________________
• व्यापन्नदर्शनानां ग्रैवेयकलाभ-परिणामविमर्शः .
८९३ ___व्यापन्नदर्शनानामपि प्राणिनां नवमग्रैवेयकप्राप्तिरपि विपाकविरसा = बहुतरदुःखाऽनुबन्धभव्यस्याऽपि श्रुतसामायिकमात्रस्य लाभो भवेत्, तस्याप्येकादशाङ्गपाठाऽनुज्ञानात् - (वि.आ.भा.१२१९ मलधारवृत्ति) इत्येवं वर्तते ।
तदुक्तं आवश्यकनियुक्तिवृत्तौ श्रीमलयगिरिसूरिभिरपि → अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति - (आ.नि.१०७ मल.वृ.) इति । व्यापन्नदर्शनानां = वान्तसम्यग्दर्शनानां (बृहत्सङ्ग्रहणिवृत्ति-१६५ मलय.) निलवानां अपि प्राणिनां तथाविधचारित्रवतां नवमग्रैवेयकप्राप्तिः । यथोक्तं देवेन्द्रस्तवप्रकीर्णके → गेविज्जेहिं न सक्का उववाओ अन्नलिंगेण ।। जे दंसणवावन्ना लिंगग्गहणं करेंति सामण्णे । तेसिंपि य उववाओ उक्कोसो जाव गेवेज्जा ।।
6 (दे.स्त. १६७-८) इति । हरिभद्रसूरिभिरपि पञ्चवस्तुके → जे दसणवावन्ना लिंगग्गहणं करिति सामन्ने । तेसिं पिय उववाओ उक्कोसो जाव गेविज्जा ।। - (पं.व.१०३९) इति कथितम् । चारित्रं लब्ध्वाऽपि, शास्त्राण्यधीत्याऽपि, ग्रैवेयकमुपलभ्याऽपि ते निजप्रकृतिं नैव त्यजन्ति । तदुक्तं समयसारे अपि → ण मुयइ पयडिमभव्वो सुदृवि अज्झाइऊण सत्थाणि । गुडदुद्धं पि पिबंता ण पण्णया णिव्विसा हुंति ।। - (स.सा.३१७) इति । → यावज्जीवं पि वे बालो पिण्डतं पयिरुपासति । न सो धम्मं विजानाति दब्बी सूपरसं यथा ।। - (ध.प.५/५) इति धम्मपदवचनमपि दूरभव्याऽभव्यलक्षणबालमधिकृत्य सङ्गच्छत इति द्रष्टव्यम् ।
अत एव नवमग्रैवयकप्राप्तिरपि विपाकविरसा इति । 'ते हि प्रैवेयकेभ्यः च्युताः निर्वाणबीजस्यैकान्तेनाऽसत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वादिमोहाः । अत एव सर्वेष्वप्यकार्येष्वस्खलितप्रवृत्तयो नरकादिपातहेतुमुपायं पापप्राग्भारं पश्चादधस्तान्नरकभाजो भवन्तीति (यो.बि.१४५वृ.) योगबिन्दुवृत्तिकृतः ।
एतेन → आत्मानं च ते जन्ति ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति - (य.वे.उव्व.४०/३) इति यजुर्वेदोव्वटभाष्यवचनमपि व्याख्यातम् । नवमग्रैवेयकसुखमभव्यानां परै राजससुखतया कक्षीक्रियते । तदुक्तं गणेशगीतायां → विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा । हालाहलमिवाऽन्ते यद् राजसं सुखमीरितम् ।। - (ग.गी.११/२३-२४) इति । प्रकृताऽऽचारपालनमपि तन्त्रान्तरे राजसकर्मतयैवाऽभिमतम् । तदुक्तं गणेशगीतायां → यद् बहुक्लेशतः कर्म कृतं यच्च फलेच्छया । क्रियमाणं नृभिदम्भात्कर्म राजसमुच्यते ।। - (ग.गी.११/१५-१६) इति ।
तदीयतपःप्रभृतिकमपि → ऋद्ध्यै सत्कारपूजार्थं सदम्भं राजसं तपः - (ग.गी.११/५) इति गणेशगीतानुसारेण राजसे तपसि परैस्समवतार्यते । → हेतुहीनमसत्यं च देहात्मविषयं च यत् । असदल्पाऽर्थविषयं तामसं ज्ञानमुच्यते ।। - (ग.गी.११/१३) इति गणेशगीतावचनाऽनुसारेणाऽभव्यज्ञानस्य तामसत्वमापद्यते । अत एव न तज्ज्ञानस्य मोक्षप्रापकत्वसम्भवः । तदुक्तं योगतत्त्वोपनिषदि योगशिखोपनिषदि તે દેવલોક ભવિષ્યમાં ઢગલાબંધ દુઃખ-દુર્ગતિ-દોષોની પરંપરાને તાણીને લાવનાર હોવાથી પરિણામે નીરસ અને પરમાર્થથી અહિતકારી જ છે. જેમ ચોરીથી મેળવેલી પુષ્કળ વિભૂતિ પરમાર્થથી અનિષ્ટ છે, અહિતકારી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org