Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
९०८ • विष-गरभेदद्योतनम् •
द्वात्रिंशिका-१३/१२ तदुपक्षयात् । अन्यदपि हि स्थावर-जङ्गमभेदभिन्नं विषं तदानीमेव नाशयति ।। ___दिव्यभोगस्याऽभिलाषः = ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन (= दिव्यभोगाभिलाषेण) अनुष्ठानं गर उच्यते । कालान्तरे = भवान्तरलक्षणे क्षयाद् भोगात्पुण्यनाशेनानर्थसम्पादनात्। गरो हि कुद्रव्यसंयोगजो विषविशेषः, तस्य च कालान्तरे 'विषमविकारः प्रादुर्भवतीति। सम्प्राप्तलब्धि-कीर्त्याधुपभोगेनैव तदुपक्षयात् = इहैव देवपूजाद्यनुष्ठानस्य चरितार्थत्वात्, लब्धिकीर्त्याधुपभोगसम्पादने एव तादृशदेवपूजादेरुपक्षीणशक्तिकतया शुभचित्तपरिणामं प्रत्यन्यथासिद्धत्वादिति यावत् । यथोक्तं अध्यात्मसारे →
आहारोपधि-पूजर्द्धिप्रभृत्याशंसया कृतम् । शीघ्रं सच्चित्तहन्तृत्वाद् विषाऽनुष्ठानमुच्यते ।। स्थावरं जङ्गमं चाऽपि तत्क्षणं भक्षितं विषम् । यथा हन्ति तथेदं सच्चित्तमैहिकभोगतः ।।
6 (अ.सा.१०/३-४) इति । उपलक्षणात् महतोऽनुष्ठानस्याऽतितुच्छलब्ध्यादिस्पृहणात् सकाशाल्लघुत्वाऽऽपादनमपि सच्चित्तनाशहेत्वन्तरतयाऽवगन्तव्यम् । यथोक्तं योगबिन्दौ 'विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् । महतोऽल्पार्थनाज्ज्ञेयं लघुत्वाऽऽपादनात्तथा ।।' (यो.बि.१५६) इति ।
ननु धर्माऽनुष्ठानत्वेनैव शुभचित्तपरिणामहेतुता प्रसिद्धा, सच्चित्तनाशस्तु तत्समवहितैहिकभोगाऽऽशंसादिनैव । अत ऐहिकभोगाद्याशंसाविशिष्टधर्माऽनुष्ठाने दर्शिता सच्चित्तनाशहेतुता ‘सविशेषणौ हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन भोगाद्याशंसायामेव पर्यवस्यति । देवपूजाद्यनुष्ठानस्य विषत्वोक्तिरसङ्गता इति चेत् ? सत्यम्, 'घृतं दहती'ति न्यायेनोपचरितव्यवहारनयतोऽधिकृतदेवपूजाद्यनुष्ठाने विषत्वोक्तेर्युक्तत्वात्, अनलोपतप्तघृतस्य केवलाद् घृतादिवैहिकाऽऽशंसाद्यनुविद्धदेवपूजादेः परिशुद्धदेवपूजादेः सकाशाद् वैलक्षण्यस्य कार्यभेदाऽनुमेयस्य प्रागुक्तरीत्या (द्वा.द्वा.१३/८ पृ.९०३) अनपलपनीयत्वाच्चेति दिग् ।
___ गरानुष्ठानमाह- 'दिव्य'ति । यथोक्तं योगबिन्दौ → दिव्यभोगाऽभिलाषेण गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ।। - (यो.बि.१५७) इति । भवान्तरलक्षणे कालान्तरे भोगात् = तीव्ररागाद्यनुगताद् वाञ्छितदिव्यभोगात् पुण्यनाशेन = गराऽनुष्ठानसञ्चितपुण्यकर्मध्वंसेन अनर्थसम्पादनात् = दुर्गतिगमनादिलक्षणाऽपायजननात् । तदुक्तं सङ्घदासगणिना वसुदेवहिण्डीग्रन्थे → ततो राग-दोसपबंधपडिओ रयमाइयइ तन्निमित्तं च संसारे दुक्खभायणं होइ गीयरागो - (व.हि.प्रथम भागपृष्ठ-१६७) इत्यादि ।
આ લોકના ભોગસુખથી નિરપેક્ષ હોતે છતે સ્વર્ગના સુખની ઈચ્છા કરવી તે દિવ્યભોગઅભિલાષા કહેવાય. તેનાથી અનુષ્ઠાન કરવામાં આવે તે ગરઅનુષ્ઠાન કહેવાય. તેનાથી ભવાન્તરમાં ભોગસુખથી પુણ્ય નષ્ટ થવાથી અનર્થ-નુકશાન ઊભા કરવાના લીધે તે ગરઅનુષ્ઠાન કહેવાય છે. કારણ કે ગર શબ્દનો અર્થ છે ખરાબ દ્રવ્યના સંયોગથી ઊભું થયેલ અમુક પ્રકારનું ઝેર અને કાલાન્તરમાં તેનાથી ઝેરી વિકાર ઊભો થાય છે. (ગર જેમ કાલાન્તરમાં મારે છે તેમ ગરઅનુષ્ઠાન પણ કાલાન્તરમાં શુભ १. 'विषविकार' इति मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358