Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 332
________________ • आत्मसंस्कारककर्मणो ब्रह्मभावजनकता • ९११ सदनुष्ठानरागतः = तात्त्विकदेवपूजाद्याचारभावबहुमानादाऽऽदिधार्मिककालभाविदेवपूजाद्यनुष्ठानं त तुः उच्यते, मुक्त्यद्वेषेण मनाग मुक्त्यनुरागेण वा शुभभावलेशसङ्गमादस्य सदनुष्ठानहेतुत्वात् । जैनवर्त्मनो जिनोदितमार्गस्य श्रद्धया = 'इदमेव तत्त्वमि'त्यध्यवसायलक्षणया तु अनुष्ठानं अमृतं स्यात्, अमरणहेतुत्वात् । अकामनिर्जराऽङ्गत्वं, कायक्लेशादिहोदितम् । (अ.सा.१०/८-१६) इत्थमवगन्तव्याः । ___आध्यात्मिकनयाऽभिप्रायेणैतत्त्रितयमपि सदनुष्ठानगणनायामेव नाऽवतरति । प्रकृते → कर्तृत्वभोक्तृत्वाद्यहङ्कारतया बन्धरूपं जन्मादिकारणं नित्य-नैमित्तिकयाग-व्रत-तपो-दानादिषु फलाऽभिसन्धानं यत् तदकर्म 6 (निरा.२२) इति निरालम्बोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । चतुर्थमनुष्ठानमाह- तात्त्विकदेवपूजाद्याचारभावबहुमानात् = पारमार्थिकदेवपूजाद्यनुष्ठानगोचरं यद् भावात्मकं बहुमानं तदवलम्ब्य क्रियमाणं आदिधार्मिककालभावि = प्रथममेवाऽऽरब्धस्थूलधर्माचाराणां मार्गगामिनां यः कालः चरमावर्तलक्षणः दशाविशेषलक्षणो वा तस्मिन् जायमानं अनाभोगाऽऽशंसाविप्रमुक्तं देवपूजाद्यनुष्ठानं तद्धेतुः उच्यते योगाचार्यैः । अत्र हेतुमाह मुक्त्यद्वेषेण = पूर्वदशायां मुक्ति-मुक्तिमार्गमुक्तिमार्गप्रस्थितगोचराऽद्वेषेणोत्तरावस्थायाञ्च मनाग मुक्त्यनुरागेण वा = मोक्ष-मोक्षमार्गादिगोचराऽनुरागेण वा शुभभावलेशसङ्गमात् अस्य आदिधार्मिककालभावि-सदनुष्ठानरागप्रयुक्तदेवपूजाद्यनुष्ठानस्य सदनुष्ठानहेतुत्वात् = तात्त्विकदेवपूजाद्यनुष्ठानपरिणामहेतुत्वात् । ___ इत्थञ्च तद्धेतुरिति संज्ञाऽपि सान्वर्थेति द्योतितम् । तदुक्तं योगबिन्दौ → एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांऽशयोगतः ।। - (यो.बि.१५९) इति । अध्यात्मसारेऽपि → सदनुष्ठानरागेण तद्धेतुर्मार्गगामिनाम् । एतच्च चरमावर्तेऽनाभोगादेविना भवेत् ।। - (अ.सा.१०/ १७) इत्युक्तम् । पञ्चममनुष्ठानमाह- 'जिनोदितमार्गस्य शीघ्रं मोक्षप्रापकस्य ‘इदमेव परमार्थभूतं निजकल्याणकरं निखिलकल्याणकरं तत्त्वमिति अध्यवसायलक्षणया श्रद्धया विधीयमानं शुद्धभावधर्माऽनुविद्धं आत्मसंस्कारकं देवपूजादि अनुष्ठानं तु अमृतं स्यात्, अमरणहेतुत्वात् । एतेन → आत्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात् + (य.वे.उव्व.४०/८) इति यजुर्वेदोव्वटभाष्यवचनमपि व्याख्यातम् । तदुक्तं अध्यात्मसारे → તાત્ત્વિક દેવ-ગુરુસંબંધી પૂજાદિ આચારને વિશે ભાવબહુમાનના લીધે આદિધાર્મિક અવસ્થામાં થનાર દેવપૂજા વગેરે આરાધના તહેતુ અનુષ્ઠાન કહેવાય છે. કારણ કે મુક્તિએષના અથવા કાંઈક મુક્તિરાગના નિમિત્તે આંશિક શુભ ભાવનું જોડાણ થવાના કારણે તે આરાધના ભાવ સદનુષ્ઠાનનો હેતુ બને છે. તથા જિનેશ્વર ભગવંતે બતાવેલ મોક્ષમાર્ગને વિશે “આ જ તત્ત્વ છે. આ જ પરમાર્થ છે’ - આવી અધ્યવસાયધારાસ્વરૂપ ઝળહળતી શ્રદ્ધાથી જે આરાધના થાય તે અમૃત અનુષ્ઠાન બને. કારણ કે તે આરાધના અમૃતનો - અમર થવાનો હેતુ છે. १. मुद्रितप्रतौ '...नादि धा...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358