Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 319
________________ ८९८ • अवेयकगामिनां मुक्त्यद्वेषोपपादनम् • द्वात्रिंशिका-१३/४ वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वेष्टविघातशङ्कया तत्र द्वेषो न स्यादिति द्रष्टव्यम् ।।४।। नाविलैवेति शङ्कायामाह- वस्तुतो भित्रस्य = स्वर्गादिसुखान्यस्य तस्य = मोक्षस्य जैनश्रमणलिङ्गग्रहणदशायां → जं देवाणं सोक्खं सव्वद्धापिंडियं अणंतगुणं । ण य पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ।। 6 (औप. ४३/१४) इति औपपातिकसूत्रवचनात्, → अउलं सुहसंपत्ता उवमा जस्स नत्थि उ (उत्त.३६/६६) इति उत्तराध्ययनसूत्रवचनात्, → सुरगणसुहं समत्तं सव्वद्धापिंडियं अणंतगुणं । णवि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ।। - (प्रज्ञा.२/१७१ + दे.स्त.२९८ + तीर्थो.१२४८) इति प्रज्ञापनासूत्र-देवेन्द्रस्तवप्रकीर्णक-तीर्थोद्गालीप्रकीर्णकवचनात्, → अट्ठविहकम्मवियडा सीदीभूदा णिरंजणा णिच्चा । अट्ठगुणा कयकिच्चा, लोयग्गणिवासिणो सिद्धा ।। - (पं.सं.१।३१) इति पञ्चसङ्ग्रहवचनात्, → चक्किकुसफणिसुरेंदेसु अहमिदे जं सुहं तिकालभवं । तत्तो अणंतगुणिदं सिद्धाणं खणसुहं होदि ।। - (त्रि.सा.५६०) इति त्रिलोकसारवचनात् प्रतीतावपि, यद्वा तन्त्रान्तराऽभ्यासकाले → यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन ।। - (तै.२/४/१) इति तैत्तिरीयोपनिषद्वचनात्, → नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ६ (कठो.२/३/१२) इति कठोपनिषद्वचनात्, → यतो वाचो निवर्तन्ते विकल्पकलनाऽन्विताः । विकल्पसङ्ख्यात् जन्तोः पदं यदवशिष्यते ।। (अन्न.२/३३) इति अन्नपूर्णोपनिषद्वचनात्, → अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् ।। ८ (अध्या.६३) इति अध्यात्मोपनिषद्वचनात्, → यतो वाचो निवर्तन्ते निमित्तानामभावतः । निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ? ।। 6 (कठ.३१-३२) इति कठरुद्रोपनिषद्वचनात्, → यद् वै वाङ् नाऽऽक्रामति मनसा सह - (गणेशो.३/१) इति गणेशोत्तरतापिन्युपनिषद्वचनात्, → यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ।। 6 (ब्र.९) इति ब्रह्मोपनिषद्वचनात्, → यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम् ।। - (लिं.पु.६७/२३) इति लिङ्गपुराणवचनात्, → यं च कामसुखं लोके यं चिदं दिवियं सुखं । तण्हक्खयसुखस्सेते कलं नाग्यन्ति सोलसिं ।। 6- (उ.२/२) इति उदानवचनात्, तादृशान्यवचनात्, तथाविधान्ययुक्तितो वा प्रतीतावपि → जह कागणीइ हेउं मणि-रयणाणं तु हारए कोडिं । तह सिद्धसुहपरोक्खा अवुहा सज्जन्ति कामेसु ।। जह निवदुमुप्पन्नो कीडो कडुयं पि मन्नए महुरं । तह मोक्खसुहपरोक्खा संसारदुहं सुहं बिंति ।। जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपरोक्खा । तेसिं विसालवल्लीविसं व सग्गो य मोक्खो य।। (म.वि.७२-६५६-६५७) इति मरणविभक्तिप्रकीर्णकवचनतात्पर्यविषयीभूतानां → कडुयम्मि अणिव्वलियम्मि दोद्धिए कडुयमेव जह खीरं । तह मिच्छत्तकडुइए जीवे तव-नाण-चरणाणि ।। - (आ.पता.४५३) इति वीरभद्रसूरिकृताऽऽराधनापताकाप्रकीर्णकवचनाऽभिप्रायगोचरीभूतानां व्यापन्नदर्शनानां હકીકત તો એ છે કે કદાચ દેવ-ગુરુ-શાસ્ત્ર દ્વારા સ્વર્ગથી ભિન્નરૂપે મોક્ષ જણાય તો પણ પોતાને ઈષ્ટ એવા સ્વર્ગાદિમાં વ્યાઘાત ઊભો થવાની શંકાથી મોક્ષમાં દ્વેષ થઈ શકતો નથી. - આ વાત ખ્યાલમાં રાખવી. (૧૩/૪) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358