Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 318
________________ • रागसामग्र्यां द्वेषानवकाशः • ८९७ लाभेति । व्यापन्नदर्शनानां हि द्रव्यलिगिनां उपाये = चारित्रक्रियादौ लाभाद्यर्थितया एव न द्वेषो, रागसामग्र्यां द्वेषाऽनवकाशात् । फले च मोक्षरूपे अप्रतिपत्तित एव न द्वेषः । न हि ते मोक्षं स्वर्गादिसुखाद् भिन्न प्रतियन्ति यत्र द्वेषाऽवकाशः स्यात् । स्वर्गादिसुखाऽभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव । एतदेव समर्थयमान आह- 'लाभे'ति । उपाये = स्वेष्टस्वर्गादिसाधनतया विज्ञाते मुक्त्युपायभूते चारित्रक्रियादौ लाभाद्यर्थितयैव = चारित्राऽनुष्ठानादिपालनाऽधीन-स्वर्गादिलाभ-लब्धि-पूजाधभिलाषशालितयैव न द्वेषो भवितुमर्हति, रागसामग्र्यां = स्वकीयाभिलाषगोचरस्योपाये प्रेक्षावतां द्वेषाऽनवकाशात्, अन्यथा प्रेक्षावत्ताहानेः । न च स्वेष्टसाधनेऽपि बलवद्वेष्योत्पादके मरणोत्पादकविषमिश्रितान्नादाविव बुभुक्षूणां प्रेक्षावतां द्वेषदर्शनात् चारित्रक्रियादावपि व्यापन्नदर्शनानां द्रव्यलिङ्गिनां द्वेष आवश्यकः, तस्य द्वेष्यापवर्गोत्पादकत्वादिति वाच्यम्, मोक्षरूपे फले च = चारित्रक्रियादिफले हि अप्रतिपत्तित एव = अनभ्युपगमादेव न द्वेषो भवितुमर्हति । न ह्यज्ञाते द्वेषसम्भवः । अथ शास्त्रादेव मोक्षाऽवगमात् चारित्रादौ मोक्षफलकत्वज्ञानाच्चोभयत्र द्वेषस्याऽपरिहार्यत्वमिति चेत्? मैवम्, द्रव्यश्रामण्यदशायां शास्त्रात् मुक्त्यवगमेऽपि मुक्तौ दीर्घकालीनत्व-दुःखाऽमिश्रितत्वादिरूपेण स्वेष्टस्वर्गादिसुखाऽभिन्नत्वप्रतिपत्तेः द्वेषाऽनवकाशात् । न हि ते = व्यापन्नदर्शना द्रव्यलिङ्गिनो मोक्ष स्वर्गादिसुखाद् भिन्न प्रतियन्ति = स्वारसिकप्रतीतिमारोहयन्ति, येन कारणेन यत्र स्वेष्टस्वर्गादिसुखभिन्नत्वेन प्रतीते मोक्षे द्वेषावकाशः स्यात् । स्वर्गादिसुखभिन्नत्वेन मुक्तिप्रतीतौ तु तत्र द्वेषः स्यादपि । न चैवमस्ति । अतो न तत्र द्वेप इत्यर्थः । न चाऽस्तु तर्हि स्वर्गादिसुखाऽभिन्नत्वेनाङ्गीकृते मोक्षे तेषां द्वेषः, व्यापनदर्शनत्वादिति वक्तव्यम्, तेषां स्वर्गादिसुखस्याऽतिप्रियत्वेन स्वर्गादिसुखाभिन्नत्वेन प्रती-यमाने तु तत्र = मोक्षे तेषां व्यापन्नदर्शनानां द्रव्यलिङ्गिनां राग एव भवितुमर्हति । ___ ननु श्रामण्यदशायां ‘कृत्स्नकर्मक्षयो मोक्षः, सच्चिदानन्दमयोऽपवर्गः, निरुपाधिकात्मावस्था मुक्तिः, मोक्षे स्वर्गानन्तगुणं सुखमि'त्यादिशास्त्रावगमे स्वर्गादिसुखभिन्नस्य मोक्षस्य प्रतीतिप्पन्नदर्शनानामप्य ટીકાર્ય - સમ્યગ્દર્શનભ્રષ્ટ એવા દ્રવ્યચારિત્રધરોને મોક્ષના ઉપાયભૂત ચારિત્રની ક્રિયા વગેરેમાં દ્વેષ નથી સંભવતો. કારણ કે ચારિત્રપાલનજન્ય સ્વર્ગઆદિના લાભની તેને ગરજ છે. પોતાને ગમતી ચીજનું સાધન તો રાગનું સાધન છે. અને રાગની સાધન-સામગ્રીમાં દ્વેષ થવાની શક્યતા રહેતી જ નથી. (માટે સ્વર્ગાદિની લાલસાથી દ્રવ્યચારિત્ર પાળનારા મિથ્યાષ્ટિ જીવોને સ્વર્ગસાધન તરીકે જણાતા ચારિત્રપાલનમાં ત્યારે દ્વેષ ન જ સંભવે. બાકી તો કોઈના દબાણ વિના, પોતાની મરજીથી નિરતિચાર ચારિત્રપાલન થઈ જ ન શકે.) મોક્ષરૂપ ફળ પ્રત્યે તેવા જીવને દ્વેષ હોવાની શક્યતા એટલા માટે નથી કે મોક્ષને તે માનતો જ નથી. તેઓ સ્વર્ગાદિ સુખથી ભિન્ન સ્વરૂપે મોક્ષને સ્વીકારતા જ નથી કે જેમાં તેઓને દ્વેષ થવાની શક્યતા ઉભી થાય. સ્વર્ગ વગેરેના સુખથી અભિન્નરૂપે પ્રતીત થતા એવા મોક્ષમાં તો તેઓને રાગ જ હોય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358