________________
• रागसामग्र्यां द्वेषानवकाशः •
८९७ लाभेति । व्यापन्नदर्शनानां हि द्रव्यलिगिनां उपाये = चारित्रक्रियादौ लाभाद्यर्थितया एव न द्वेषो, रागसामग्र्यां द्वेषाऽनवकाशात् । फले च मोक्षरूपे अप्रतिपत्तित एव न द्वेषः । न हि ते मोक्षं स्वर्गादिसुखाद् भिन्न प्रतियन्ति यत्र द्वेषाऽवकाशः स्यात् । स्वर्गादिसुखाऽभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव ।
एतदेव समर्थयमान आह- 'लाभे'ति । उपाये = स्वेष्टस्वर्गादिसाधनतया विज्ञाते मुक्त्युपायभूते चारित्रक्रियादौ लाभाद्यर्थितयैव = चारित्राऽनुष्ठानादिपालनाऽधीन-स्वर्गादिलाभ-लब्धि-पूजाधभिलाषशालितयैव न द्वेषो भवितुमर्हति, रागसामग्र्यां = स्वकीयाभिलाषगोचरस्योपाये प्रेक्षावतां द्वेषाऽनवकाशात्, अन्यथा प्रेक्षावत्ताहानेः । न च स्वेष्टसाधनेऽपि बलवद्वेष्योत्पादके मरणोत्पादकविषमिश्रितान्नादाविव बुभुक्षूणां प्रेक्षावतां द्वेषदर्शनात् चारित्रक्रियादावपि व्यापन्नदर्शनानां द्रव्यलिङ्गिनां द्वेष आवश्यकः, तस्य द्वेष्यापवर्गोत्पादकत्वादिति वाच्यम्, मोक्षरूपे फले च = चारित्रक्रियादिफले हि अप्रतिपत्तित एव = अनभ्युपगमादेव न द्वेषो भवितुमर्हति । न ह्यज्ञाते द्वेषसम्भवः ।
अथ शास्त्रादेव मोक्षाऽवगमात् चारित्रादौ मोक्षफलकत्वज्ञानाच्चोभयत्र द्वेषस्याऽपरिहार्यत्वमिति चेत्? मैवम्, द्रव्यश्रामण्यदशायां शास्त्रात् मुक्त्यवगमेऽपि मुक्तौ दीर्घकालीनत्व-दुःखाऽमिश्रितत्वादिरूपेण स्वेष्टस्वर्गादिसुखाऽभिन्नत्वप्रतिपत्तेः द्वेषाऽनवकाशात् । न हि ते = व्यापन्नदर्शना द्रव्यलिङ्गिनो मोक्ष स्वर्गादिसुखाद् भिन्न प्रतियन्ति = स्वारसिकप्रतीतिमारोहयन्ति, येन कारणेन यत्र स्वेष्टस्वर्गादिसुखभिन्नत्वेन प्रतीते मोक्षे द्वेषावकाशः स्यात् । स्वर्गादिसुखभिन्नत्वेन मुक्तिप्रतीतौ तु तत्र द्वेषः स्यादपि । न चैवमस्ति । अतो न तत्र द्वेप इत्यर्थः । न चाऽस्तु तर्हि स्वर्गादिसुखाऽभिन्नत्वेनाङ्गीकृते मोक्षे तेषां द्वेषः, व्यापनदर्शनत्वादिति वक्तव्यम्, तेषां स्वर्गादिसुखस्याऽतिप्रियत्वेन स्वर्गादिसुखाभिन्नत्वेन प्रती-यमाने तु तत्र = मोक्षे तेषां व्यापन्नदर्शनानां द्रव्यलिङ्गिनां राग एव भवितुमर्हति ।
___ ननु श्रामण्यदशायां ‘कृत्स्नकर्मक्षयो मोक्षः, सच्चिदानन्दमयोऽपवर्गः, निरुपाधिकात्मावस्था मुक्तिः, मोक्षे स्वर्गानन्तगुणं सुखमि'त्यादिशास्त्रावगमे स्वर्गादिसुखभिन्नस्य मोक्षस्य प्रतीतिप्पन्नदर्शनानामप्य
ટીકાર્ય - સમ્યગ્દર્શનભ્રષ્ટ એવા દ્રવ્યચારિત્રધરોને મોક્ષના ઉપાયભૂત ચારિત્રની ક્રિયા વગેરેમાં દ્વેષ નથી સંભવતો. કારણ કે ચારિત્રપાલનજન્ય સ્વર્ગઆદિના લાભની તેને ગરજ છે. પોતાને ગમતી ચીજનું સાધન તો રાગનું સાધન છે. અને રાગની સાધન-સામગ્રીમાં દ્વેષ થવાની શક્યતા રહેતી જ નથી. (માટે સ્વર્ગાદિની લાલસાથી દ્રવ્યચારિત્ર પાળનારા મિથ્યાષ્ટિ જીવોને સ્વર્ગસાધન તરીકે જણાતા ચારિત્રપાલનમાં ત્યારે દ્વેષ ન જ સંભવે. બાકી તો કોઈના દબાણ વિના, પોતાની મરજીથી નિરતિચાર ચારિત્રપાલન થઈ જ ન શકે.)
મોક્ષરૂપ ફળ પ્રત્યે તેવા જીવને દ્વેષ હોવાની શક્યતા એટલા માટે નથી કે મોક્ષને તે માનતો જ નથી. તેઓ સ્વર્ગાદિ સુખથી ભિન્ન સ્વરૂપે મોક્ષને સ્વીકારતા જ નથી કે જેમાં તેઓને દ્વેષ થવાની શક્યતા ઉભી થાય. સ્વર્ગ વગેરેના સુખથી અભિન્નરૂપે પ્રતીત થતા એવા મોક્ષમાં તો તેઓને રાગ જ હોય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org