Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 284
________________ ८६५ • तपसः प्रायश्चित्तरूपतोपपादनम् • अकृच्छ्राद् = अकष्टात् अतिकृच्छ्रेषु = नरकादिपातफलेषु अपराधेषु, हन्त इति प्रत्यवधारणे, सन्तारणं सन्तरणहेतुः परं = प्रकृष्टं प्राणिनाम् ।।१९।। मासोपवासमित्याहुर्मृत्युघ्नं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ।।२०।। मासेति । मासं यावदुपवासो यत्र तत्तथा (=मासोपवासं) इति = एतत् आहुः मृत्युघ्नं → व्यहं निरशनं पादः पादश्चाऽयाचितस्त्र्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा त्र्यहम् ।। - (आ.स्मृ.१/१३) इत्येवमुपदर्शितम् । बौधायनधर्मसूत्रे तु → व्यहं प्रातस्तथा सायं त्र्यहमन्यदयाचितम् । त्र्यहं परं तु नाश्नीयात् पराक इति कृच्छ्र: ।। (बौ.ध.१/२/२/२५) इत्येवमुक्तमित्यवधेयम् । याज्ञवल्क्यस्मृतौ चातिकृच्छ्रलक्षणं → कृच्छ्रातिकृच्छ्र: पयसा दिवसानेकविंशतिम् + (याज्ञ.स्मृ.प्राय.३२०) इत्येवमुक्तम् । तल्लक्षणं मनुस्मृतौ तु “एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहञ्चोपवसेदन्त्यमतिकृच्छं चरन् द्विजः ।।” (मनु.११/२१३) इत्येवमावेदितम् । याज्ञवल्क्यस्मृतौ तप्तकृच्छ्रलक्षणं → तप्तक्षीर-घृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्रस्तु पावनः ।। ( (या.स्मृ. ५।३१७) इत्येवमुक्तम् । विष्णुपुराणे च तल्लक्षणं → त्र्यहमुष्णाः पिवेदपः, व्यहमुष्णं घृतम्। त्र्यहमुष्णं पयः, त्र्यहं नाश्नीयादेष तप्त-कृच्छ्रः ।। 6 (वि.पु.३१७) इत्युक्तमित्यवधेयम् । पराशरस्मृतौ (परा.स्मृ.४/७) अपि एवंप्रायः तविधिः। → हविष्यात् प्रातराशान् भुक्त्वा तिस्रो रात्री श्नीयादथाऽपरं त्र्यहं नक्तं भुजीत अथापरं त्र्यहं न कञ्चन याचेदथापरं व्यहमुप-वसेत् तिष्ठेदहनि रात्रावासीत - (गो.स्मृ.२७ अध्याय.पृष्ठ-६७) इति तु गौतमस्मृतौ।। नन्वैतादृशकष्टाङ्गीकरणं किमर्थम् ? इति शङ्कनीयम, नरकादिफलककर्मापेक्षयाऽस्य तत्त्वतोऽकृच्छ्रत्वात्, प्रकृततपोऽङ्गीकारेण तन्निवृत्त्युपपत्तेरित्याशयेनाह- अकष्टात् = कृच्छ्राभिधानं तपः तत्त्वतोऽकृच्छ्रमवलम्ब्य नरकादिपातफलेषु अपराधेषु प्रकृतजन्म-जन्मान्तरकृतेषु विषये प्राणिनां प्रकृष्टं सन्तारणं = सन्तरणहेतुः । तदुक्तं देवलस्मृतौ → महापातकयुक्तो वा युक्तो वा सर्वपातकैः । कृच्छ्रेणैतेन महता सर्वपापैः प्रमुच्यते ।। 6 (दे.स्मृ.४/२०९७) तपःकप्टाऽनङ्गीकारे नरकादिकप्टसहनस्याऽपरिहार्यत्वात्, दुर्गत्यपेक्षया तत्त्वतोऽकप्टत्वेऽपि व्यवहारतः कप्टरूपस्य तपसोऽङ्गीकारे च तस्य परिहार्यत्वमिति तपस उपादेयताऽनाविला सिध्यतीति भावः । प्रकृते → उपेत्य तु स्त्रियं कामात् प्रायश्चित्तं विनिर्दिशेत् । प्राणायामसमायुक्तं कुर्यात्सान्तपनं तथा ।। अकामादपि हिंसेत यदि भिक्षुः पशून मृगान् । कृच्छ्राऽतिकृच्छ्रे कुर्वीत चान्द्रायणमथापि वा ।। - (वा.पु.१८/७-१३) इति वायुपुराणवचनविन्यासोऽपि न विस्मर्तव्यो नानातन्त्रीयव्यवस्थावुभुत्सुभिः ।।१२/१९।। (“ફચ્છ' શબ્દનો અર્થ મુશ્કેલ-અઘરું-કષ્ટદાયક એવા થાય છે. કરનારને બાહ્ય દષ્ટિએ અઘરો લાગવાથી આ તપનું નામ કૃચ્છુ રાખેલ છે. પરંતુ પરિણામની દષ્ટિએ વિચાર કરવામાં આવે તો આ તપ સરળ છે. કારણ કે) જીવોને નરકગમન વગેરે ફળને દેનારા મોટા અપરાધોને તરી જવાનો આ સરળ તપ પ્રકૃષ્ટ હેતુ છે. (૧૨/૧૯) વિશેષાર્થ:-પરસ્ત્રીગમન, માંસાહાર વગેરે નરકગમનહેતુભૂત અપરાધો કરનાર જીવ કચ્છતપ દ્વારા નરકગમન વગેરેથી બચી જાય છે. શૂળીની સજા સોયથી પતી જાય છે. સસ્તામાં નરકનિવારણનો સોદો થઈ જવાથી છૂ (= અઘરી) તપફળદષ્ટિએ અત્યંત સરળ છે. (૧૨/૧૯) ગાથાર્થ - મહિનાના ઉપવાસને તપસ્વીઓ મૃત્યુબ તપ કહે છે. વિધિપૂર્વક મૃત્યુંજય જપથી युत ते त५ परिशुद्ध बने छे. (१२/२०) । ટીકાર્ય - જે તપમાં એક માસ સુધી સળંગ ઉપવાસ કરવાના હોય છે તેને તપસ્વી મુનિઓ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358