________________
८९८
• अवेयकगामिनां मुक्त्यद्वेषोपपादनम् • द्वात्रिंशिका-१३/४ वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वेष्टविघातशङ्कया तत्र द्वेषो न स्यादिति द्रष्टव्यम् ।।४।। नाविलैवेति शङ्कायामाह- वस्तुतो भित्रस्य = स्वर्गादिसुखान्यस्य तस्य = मोक्षस्य जैनश्रमणलिङ्गग्रहणदशायां → जं देवाणं सोक्खं सव्वद्धापिंडियं अणंतगुणं । ण य पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ।। 6 (औप. ४३/१४) इति औपपातिकसूत्रवचनात्, → अउलं सुहसंपत्ता उवमा जस्स नत्थि उ (उत्त.३६/६६) इति उत्तराध्ययनसूत्रवचनात्, → सुरगणसुहं समत्तं सव्वद्धापिंडियं अणंतगुणं । णवि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ।। - (प्रज्ञा.२/१७१ + दे.स्त.२९८ + तीर्थो.१२४८) इति प्रज्ञापनासूत्र-देवेन्द्रस्तवप्रकीर्णक-तीर्थोद्गालीप्रकीर्णकवचनात्, → अट्ठविहकम्मवियडा सीदीभूदा णिरंजणा णिच्चा । अट्ठगुणा कयकिच्चा, लोयग्गणिवासिणो सिद्धा ।। - (पं.सं.१।३१) इति पञ्चसङ्ग्रहवचनात्, → चक्किकुसफणिसुरेंदेसु अहमिदे जं सुहं तिकालभवं । तत्तो अणंतगुणिदं सिद्धाणं खणसुहं होदि ।। - (त्रि.सा.५६०) इति त्रिलोकसारवचनात् प्रतीतावपि,
यद्वा तन्त्रान्तराऽभ्यासकाले → यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन ।। - (तै.२/४/१) इति तैत्तिरीयोपनिषद्वचनात्, → नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ६ (कठो.२/३/१२) इति कठोपनिषद्वचनात्, → यतो वाचो निवर्तन्ते विकल्पकलनाऽन्विताः । विकल्पसङ्ख्यात् जन्तोः पदं यदवशिष्यते ।। (अन्न.२/३३) इति अन्नपूर्णोपनिषद्वचनात्, → अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् ।। ८ (अध्या.६३) इति अध्यात्मोपनिषद्वचनात्, → यतो वाचो निवर्तन्ते निमित्तानामभावतः । निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ? ।। 6 (कठ.३१-३२) इति कठरुद्रोपनिषद्वचनात्, → यद् वै वाङ् नाऽऽक्रामति मनसा सह - (गणेशो.३/१) इति गणेशोत्तरतापिन्युपनिषद्वचनात्, → यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ।। 6 (ब्र.९) इति ब्रह्मोपनिषद्वचनात्, → यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम् ।। - (लिं.पु.६७/२३) इति लिङ्गपुराणवचनात्, → यं च कामसुखं लोके यं चिदं दिवियं सुखं । तण्हक्खयसुखस्सेते कलं नाग्यन्ति सोलसिं ।। 6- (उ.२/२) इति उदानवचनात्, तादृशान्यवचनात्, तथाविधान्ययुक्तितो वा प्रतीतावपि → जह कागणीइ हेउं मणि-रयणाणं तु हारए कोडिं । तह सिद्धसुहपरोक्खा अवुहा सज्जन्ति कामेसु ।। जह निवदुमुप्पन्नो कीडो कडुयं पि मन्नए महुरं । तह मोक्खसुहपरोक्खा संसारदुहं सुहं बिंति ।। जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपरोक्खा । तेसिं विसालवल्लीविसं व सग्गो य मोक्खो य।।
(म.वि.७२-६५६-६५७) इति मरणविभक्तिप्रकीर्णकवचनतात्पर्यविषयीभूतानां → कडुयम्मि अणिव्वलियम्मि दोद्धिए कडुयमेव जह खीरं । तह मिच्छत्तकडुइए जीवे तव-नाण-चरणाणि ।। - (आ.पता.४५३) इति वीरभद्रसूरिकृताऽऽराधनापताकाप्रकीर्णकवचनाऽभिप्रायगोचरीभूतानां व्यापन्नदर्शनानां
હકીકત તો એ છે કે કદાચ દેવ-ગુરુ-શાસ્ત્ર દ્વારા સ્વર્ગથી ભિન્નરૂપે મોક્ષ જણાય તો પણ પોતાને ઈષ્ટ એવા સ્વર્ગાદિમાં વ્યાઘાત ઊભો થવાની શંકાથી મોક્ષમાં દ્વેષ થઈ શકતો નથી. - આ વાત ખ્યાલમાં રાખવી. (૧૩/૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org