Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 294
________________ • सर्वदर्शनेषु मुक्त्यद्वेषलाभसम्भवः • ८७५ 'द्वेष' इति । अयं = मुक्तिविषयो द्वेषः अत्यनर्थाय = बहुलसंसारवृद्धये । तदभावस्तु = मुक्तिद्वेषाऽभावः पुनः देहिनां = प्राणिनां भवानुत्कटरागेण = भवोत्कटेच्छाभावेन सहजं = स्वाभाविकं यदल्पमलत्वं ततः (=सहजाल्पमलत्वतः) । मोक्षरागजनकगुणाऽभावेन तदभावेऽपि गाढतरमिथ्यात्वदोषाऽभावेन तद्द्वेषाभावो भवतीत्यर्थः ।।२६।। ___एतत्फलमेतदभावकारणञ्चाऽऽह 'द्वेष' इति । अतिनिबिडमिथ्यात्वादिमोहनीयविपाकविसंस्थूलानां मुक्तिविषयो द्वेषः बहुलसंसारवृद्धये भवति । तदुक्तं योगबिन्दौ → महामोहाभिभूतानामेवं द्वेपोऽत्र जायते । अकल्याणवतां पुंसां तथा संसारवर्धनः ।। - (यो.वि.१३९) इति । अयञ्च द्वेपः सङ्क्लेशात्मक एव । सङ्क्लिष्टचित्ततया दुर्गतिप्रतिकाङ्कित्वमेवास्येति निश्चीयते बौद्धतन्त्राऽनुसारेणाऽपि । तदुक्तं मज्झिमनिकाये → चित्ते सङ्किलिडे दुग्गतिपाटिकङ्खा - (म.नि.वस्त्रसूत्र-१-१-७-७०, पृ.४६) इति भावनीयमनेकतन्त्रसमवतारेण सर्वत्र यथागमं विवेकिभिः । एतदभावः कथं स्यात् ? इत्यत आह- मुक्तिद्वेषाऽभावः पुनः प्राणिनां भवोत्कटेच्छाऽभावेन = विषयसुखगोचराऽबाध्यवाञ्छाविरहेण, स्वाभाविकं = नदीपाषाणघोलन्यायेन कालपरिपाकोपहितस्वयोग्यताजनितं यद् अल्पमलत्वं = स्वगतदीर्घसंसारपरिभ्रमणकारककर्मवन्धयोग्यतालक्षणमलप्रतियोगिकं हानं ततः सकाशात् जायते । न च सहजाऽल्पमलत्वतो मुक्तिराग एव कथं नोपजायते ? इति शङ्कनीयम्, मुक्त्यद्वेपसामग्रीतो विभिन्नाया मुक्तिरागसामग्र्याः तदानीं विरहात् । न च मुक्तिरागविरहे तद्वेपविरहाऽसम्भव इति शङ्कनीयम्, तदा मोक्षरागजनकगुणाऽभावेन = मुक्तिरागोपधायकगुणविशेपविरहेण तदभावेऽपि = मोक्षरागविरहेऽपि गाढतरमिथ्यात्वदोषाऽभावेन = मुक्तिद्वेपकारणीभूतस्याऽनिवर्तनीयमिथ्याज्ञानस्वरूपमहानिविडमिथ्यात्वदोपस्य प्रच्यवेन तद्वेषाऽभावः = तीव्रभोगतृष्णाविलयद्वारा मुक्तिद्वेपविरहः सुरगुरुणाऽप्यनपलपनीय एव सर्वदर्शनसमयस्थितानां योगपूर्वसेवाकृताम् । तथाहि बौद्धदर्शनस्थितो पूर्वसेवाकृद् गाढतरमिथ्यात्वज्ञापकाऽप्रज्ञापनीयत्व-तीव्राऽसदभिनिवेशादिदोपप्रक्षये सति → ब्रह्मचरियं निव्वानपरायनं, निब्बानपरियोसानं - (म.नि.चुळावेदल्लसुत्त-१/५/४/४६६, पृ.३८६) इति मज्झिमनिकायवचनतात्पर्यपरिणमने मुक्त्यद्वेषमुपलभते । मुक्तिद्वेपोपधायकभोगतृष्णाया अविद्यामूलकत्वात्तयोहेयत्वं सर्वतन्त्राणामभिमतमेव । तदुक्तं दीघनिकाये → अविज्जा च भवतण्हा च इमे द्वे धम्मा पहातब्वा - (दी.नि. ३।११।३५२) इति । एतेन संयुक्तनिकाये देवतासंयुक्ते अध्ववर्गे → 'तण्हाय नीयति लोको तण्हाय परिकिस्सति । तण्हाय एकधम्मस्स सब्वेव वसमन्वगू'ति ।। ટીકાર્ય :- મુક્તિવિષયક દ્વેષ દીર્ઘ સંસારની વૃદ્ધિ માટે થાય છે. આ જ મોટો અનર્થ છે. “મુક્તિદ્વેષ કયારે રવાના થાય?” આ સમસ્યાનું સમાધાન આપતા ગ્રંથકારશ્રી કહે છે કે- સ્વાભાવિક રીતે કર્મકચરો ઓછો થવાના લીધે સાંસારિક સુખની તીવ્ર આસક્તિ રવાના થતા મુક્તિદ્વેષ રવાના થાય છે. કહેવાનો આશય એ છે કે મોક્ષનો રાગ પ્રગટાવે તેવો કોઈ ગુણ ન હોવાના કારણે મોક્ષરાગ ન પ્રગટવા છતાં પણ અત્યંત ગાઢ મિથ્યાત્વ = મહામિથ્યાત્વરૂપ દોષ રવાના થવાથી મોક્ષદ્વેષ પણ રવાના થાય છે. (૧૨/૨૬) १. हस्तादर्श .....ल्पमनत्वं' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358