Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 315
________________ ८९४ • निदानकरणे बन्धनानुच्छेदः • द्वात्रिंशिका-१३/३ बीजत्वेन परिणतिविरसा अहिता = अनिष्टा तत्त्वतः, चौर्याऽर्जितबहुविभूतिवदिति द्रष्टव्यम् । च → योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् + (यो.त.१४, यो.शि.१/१३) इति । → विषयानभिसन्धाय यश ऐश्वर्यमेव वा। अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ।। - (क.दे.सं.५/९) इति कपिलदेवहूतिसंवादवचनाद् विवक्षिताऽभव्यो राजसोऽवगन्तव्यः इत्येवमन्यदपि तन्त्रान्तरमतमत्र योज्यं यथागमम् । ____ अकालश्रामण्यप्रयोगोपनीतत्रैवेयकादिसुखसिद्धिः सन्निपाते सदौपधयोगसौख्यतुल्या ज्ञातव्या । यथा सदौषधं क्षणमात्रं स्वसम्बन्धसामर्थ्यादसाध्ये नव्यज्वरादिव्याधौ सौख्यमुपनयति तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते तथाऽधिकृतश्रामण्यमपक्वभव्यत्वानां सत्त्वानां ग्रैवेयकादिषु बाह्यसुखमात्रमाधाय, पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलं सम्पद्यते । एतेन → अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाऽभिनवोदीर्णे शमनीयमिव ज्वरे ।। - (द्वा.द्वा.१८/२८, लो.त.नि.७) इति सिद्धसेनीयद्वात्रिंशिकालोकतत्त्वनिर्णयकारिकाऽपि प्रागुक्ता(पृ.७०६) व्याख्याता । ततश्च प्रकृतेऽभव्यादीनां मिथ्यात्वमोहितमतित्वात् परमार्थतो अवेयकादिसुखयोगोऽपि दुःखमेव । उपहतनयनस्य सम्यग्पाऽदर्शनमिव मिथ्यादृष्टेः परमार्थतः समुपस्थितविपुलसौख्याऽननुभव एव बोध्यः। यथोक्तं उपदेशपदे → कह णु अकालपओगे एत्तो गेवेज्जगाइसुहसिद्धी । णणु साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ।। कुणइ जह सन्निवाए सदोसहं जोगसोक्खमेत्तं तु । तह एयं विण्णेयं अणोरपारम्मि संसारे ।। ण य तत्तओ तयंपि हु सोक्खं मिच्छत्तमोहियमइस्स । जह रोद्दवाहिगहियस्स ओसहाओ वि तब्भावे ।। जह चेवोवहयणयणो सम्मं रूवं ण पासई पुरिसो । तह चेव मिच्छदिट्ठी विउलं सोक्खं न पावेइ ।। 6 (उ.प.४३८-४३९-४४०-४४१) इति ।। निदानादिपूर्विका नवमवेयकप्राप्तिरपि तत्त्वतोऽनिष्टा चौर्याऽर्जितबहुविभूतिवत् । निदानादेश्चौर्यरूपताऽत्र भावनीया । अत एव न सा श्लाघ्या । यथोक्तं योगबिन्दौ → ग्रैवेयकाप्तिरप्येवं नाऽतः श्लाघ्या सुनीतितः । यथाऽन्यायाऽर्जिता सम्पद् विपाकविरसत्वतः।। -- (यो.बि.१४५) इति । नवमग्रैवेयकभोगाऽऽशयात् पाल्यमानं द्रव्यचारित्रमपि पारमार्थिकधर्मपुरुषार्थतया न गण्यते । प्रकृते → अनागतसुखाऽऽशया प्रत्युपस्थितसुखत्यागो न पुरुषार्थः - (प.प्रा.पृ.१४) इति पद्मप्राभृतकवचनमपि स्मर्तव्यम् । अत एव देवलोकनिदानकरणेनाऽखण्डद्रव्यश्रामण्यपालनेऽपि तस्य बन्धनानि न समुच्छिद्यन्ते ।। बौद्धानामप्यभिमतमिदम् । तदुक्तं मज्झिमनिकाये → कतमास्स पञ्च चेतसो विनिवन्धा असमुच्छिन्ना होन्ति ? इध भिक्खवे, भिक्खु कामे अवीतरागो होति अविगतच्छन्दो अविगतपेमो, अविगतपिपासो, अविगतपरिळाहो अविगततण्हो । एवमस्यायं पढमो चेतसो विनिबन्धो असमुच्छिन्नो होति । पुन च परं, भिक्खवे, भिक्खु काये अवीतरागो होति... एवमस्सायं दुतियो चेतसो विनिबन्धो असमुच्छिन्नो होति । पुन च परं, भिक्खवे, भिक्खु रूपे अवीतरागो होति.... एवमस्सायं ततियो चेतसो विनिबन्धो असमुच्छिन्नो होति। पुन च परं, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुजित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयूत्तो विहरति... एवमस्सायं चतुत्थो चेतसो विनिबन्धो असमुच्छिन्नो होति । पुन च છે તેમ નિયાણાથી મેળવેલો નવમો ગ્રેવેયક-દેવલોક પણ પરમાર્થથી અનિષ્ટ છે - એમ સમજી લેવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358