________________
• प्रज्ञापनादिविरोधपरिहारः •
८९५ तत्राऽपि = नवमग्रैवेयकप्राप्तावपि च मुक्त्यद्वेषः कारणं, न केवला क्रियैव हि = अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा । परं, भिक्खवे, भिक्खु अञ्जतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवातरो वा'ति... एवमस्सायं पञ्चमो चेतसो विनिबन्धो असमुच्छिन्नो होति - (म.नि. चेतोखिलसुत्त- १।३।१८६) इति यथागममत्र योजनीयं स्व-परतन्त्रमर्मवेदिभिः । प्रकृते →
कार्यं कारयते शश्चन्नाना वैचित्र्यसङ्कुलम् । संस्काराऽनुचरा जीवा वर्तन्ते सर्वथा खलु ।। वासनोत्पन्नसंस्कारा अभिबध्नन्ति प्राणिनः । आसक्तिरेव मूलञ्च बन्धनस्याऽस्य कारणम् ।। संस्कारो वासनाजन्यः संस्कारात् कर्म जायते । वासनोत्पद्यते भूयः कर्मणो नाऽत्र संशयः ।। वासनायाः पुनर्विज्ञाः ! संस्कारो जायते ध्रुवम् । सदैव वासनाचक्रं जीवानाञ्च गतागतम् ।।
6 (शं.गी.९/८८-९१) इति शम्भुगीतोक्तिप्रबन्धोऽपि यथागममनुयोज्यो विचक्षणैः । एवमेव → न श्रेयांसं पापीयान् अभ्यारोहति - (ता.बा.२।१।४) इति ताण्ड्यब्राह्मणवचनमपि व्याख्येयम् ।
नवमग्रैवेयकप्राप्तौ अपि मुक्त्यद्वेषः कारणं, न केवला अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा क्रियैव ।
यत्तु मलयगिरिसूरिभिः प्रज्ञापनावृत्तौ → मिथ्यादृष्टय एवाऽभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणोऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः । तेऽपीहाऽखिलकेवलक्रियाप्रभावत उपरितनौवेयकेषूत्पद्यन्त एवेति । असंयताश्च ते, सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् + (प्रज्ञा.पद-२०/सू. १४७० वृत्ति) इत्युक्तं, यदपि च अभयदेवसूरिभिः स्थानाङ्गवृत्तौ → प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वात् + (स्था.४ ।४ ।३७३) इत्युक्तं तत्तु बहिरङ्गकारणप्राधान्यप्रेक्षिनयाऽपेक्षया बोध्यम् । इह चाऽखण्डद्रव्यश्रामण्यपरिपालनस्यान्तरङ्गकारणत्वमपोह्यते । एतेन → सो दव्वसंजमेणं पगरिसरुवेण जिणुवदितुणं + (ध.सं.७७७) इति द्रव्यसंयमस्य ग्रैवेयकोपपातकारणतादर्शकं धर्मसङ्ग्रहणिवचनमपि व्याख्यातम् । ___ यद्वा तत्र क्रियानयाऽपेक्षयोक्तं इह तु भावनयापेक्षयोक्तम् । एतेन → न हि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् - (वा.रा.उत्तरकाण्ड-१०।१६) इति वाल्मीकिरामायणवचनमपि व्याख्यातम् । यद्वा → जे दंसणवावन्ना, लिंगग्गहणं करिति सामन्ने । तेसि पि य उववाओ, उक्कोसो जाव गेविज्जे ।। उववाओ एएसिं, उक्कोसो होइ जाव गेविज्जा । उक्कोसेण तवेणं, नियमा निग्गंथरूवेणं ।। - (बृ. सं.१६५-१६६) इति बृहत्सङ्ग्रहण्यां श्रीजिनभद्रगणिक्षमाश्रमणैः चारित्रपरिणामशून्यत्वापेक्षया नवमग्रैवेयकलाभं प्रति क्रियायाः कारणत्वमुक्तम्, इह तु चारित्रक्रियोचितभावशून्यक्रियोपसर्जनभावेन प्रतिवन्धकाभावगतकारणताप्राधान्यार्पणयोक्तम् । एतेन → भावशून्याऽपि जीवानां सुखाय धार्मिकी क्रिया । तद्ग्रैवेयक-सम्भूतिरभव्येऽप्यर्हता मता ।। - (अर्ह.गी. १८/१९) इति अर्हद्गीतावचनमपि व्याख्यातम्, मुक्त्यद्वेषलक्षणभावसम्पन्नत्वेऽपि रत्नत्रयसमुचितभावशून्यत्वप्राधान्यविवक्षया तदुपपत्तेः ।
વળી, નવમા સૈવેયકની પ્રાપ્તિમાં પણ માત્ર અખંડ દ્રવ્યચારિત્રપાલનસ્વરૂપ ક્રિયા જ કારણ નથી. પરંતુ મુક્તિઅદ્દેષ કારણ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org