________________
• अविधिकृताद् वरमकृतम् •
८९१ यद् (?यतः) = यस्माद् व्रतानां दुर्ग्रहोऽसम्यगङ्गीकारः (व्रतदुर्ग्रहः) उक्तः शास्त्रेषु = योगस्वरूपनिरूपकग्रन्थेषु (शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः=) शस्त्राऽग्नि-व्यालानां यो दुर्ग्रहो = 'दुर्गृहीतत्वं तेन सन्निभः = सदृशः, असुन्दरपरिणामत्वात् ।।२।। एमेव भावकिरिअं पवज्जिउं कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी कम्मं समज्जिणइ ।।
6 (पं.व.११९-२०-२१) इत्युक्तम् । अत एव धर्मो न भोगाभिष्वङ्गाय भगवता देशितः किन्तु भवोदधिनिस्तरणाय नौरिव । सम्मतञ्चेदं बौद्धानां अपि । तदुक्तं मज्झिमनिकाये अलग>पमसूत्रे → कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाय 6 (म.नि. १।३।२।२४०, पृ.१८८) इति । कुल्लूपमं = नौकोपमं, शिष्टं स्पष्टम् । ____एतदेवोदाहरणान्तरेण समर्थयमान आह- 'यस्मादि'ति । व्यालो दुष्टभुजङ्गमलक्षणो बोध्यः, शिष्टं स्पष्टम् । यथोक्तं योगबिन्दौ → “अत एव च शस्त्राग्निव्यालदुर्ग्रहसन्निभः । श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ।।” + (यो.बि.१४४) इति । 'अविहिकया वरमकयमिति (जीवा.६१) जीवानुशासनवचनमप्यत्र यथार्थतया लब्धप्रतिप्ठं भवति । यथोक्तं योगशतकवृत्तौ ‘अविधेः प्रत्यवायहेतुत्वात्, अकृतोऽविधिकृतयोगाद्वरम्, असच्चिकित्सोदाहरणादिति (यो.श.५वृ.)। → अविहिकरणम्मि आणाविराहणा दुट्ठमेव ( (उप.प.८६७) इति उपदेशपदवचनमप्यत्राऽनुसन्धेयम् । एतेन → जह भोयणमविहिकयं विणासइ, विहिकयं जीयावेइ । तह अविहिकओ धम्मो देइ भवं, विहिकओ मुक्खं ।। - (सं.स.३५) इति सम्बोधसप्ततिकावचनमपि प्रागुक्तं(पृ.८१) व्याख्यातम् ।
योगसारप्राभृतेऽपि → तुङ्गाऽऽरोहणतः पातो यथा तृप्तिर्विषाऽन्नतः । यथाऽनर्थोऽवबोधादिमलिनीकरणे तथा ।। (यो.सा.प्रा.८/२७) अर्थकामाऽविधानेन तदभावः परं नृणाम् । धर्माऽविधानतोऽनर्थः तदभावश्च जायते ।। - (यो.सा.प्रा.८/७१) इत्युक्तम् । व्रतदुर्ग्रहस्योपलक्षणत्वात् अविधिवन्दनकरणादिकमप्यवगन्तव्यम् । यथोक्तं पञ्चाशके → होइ य पाएणेसा किलिट्ठसत्ताण मंदबुद्धीण। पाएण दुग्गइफला विसेसओ दुस्समाए उ ।। - (पञ्चा.३/४१) इति । एषा = कूटरूपकतुल्या वन्दना' इति पूर्वोक्तरीत्या(पृ.७०४) विज्ञेयम् ।।१३/२।। શાસ્ત્રોમાં કહેલ છે કે વ્રતોનો અનુચિત રીતે સ્વીકાર શસ્ત્ર, અગ્નિ અને સાપને ખરાબ રીતે પકડવા तुल्य छ, भ3 तेनुं ५२५॥ ५२ . (१3/२)
વિશેષાર્થ - વિષમય ભોજનથી તૃપ્તિ થાય ખરી, પરંતુ મોત પણ તેની સાથે જ જોડાયેલ છે. તે જ રીતે “આ સાધનાના ફળરૂપે આવતા ભવમાં હું ચક્રવર્તી બનું, નવમા કૈવેયકનો દેવ થાઉં” આમ નિયાણાપૂર્વક ચારિત્રપાલન કરવાથી બાહ્ય સુખ મળે ખરું. પણ તેની પાછળ દુર્ગતિની પરંપરા જોડાયેલ જ છે. માટે જ નિયાણું વગેરે પરમાર્થથી ત્યાજ્ય જ છે. તલવાર વગેરે શસ્ત્રને પકડવામાં ગફલત થાય તો તેના નિમિત્તે તલવાર પકડનારને જ નુકશાન થાય. અગ્નિ અને સાપને પકડવામાં ભૂલ થાય તો ભૂલ કરનાર તેનો ભોગ બને જ. આ જ રીતે નિયાણા વગેરેથી થતી આરાધનામાં પણ સમજી લેવું. १. 'दुर्ग्रही' इति मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org