Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 324
________________ • हतस्य धर्मस्य घातकता • ९०३ 'सहकारिभेद एवाऽयं न तु वस्तुभेद' इति चेत् ? न, इतरसहकारिसमवहितत्वेन फलव्याप्यताऽपेक्षया तदवच्छेदक कारणभेदस्यैव कल्पनौचित्यात्, संसारपारकरणाऽकरणलक्षणफलभेदात् मुक्त्यद्वेष-तद्वेषकृतयोर्गुर्वादिपूजनयोर्भेदोऽनाविल एवेति भावः । एतेन → तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्कः, तान्येव भावोपहतानि कल्कः ।। - (म.भा.आदिपर्व-१ ।२७५) इति महाभारतवचनमपि व्याख्यातम्, स्वाभाविकः = मूलभूतः = भरतचक्रिकालीन इति यावत्; वित्ताऽऽहरणं = धनोपार्जनं, कल्कः = दुष्कृत्यम् । शिष्टं स्पष्टम् । एतेन → धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः - (मनु.८/१५) इति मनुस्मृतिवचनमपि व्याख्यातम् । ननु सहकारिभेदः = भव्यजीव-चरमावर्त-मुक्त्यद्वेषप्रभृतिसमवधानाऽसमवधानलक्षणसहकारिकारणभेद एव अयं संसारपारकरणाऽकरणलक्षणफलभेदप्रयोजकः स्वीकर्तुमर्हति, न तु वस्तुभेदः = गुर्वादिपूजनलक्षणकारणभेदः, मुद्गरादिसमवधानाऽसमवधानादौ सति घटात्कपालाद्युत्पत्तितदभाववत् । न हि मुद्गरादिसमवधानादिना घटस्वभावभेदः क्रियते । न चैवं सहकारिविरहे कथं न कार्योत्पाद इति शङ्कनीयम्, सहकारिसमवधान एव तथाविधकार्यकरणस्वभावत्वात् । यथोक्तं शास्त्रवार्तासमुच्चये → तथास्वभाव एवाऽसौ स्वहेतोरेव जायते । सहकारिणमासाद्य यस्तथाविधकार्यकृत् ।। न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा + (शा.वा.स.६/४-५) इति स्वेतरसहकारिसमवहितत्वेनैव कार्योत्पत्तिव्याप्यता स्वीकर्तव्येति न सहकार्यसमवधाने फलोत्पत्तिप्रसक्तिरिति चेत् ? न, अविशिष्टस्वस्वभावस्य हेतुसहस्रेणाऽपि विशेषयितुमशक्यत्वादिति (शा.वा.स.६/११/पृष्ठ.११२) व्यक्तं स्याद्वादकल्पलतायाम् । किञ्च, दर्शितरीत्या इतरसहकारिसमवहितत्वेन = स्वेतरसहकारिकारणसमवहितकारणत्वेन रूपेण कारणस्य फलव्याप्यतापेक्षया = प्रकृते योगादिलक्षणाऽनन्तरकार्य-मोक्षलक्षणपरम्परकार्योत्पादव्याप्यताऽङ्गीकारापेक्षया तदवच्छेदककारणभेदस्यैव = इतरसहकारिकारणसमवधानाऽवच्छेदकविधया अवश्यक्लृप्तस्य कारणभेदस्यैव, एवकारेणेतरसहकारिसमवहितत्वव्यवच्छेदः कृतः, कल्पनौचित्यात् = अङ्गीकारौचित्यात् । तथाहि मुद्गरादिसमवहितघटत्वादिना रूपेण कपालादिव्याप्यतोपगमेऽवच्छेद्यावच्छेदकभावे विनिगमनाविકરેલ ભોજનાદિ બળની પુષ્ટિ કરનાર થાય છે. તેમ પ્રસ્તુતમાં સમજવું. અહીં એવી શંકા થઈ શકે છે કે – રોગી કે નીરોગી માણસ ભોજન કરે તેમાં ભોજનક્રિયામાં કોઈ ભેદ નથી પડતો. પરંતુ માત્ર ત્યાં ભોજન-ક્રિયાના સહકારી કારણરૂપ કર્તાનો જ ભેદ હોય છે. તે જ રીતે પ્રભુપૂજા, ગુરુપૂજન વગેરે ક્રિયા શરમાવર્તી કરે કે અચરમાવર્તી જીવ કરે એટલા માત્રથી કાંઈ ક્રિયામાં ફેર પડતો નથી. કર્તા તો ક્રિયાનું સહકારી કારણ માત્ર છે. કર્તા બદલાય એટલે મૂળભૂત यामा ३२४ भानवानी ४३२ थी ? - પરંતુ આ શંકા વ્યાજબી નથી. આનું કારણ એ છે કે કારણ સામગ્રીને કાર્યની વ્યાપ્ય માનવામાં આવે છે. પરંતુ કારણ સામગ્રીમાં કાર્યવ્યાપ્યતાના નિયામક ધર્મસ્વરૂપે ઈતર સહકારી કારણ સમવહિતત્વને માનવા કરતા ઈતરસહકારીકારણસમરહિતત્વવિચ્છેદકીભૂત કારણભેદને માનવો વધારે ઉચિત છે. કારણ १. '...छेदककका...' इति हस्तादर्श पाठः । प्राचीन- मुद्रितप्रतौ च 'कं कारणं भेद...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358