Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 296
________________ • कर्मबन्धकारणमीमांसा • ८७७ तस्या एव बहुत्वाऽल्पत्वाभ्यां दोषोत्कर्षाऽपकर्षोपपत्तेः । अन्यथा जीवत्वस्याऽविशेषतः = सर्वत्र साधारणत्वात् अतिप्रसङ्गः मुक्तेष्वपि बन्धाऽऽपत्तिलक्षणः स्यात् ।।२७।। तदेवाह तस्या एव = आत्मनिष्ठकर्मसंश्लेषयोग्यताया एव बहुत्वाऽल्पत्वाभ्यां = प्रमाण-परिमाणपरिणामादिप्रावल्याऽपकर्षाभ्यां दोषोत्कर्षाऽपकर्षोपपत्तेः = कर्मबन्धाऽनुबन्धाऽऽधिक्य-न्यूनत्वसङ्गतेः, अन्वयव्यतिरेकाभ्यां योग्यतायास्तद्धेतुत्वसिद्धेः । योग-कपाययोः कर्मबन्धं प्रति हेतुत्वादेव सर्वस्तोकस्थितिकः कर्मबन्धः सूक्ष्मसम्परायगुणस्थानकवर्तिनः, ततोऽसङ्ख्यातगुण एकेन्द्रियस्य, ततः सङख्येयगुणो विकलेन्द्रियस्य, ततः सङ्ख्यातगुणोऽसंज्ञिपञ्चेन्द्रियस्य, ततः सङ्ख्येयगुणः संयतस्योत्कृप्टः स्थितिबन्धः, ततो देशविरतस्य जघन्यः स्थितिबन्धः सङ्ख्येयगुणः, ततो देशविरतस्योत्कृष्टः स्थितिबन्धः सङ्ख्येयगुणः, ततोऽविरतस्य सङ्ख्येयगुणस्थितिकः कर्मबन्ध इत्यादिकं कर्मग्रन्थवेदिनां प्रसिद्धम् । तदुक्तं देवेन्द्रसूरिभिः शतकाभिधाने पञ्चमे कर्मग्रन्थे→ जइलहुबंधो वायर, पज्ज असंखगुणा सुहुमपज्जऽहिगो । एसि अपज्जाण लहू, सुहुमेअर अपज्जपज्ज गुरू ।। लहु बिय पज्जअपज्जे, अपजेअर बिय गुरू हिगो एवं । ति चउ असन्निसु नवरं, संखगुणो बियअमणपज्जे ।। तो जइजिट्ठो बन्धो, सङ्खगुणो देसविरय हस्सियरो । सम्मचउ सन्निचउरो, ठिइबन्धाणुकम सङ्खगुणा ।। 6 (श.प.क.४९-५१) इति भावनीयम् ।। वयं तु ब्रूमः - साम्परायिककर्मबन्धं प्रति कषायत्वेन कारणता, ईर्यापथकर्मबन्धं प्रति च योगत्वेन हेतुता, अवश्यक्लृप्तत्वात् । यद्वा 'तेषु बन्धभेदेषु चतुर्यु प्रदेशबन्धो योगात् मनो-वाक्-कायव्यापारात्' (प्र.र.अ.३७) इति प्रशमरत्यवचूरिवचनात् प्रदेशबन्धं प्रति योगत्वेन, प्रशस्ताऽप्रशस्तप्रकृतिवन्धं प्रति प्रशस्ताऽप्रशस्तान्यतरयोगत्वेन, स्थितिबन्धं प्रति कषायत्वेन रसबन्धं प्रति च लेश्यात्व-कषायत्वाभ्यामस्तु कारणता, तथैवान्चय-व्यतिरेकयोरनुभूयमानत्वात् । लेश्याविशेपस्य तु अनुभागबन्धविशेषं प्रतीव स्थितिबन्धविशेषं प्रत्यपि कारणताऽनपलपनीयैव । इत्थमेव → तत्र प्रदेशबन्धो योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ।। - (प्र.र.३७) इति प्रशमरतिवचनोपपत्तेः । यद्वाऽस्तु अन्वय-व्यतिरेकाभ्यां कर्मबन्धत्वावच्छिन्नं प्रति योगत्वेनैव हेतुता, लाघवात् । इत्थमेव सयोगिकेवलिनि कर्मबन्धोपपत्तेरिति ध्येयम् । विपक्षदण्डमाह अन्यथा = जीवस्य निरुक्ताऽनुगतरूपेण कर्मबन्धयोग्यतामृतेऽपि आत्मत्वाऽपराभिधानस्य जीवत्वस्य कर्मबन्धनिमित्तत्वाऽभ्युपगमे जीवत्वस्य सर्वत्र = सर्वसंसारि-मुक्तजीवेषु साधारणत्वात् = अनुगतरूपेण सत्त्वात् मुक्तेष्वपि जीवेषु बन्धाऽऽपत्तिलक्षणः = कर्मबन्धाऽऽपत्तिरूपः अतिप्रसङ्गः दुर्निवारः स्यात् यद्वा जीवत्वाऽविशेषात् मुक्तवत् संसारिष्वपि तदनापत्तिः स्यात् । एतेन बन्धस्याऽनादित्वान्नैनां विनाऽनुपपत्तिस्संसारिषु इति प्रतिक्षिप्तम्, प्रवाहाऽपेक्षया बन्धस्याऽनादित्वेऽपि व्यक्त्यपेक्षया सादित्वेन कृतकत्वसिद्धौ नियमेन योग्यतायाः कर्मबन्धकारणत्वसिद्धेः । यथोक्तं योगबिन्दौ → सहजं तु मलं विद्यात् कर्मसम्बन्धयोग्यताम् । आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना यतः ।। જીવોમાં અનુગત હોવાના લીધે સિદ્ધના જીવોમાં પણ કર્મબંધ થવાની સમસ્યા સર્જાશે.(૧૨/૨૭) વિશેષાર્થ :- મલ = કર્મબંધની યોગ્યતા = આત્માના યોગ અને કષાય. મતલબ કે આત્મા કર્મ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358