________________
८९०
• मलनायाः दारुणपरिणामकारणता • द्वात्रिंशिका-१३/२ 'विषाऽन्नतृप्तिसदृशं तद्यतो व्रतदुर्ग्रहः । उक्तः शास्त्रेषु शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः ।।२।।
विषेति । तद् = मुक्त्युपायमलनं विषाऽन्नतृप्तिसदृशं, आपाततः सुखाऽऽभासहेतुत्वेऽपि बहुतरदुःखाऽनुबन्धित्वात् । ___ मुक्तिद्वेषमलीमसाऽन्तःकरणास्तु मुक्त्युपायविनाशनायैव प्रवर्तन्ते । यथोक्तं योगसारप्राभृते → संज्ञानादिरुपायो यो निर्वृतेर्वर्णितो जिनैः । मलिनीकरणे तस्य प्रवर्तन्ते मलीमसाः ।। - (यो.सा.प्रा.८/२५) इति। मुक्त्युपायस्याऽऽराधनाद्यथानुत्तरं फलं तथा मलनादनर्थोऽपि दारुणः। यथोक्तं योगबिन्दौ → स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् । मलनातस्त्वनर्थोऽपि महानेव तथैव हि ।। - (यो.बि.१४२) इति। योगसारप्राभृतेऽपि 'आराधने यथा तस्य फलमुक्तमनुत्तरम् । मलिनीकरणे तस्य तथाऽनों बहुव्ययः ।।' (यो.सा.प्रा.८/२६) इत्युक्तम् । अन्यत्रापि → धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् ।। ( ) इति गदितम् ।।१३/१।।
तदेवाह- "विषे'ति । 'विषान्नतृप्तिसदृशमि'ति । विषमिश्रितभोजनाद्यथोदरपूरणाऽविनाभावितुच्छतृप्तिमरणादिबलवदनिष्टाऽनुबन्धित्वाद्धेया तथा निदानादिना मुक्त्युपायमलनमिश्रज्ञानाद्याराधनातः भवान्तरीयाऽतितुच्छविषयसुखप्राप्तिरपि बहुतरदुःखाऽनुबन्धित्वात् = आपातरमणीयाऽऽभासिकसुखाऽधिक-दुर्ध्यानाऽनुविद्धरोगादिदुःख-दुर्गति-दोषाविलजन्म-जरा-मरणमयभवभ्रमणाद्यनिष्टाऽऽक्षेपकत्वाद् आपाततः = बाह्यदृष्ट्या सुखाऽऽभासहेतुत्वेऽपि = सुखहेतुत्वेनाऽऽभासमानत्वेऽपि परमार्थदृष्ट्या हेयैवेति भावः । उपलक्षणात् जिजीविषया पर्वतशिखरात् पतनं, चिकित्सायाञ्चापथ्यसेवनादिकमुदाहरणतयाऽवगन्तव्यम् । यथोक्तं योगबिन्दौ 'उत्तुङ्गारोहणात्पातो विपाऽन्नात्तृप्तिरेव च । अनर्थाय यथाऽत्यन्तं मलनाऽपि तथेक्ष्यताम् ।।' (यो.बि. १४३) इति। पञ्चवस्तुकेऽपि → जह चेव उ मोक्खफला आणा आराहिया जिणिंदाणं । संसारदुक्खफलया तह चेव विराहिया नवरं ।। जह वाहिओ अ किरियं पवज्जिङ सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं ।।
વિશેષાર્થ :- તીવ્ર ઉત્કટ ભોગતૃષ્ણા મોક્ષસાધનાને ખતમ કરે છે. બાહ્યરૂપે મોક્ષસાધના ચાલુ રહેવા છતાં જો અંતરમાં કારમી ભોગતૃષ્ણા સળગતી હોય તો તે મોક્ષસાધના સળગીને સાફ થઈ જાય છે. જો મુક્તિઅષસ્વરૂપ મુશળધાર વરસાદ વરસે તો ભોગતૃષ્ણાનો દાવાનળ બુઝાઈ જાય છે. તથા ત્યાર બાદ થતી મોક્ષસાધના જીવંતસ્વરૂપે વાસ્તવમાં ટકી શકે છે. આમ મોક્ષસાધનોનો ઉચ્છેદ ન થવા हेवामा मुस्लिमद्वेष महत्वनो ( म४वे छे. (१३/१)
ગાથાર્થ :- મોક્ષસાધનાને ખતમ કરવી તે ઝેરી ભોજનથી થતી તૃપ્તિ સમાન છે. કારણ કે વ્રતને ખરાબ રીતે ગ્રહણ કરવું તે શાસ્ત્રોમાં શસ્ત્ર, અગ્નિ અને સાપને ખરાબ રીતે પકડવા તુલ્ય કહેવાયેલ છે. (૧૩/૨)
ટીકાર્થ:- મોક્ષની સાધનાને ખતમ કરવી તે ઝેરી ભોજનથી થતી તૃપ્તિતુલ્ય છે. કારણ કે નિયાણાપૂર્વક મોક્ષસાધનને આરાધવાથી બાહ્ય રીતે તે સુખાભાસનો હેતુ થવા છતાં પણ (= સુખહેતુરૂપે ભાસવા છતાં પણ) ઢગલાબંધ દુઃખની પરંપરાને તાણી લાવનાર છે. આ જ કારણે યોગનું સ્વરૂપ દર્શાવનારા १. हस्तादर्श 'विषान्नतृप्त...' इति पाठः । २. हस्तादर्श 'शस्त्रग्नै' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org