Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 312
________________ • अविधिकृताद् वरमकृतम् • ८९१ यद् (?यतः) = यस्माद् व्रतानां दुर्ग्रहोऽसम्यगङ्गीकारः (व्रतदुर्ग्रहः) उक्तः शास्त्रेषु = योगस्वरूपनिरूपकग्रन्थेषु (शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः=) शस्त्राऽग्नि-व्यालानां यो दुर्ग्रहो = 'दुर्गृहीतत्वं तेन सन्निभः = सदृशः, असुन्दरपरिणामत्वात् ।।२।। एमेव भावकिरिअं पवज्जिउं कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी कम्मं समज्जिणइ ।। 6 (पं.व.११९-२०-२१) इत्युक्तम् । अत एव धर्मो न भोगाभिष्वङ्गाय भगवता देशितः किन्तु भवोदधिनिस्तरणाय नौरिव । सम्मतञ्चेदं बौद्धानां अपि । तदुक्तं मज्झिमनिकाये अलग>पमसूत्रे → कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाय 6 (म.नि. १।३।२।२४०, पृ.१८८) इति । कुल्लूपमं = नौकोपमं, शिष्टं स्पष्टम् । ____एतदेवोदाहरणान्तरेण समर्थयमान आह- 'यस्मादि'ति । व्यालो दुष्टभुजङ्गमलक्षणो बोध्यः, शिष्टं स्पष्टम् । यथोक्तं योगबिन्दौ → “अत एव च शस्त्राग्निव्यालदुर्ग्रहसन्निभः । श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ।।” + (यो.बि.१४४) इति । 'अविहिकया वरमकयमिति (जीवा.६१) जीवानुशासनवचनमप्यत्र यथार्थतया लब्धप्रतिप्ठं भवति । यथोक्तं योगशतकवृत्तौ ‘अविधेः प्रत्यवायहेतुत्वात्, अकृतोऽविधिकृतयोगाद्वरम्, असच्चिकित्सोदाहरणादिति (यो.श.५वृ.)। → अविहिकरणम्मि आणाविराहणा दुट्ठमेव ( (उप.प.८६७) इति उपदेशपदवचनमप्यत्राऽनुसन्धेयम् । एतेन → जह भोयणमविहिकयं विणासइ, विहिकयं जीयावेइ । तह अविहिकओ धम्मो देइ भवं, विहिकओ मुक्खं ।। - (सं.स.३५) इति सम्बोधसप्ततिकावचनमपि प्रागुक्तं(पृ.८१) व्याख्यातम् । योगसारप्राभृतेऽपि → तुङ्गाऽऽरोहणतः पातो यथा तृप्तिर्विषाऽन्नतः । यथाऽनर्थोऽवबोधादिमलिनीकरणे तथा ।। (यो.सा.प्रा.८/२७) अर्थकामाऽविधानेन तदभावः परं नृणाम् । धर्माऽविधानतोऽनर्थः तदभावश्च जायते ।। - (यो.सा.प्रा.८/७१) इत्युक्तम् । व्रतदुर्ग्रहस्योपलक्षणत्वात् अविधिवन्दनकरणादिकमप्यवगन्तव्यम् । यथोक्तं पञ्चाशके → होइ य पाएणेसा किलिट्ठसत्ताण मंदबुद्धीण। पाएण दुग्गइफला विसेसओ दुस्समाए उ ।। - (पञ्चा.३/४१) इति । एषा = कूटरूपकतुल्या वन्दना' इति पूर्वोक्तरीत्या(पृ.७०४) विज्ञेयम् ।।१३/२।। શાસ્ત્રોમાં કહેલ છે કે વ્રતોનો અનુચિત રીતે સ્વીકાર શસ્ત્ર, અગ્નિ અને સાપને ખરાબ રીતે પકડવા तुल्य छ, भ3 तेनुं ५२५॥ ५२ . (१3/२) વિશેષાર્થ - વિષમય ભોજનથી તૃપ્તિ થાય ખરી, પરંતુ મોત પણ તેની સાથે જ જોડાયેલ છે. તે જ રીતે “આ સાધનાના ફળરૂપે આવતા ભવમાં હું ચક્રવર્તી બનું, નવમા કૈવેયકનો દેવ થાઉં” આમ નિયાણાપૂર્વક ચારિત્રપાલન કરવાથી બાહ્ય સુખ મળે ખરું. પણ તેની પાછળ દુર્ગતિની પરંપરા જોડાયેલ જ છે. માટે જ નિયાણું વગેરે પરમાર્થથી ત્યાજ્ય જ છે. તલવાર વગેરે શસ્ત્રને પકડવામાં ગફલત થાય તો તેના નિમિત્તે તલવાર પકડનારને જ નુકશાન થાય. અગ્નિ અને સાપને પકડવામાં ભૂલ થાય તો ભૂલ કરનાર તેનો ભોગ બને જ. આ જ રીતે નિયાણા વગેરેથી થતી આરાધનામાં પણ સમજી લેવું. १. 'दुर्ग्रही' इति मुद्रितप्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358