________________
• मुक्त्यद्वेषस्य मलनाऽभावप्रयोजकता •
८८९ ॥ अथ मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ।।१३।। उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाहउक्तभेदेषु योगीन्द्रर्मुक्त्यद्वेषः प्रशस्यते । मुक्त्युपायेषु नो चेष्टा 'मलनायैव यत्ततः ।।१।।
उक्तभेदेष्विति । मलनायैव = विनाशनिमित्तमेव । तद्धि भवोपायोत्कटेच्छया स्यात् । सा च न मुक्त्यद्वेष इति मुक्त्युपायमलनाऽभावप्रयोजकोऽयम् ।।१।।
नयलता. गुरु-देवादिपूजादेः साफल्यं येन जायते । व्याख्यायतेऽधुना सोऽयं मुक्त्यद्वेषः प्रपञ्चतः ।।१।।
पूर्वसेवाद्वात्रिंशिकायां योगबिन्दुप्रभृत्यनुसारेण विस्तरत उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं पूर्वसेवाचरमभेदं प्राधान्येन = परमत्वेन पुरस्कुर्वन्नाह- 'उक्ते'ति । उक्तभेदेषु गुरुदेवादिपूजनादिषु मध्ये योगीन्द्रैः मुक्त्यद्वेषः प्रशस्यते । यथोक्तं योगबिन्दौ → नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात् तथा कल्याणभागिनः ।। - (यो.बि.१४०) इति । 'अयं = द्वेषः, तत्र = मुक्तौ' । योगसारप्राभृतेऽपि 'नास्ति येषामयं तत्र भवबीजवियोगतः । तेऽपि धन्या महात्मानः कल्याणफलभागिनः ।।' (यो.सा.प्रा.८/२४) इत्युक्तम् । स्वगतसंसारयोग्यतालक्षणभवबीजस्य मनाक् परिहाणितोऽतिरिक्तं हेतुमाह- यत् = यस्मात् कारणात् ततः = मुक्त्यद्वेषात् हेतोः मुक्त्युपायेषु सम्यग्दर्शन-ज्ञानचारित्ररूपेषु चेष्टा मनोवाक्कायप्रवृत्तिरूपा नो = नैव मलनायैव = विनाशनिमित्तमेव, किम्पुनः कदाराधनार्थमपि ।
तद्धि = मुक्त्युपायविनाशनं भवोपायोत्कटेच्छया = संसारपरिभ्रमणकारणविषयसुखगोचरा या सदुपदेशादिनाऽप्यनिवर्तनीयाऽभिलाषा, तया स्यात् । सा च भवोपायभूतविषयसुखोत्कटेच्छा न मुक्त्यद्वेषे सति भवितुमर्हति । यथोक्तं योगबिन्दौ ‘सज्ज्ञानादिश्च यो मुक्तरुपायः समुदाहृतः । मलनायैव तत्राऽपि न चेष्टैषां प्रवर्तते ।। (यो.बि.१४१) इति हेतोः मुक्त्युपायमलनाऽभावप्रयोजकः अयं = मुक्त्यद्वेषः । मुक्ताविव मुक्त्युपाये मुक्तिपथप्रस्थितेषु चाऽद्वेषान्मुक्त्युपायमलनाऽभावप्रयोजकत्वमिव मुक्तिपथप्रस्थितमलनाऽभावप्रयोजकत्वमपि स्वयमुन्नेयमस्य ।
હ મુક્તિઅદ્વેષપ્રાધાન્ય દ્વાવિંશિકા પ્રાશ છે પૂર્વસેવાના અનેક પ્રકારો ૧૨ મી બત્રીસીમાં બતાવ્યા. તેમાં મુક્તિઅષની પ્રધાનતાને દર્શાવતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ :- પૂર્વસેવાના ઉપરોક્ત પ્રકારોમાં યોગીશ્વરો મુક્તિઅષને સહજતઃ વખાણે છે. કારણ કે મુક્તિઅદ્વેષથી મુક્તિઉપાયોમાં થતી પ્રવૃત્તિ વિનાશનું નિમિત્ત થતી નથી. (૧૩/૧)
હ મુક્તિઅદ્વેષ = શ્રેષ્ઠ પૂર્વસેવા છે ટીકાર્થ :- મોક્ષના ઉપાયો પણ જો સાંસારિક સુખના ઉપાય તરીકેની ઉત્કટ ઈચ્છાથી સેવવામાં આવે તો તે વિનાશનિમિત્ત જ થાય છે. પરંતુ, મુક્તિઅદ્વેષ હોય તો સાંસારિકસુખોપાયની તીવ્ર ઉત્કટ ઈચ્છા થઈ શકતી જ નથી. આમ મોક્ષના ઉપાયનો નાશ ન થવામાં મુક્તિઅદ્વેષ પ્રયોજક છે.(૧૩/૧) १. हस्तादर्श 'मलिना...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org