगस्पृहणस्य बलवत्त्वात् विष-गराऽन्यतरव्यपदेशस्य सुवचत्वात् । उभयाऽऽशंसासत्त्वेऽप्यहिकाऽऽशंसाया बलवत्त्वे विषाऽनुष्ठानत्वम्, पारलौकिकाऽऽशंसाया बलवत्त्वे च गराऽनुष्ठानत्वमिति नाऽनुष्ठानविभागन्यूनताऽऽपत्तिः न वोभयाऽपेक्षानुष्ठानस्याऽसमावेशप्रसङ्ग इति भावः ।
केचित्तु यथा प्रातिभज्ञानं न केवलं श्रुतज्ञानं, न वा केवलज्ञानं न वा ज्ञानान्तरं तथोभयाऽपेक्षं देवगुर्वादिपूजनं न केवलं विषाऽनुष्ठानं न वा गराऽनुष्ठानं न वाऽनुष्ठानान्तरमित्याहुः ।
शीघ्रं सच्चित्तघातित्वात् नेदं गरानुष्ठानं, कालान्तरेऽपि सच्चित्तनाशनान्न विषानुष्ठानमिति विजातीयमेवेति परे वदन्ति । तच्चिन्त्यम् ।।१३/१२ ।। પરિણામને ખતમ કરે છે.)
અહીં શંકા થાય કે – આ લોકના અને પરલોકના સુખની ઈચ્છાથી ઊભું થયેલું અનુષ્ઠાન ઉપરોક્ત બન્ને અનુષ્ઠાન કરતાં અલગ માનવું પડશે. હું તો આ શંકા બરાબર નથી. કારણ કે બન્ને અપેક્ષા હોવા છતાં પણ જે અપેક્ષા અધિક હોય તે બળવાન હોય - આમ અમે સંભાવના કરીએ છીએ. (૧૩/૧૨)
......... चिह्नद्वयगतः पाठो हस्तादर्श नास्ति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org