Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 281
________________ ८६२ • श्रद्धया क्रियाकरणे ज्ञानलाभः • द्वात्रिंशिका - १२/१७ तपश्चान्द्रायणं कृच्छ्रं मृत्युघ्नं पापसूदनम् । आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् ।।१७।। स्वभूमि तप इति । लौकिकमपि = लोकसिद्धमपि, अपिर्लोकोत्तरं 'समुच्चिनोति, उत्तमं कोचितशुभाध्यवसायपोषकम् ।।१७।। इत्येवमुक्तम् । नीवरणपञ्चकं 'कामच्छन्द- 'व्यापादाऽऽ 'लस्यौद्धत्य'-कौकृत्य- 'विचिकित्सालक्षणमवगन्तव्यम् (म.नि. वल्मिकसूत्र - १/३/३/२५१) शिष्टं स्पष्टम् । यद्यपि ‘पढमं नाणं तओ दया' (द. वै. ४/१०) इति पूर्वोक्त (पृ. ३७६, पृ.५२१)- दशवैकालिकवचनात् सदाचारापेक्षया ज्ञानस्याभ्यर्हितत्वमेव निश्चितं तथाऽपि सज्ज्ञानाऽनुत्पन्नदशायामपुनर्बन्धकावस्थायां योगपूर्वसेवायां सदाचारपरिपालनस्याऽपि श्रेयोरूपतयाऽनुपसर्जनत्वोपपत्तेः । सम्मतञ्चेदं परेषामपि । तदुक्तं रामगीतायां → ज्ञानं सिध्यतु ते नो वा शुभाचारान्न तु त्यज । श्रेयोहानिः क्वचिन्नैव कस्यचिच्छुभकारिणः ।। यस्य वर्णाश्रमाचारे श्रद्धाऽतीव प्रवर्तते । स कर्मिप्रवरोऽविद्वानपि विद्वत्त्वमवाप्नुयात् ।। ← (रा.गी.१७/५९,९/१९) इति भावनीयमवहितमानसतया सर्वतन्त्रसमवतारकुशलैः ।।१२/१६।। → वेदोक्तेन प्रकारेण कृच्छ्र- चान्द्रायणादिभिः । शरीरशोपणं यत् तत् तप इत्युच्यते बुधैः ।। ← (जा.द.२/३) इति जाबालदर्शनोपनिषद्वचनं चेतसिकृत्य योगबिन्दुदर्शितरीत्या ग्रन्थकृदधुनाऽत्राऽवसरसङ्गत्यायातं पूर्वसेवाघटकं तपो निरूपयति- 'तप' इति । लौकिकमपि किम्पुनर्लोकोत्तरमित्यपिशब्दार्थः। तदेवाह अपिः = अपिशब्दः लोकोत्तरं तपः समुच्चिनोति, यतः अपुनर्बन्धको हि लौकिकमिव लोकोत्तरं तपः कर्तुमुत्सहत एव यथाशक्ति । स्वभूमिकोचितशुभाऽध्यवसायपोषकं आदिधार्मिकजीवगतमोक्षमार्गभूमिकायोग्यप्रशस्तपरिणामोपवृंहण-वृद्धि-स्थिरीकरण-शुद्धिकरणादिकारकम् । इदमपि च यथाशक्ति वोध्यम् । यथोक्तं योगबिन्दौ तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रं मृत्युघ्नं पापसूदनम् ।।' ← ( यो. विं. १३१ ) इति । = तन्त्रान्तरे कायिकादि त्रिविधं तपः प्रत्येकं सात्त्विक - राजस - तामसभावेन भिद्यत इति नवधा स्वीक्रियते । तदुक्तं संन्यासगीतायां एवं तपः त्रिधा ज्ञेयं कायिकं वाचिकं तथा । मानसञ्चाथ गुणतः प्रत्येकं त्रिविधं पुनः ।। ← (सं. गी . २ / ३८) इति । वैदिकतन्त्रावस्थितोऽपुनर्बन्धकादिः तपसा मां विजिज्ञासस्व ← (अव्य. २ ) इति अव्यक्तोपनिषद्वचनात् तपसा ब्रह्म विजिज्ञासस्व ← ( तै. आ. ९/ २, तै.उप.३/३/२) इति तैत्तिरीयारण्यक - तैत्तिरीयोपनिषद्वचनात् ब्रह्म तपसि ← (गो. बा. २ /३/२) इति गोपथब्राह्मणवचनात् तपस्वी पुण्यो भवति ← ( तै. आ. १/६२) इति तैत्तिरीयारण्यकवचनात्, ગાથાર્થ :- ચાન્દ્રાયણ તપ, કૃચ્છ તપ, મૃત્યુઘ્ન તપ, પાપસૂદનતપ વગેરે લૌકિક પણ તપ આદિધાર્મિકને પ્રાયોગ્ય ઉત્તમ આરાધના બની શકે છે. (૧૨/૧૭) * વિવિધ તપની રૂપરેખાઓ ટીકાર્થ :- ઉપરોક્ત તપશ્ચર્યાઓ લૌકિક હોવા છતાં બીજા લોકોત્તર તપનો અહીં સંગ્રહ કરવો અભિપ્રેત छे. आरए} सहिधार्मिक व सोत्तर तप पए। डरता होय छे. आ आजतनी सूचना आपवा माटे 'अपि ' શબ્દનો ગાથામાં નિર્દેશ કરેલ છે. ઉપરોક્ત તપશ્ચર્યાઓ આદિધાર્મિક જીવને યોગ્ય એટલા માટે છે કે તે તે તપસ્યાઓ અપુનર્બંધક જીવની ભૂમિકાને યોગ્ય એવા શુભ અધ્યવસાયની પોષક છે.(૧૨/૧૭) १. मुद्रितप्रतौ 'संचिनो...' इति पाठः । Jain Education International For Private & Personal Use Only = www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358