________________
८९४
• निदानकरणे बन्धनानुच्छेदः • द्वात्रिंशिका-१३/३ बीजत्वेन परिणतिविरसा अहिता = अनिष्टा तत्त्वतः, चौर्याऽर्जितबहुविभूतिवदिति द्रष्टव्यम् । च → योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् + (यो.त.१४, यो.शि.१/१३) इति । → विषयानभिसन्धाय यश ऐश्वर्यमेव वा। अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ।। - (क.दे.सं.५/९) इति कपिलदेवहूतिसंवादवचनाद् विवक्षिताऽभव्यो राजसोऽवगन्तव्यः इत्येवमन्यदपि तन्त्रान्तरमतमत्र योज्यं यथागमम् । ____ अकालश्रामण्यप्रयोगोपनीतत्रैवेयकादिसुखसिद्धिः सन्निपाते सदौपधयोगसौख्यतुल्या ज्ञातव्या । यथा सदौषधं क्षणमात्रं स्वसम्बन्धसामर्थ्यादसाध्ये नव्यज्वरादिव्याधौ सौख्यमुपनयति तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते तथाऽधिकृतश्रामण्यमपक्वभव्यत्वानां सत्त्वानां ग्रैवेयकादिषु बाह्यसुखमात्रमाधाय, पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलं सम्पद्यते । एतेन → अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाऽभिनवोदीर्णे शमनीयमिव ज्वरे ।। - (द्वा.द्वा.१८/२८, लो.त.नि.७) इति सिद्धसेनीयद्वात्रिंशिकालोकतत्त्वनिर्णयकारिकाऽपि प्रागुक्ता(पृ.७०६) व्याख्याता । ततश्च प्रकृतेऽभव्यादीनां मिथ्यात्वमोहितमतित्वात् परमार्थतो अवेयकादिसुखयोगोऽपि दुःखमेव । उपहतनयनस्य सम्यग्पाऽदर्शनमिव मिथ्यादृष्टेः परमार्थतः समुपस्थितविपुलसौख्याऽननुभव एव बोध्यः। यथोक्तं उपदेशपदे → कह णु अकालपओगे एत्तो गेवेज्जगाइसुहसिद्धी । णणु साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ।। कुणइ जह सन्निवाए सदोसहं जोगसोक्खमेत्तं तु । तह एयं विण्णेयं अणोरपारम्मि संसारे ।। ण य तत्तओ तयंपि हु सोक्खं मिच्छत्तमोहियमइस्स । जह रोद्दवाहिगहियस्स ओसहाओ वि तब्भावे ।। जह चेवोवहयणयणो सम्मं रूवं ण पासई पुरिसो । तह चेव मिच्छदिट्ठी विउलं सोक्खं न पावेइ ।।
6 (उ.प.४३८-४३९-४४०-४४१) इति ।।
निदानादिपूर्विका नवमवेयकप्राप्तिरपि तत्त्वतोऽनिष्टा चौर्याऽर्जितबहुविभूतिवत् । निदानादेश्चौर्यरूपताऽत्र भावनीया । अत एव न सा श्लाघ्या । यथोक्तं योगबिन्दौ → ग्रैवेयकाप्तिरप्येवं नाऽतः श्लाघ्या सुनीतितः । यथाऽन्यायाऽर्जिता सम्पद् विपाकविरसत्वतः।। -- (यो.बि.१४५) इति । नवमग्रैवेयकभोगाऽऽशयात् पाल्यमानं द्रव्यचारित्रमपि पारमार्थिकधर्मपुरुषार्थतया न गण्यते । प्रकृते → अनागतसुखाऽऽशया प्रत्युपस्थितसुखत्यागो न पुरुषार्थः - (प.प्रा.पृ.१४) इति पद्मप्राभृतकवचनमपि स्मर्तव्यम् । अत एव देवलोकनिदानकरणेनाऽखण्डद्रव्यश्रामण्यपालनेऽपि तस्य बन्धनानि न समुच्छिद्यन्ते ।।
बौद्धानामप्यभिमतमिदम् । तदुक्तं मज्झिमनिकाये → कतमास्स पञ्च चेतसो विनिवन्धा असमुच्छिन्ना होन्ति ? इध भिक्खवे, भिक्खु कामे अवीतरागो होति अविगतच्छन्दो अविगतपेमो, अविगतपिपासो, अविगतपरिळाहो अविगततण्हो । एवमस्यायं पढमो चेतसो विनिबन्धो असमुच्छिन्नो होति । पुन च परं, भिक्खवे, भिक्खु काये अवीतरागो होति... एवमस्सायं दुतियो चेतसो विनिबन्धो असमुच्छिन्नो होति । पुन च परं, भिक्खवे, भिक्खु रूपे अवीतरागो होति.... एवमस्सायं ततियो चेतसो विनिबन्धो असमुच्छिन्नो होति। पुन च परं, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुजित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयूत्तो विहरति... एवमस्सायं चतुत्थो चेतसो विनिबन्धो असमुच्छिन्नो होति । पुन च છે તેમ નિયાણાથી મેળવેલો નવમો ગ્રેવેયક-દેવલોક પણ પરમાર્થથી અનિષ્ટ છે - એમ સમજી લેવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org