________________
• सर्वदर्शनेषु मुक्त्यद्वेषलाभसम्भवः •
८७५ 'द्वेष' इति । अयं = मुक्तिविषयो द्वेषः अत्यनर्थाय = बहुलसंसारवृद्धये । तदभावस्तु = मुक्तिद्वेषाऽभावः पुनः देहिनां = प्राणिनां भवानुत्कटरागेण = भवोत्कटेच्छाभावेन सहजं = स्वाभाविकं यदल्पमलत्वं ततः (=सहजाल्पमलत्वतः) । मोक्षरागजनकगुणाऽभावेन तदभावेऽपि गाढतरमिथ्यात्वदोषाऽभावेन तद्द्वेषाभावो भवतीत्यर्थः ।।२६।। ___एतत्फलमेतदभावकारणञ्चाऽऽह 'द्वेष' इति । अतिनिबिडमिथ्यात्वादिमोहनीयविपाकविसंस्थूलानां मुक्तिविषयो द्वेषः बहुलसंसारवृद्धये भवति । तदुक्तं योगबिन्दौ → महामोहाभिभूतानामेवं द्वेपोऽत्र जायते । अकल्याणवतां पुंसां तथा संसारवर्धनः ।। - (यो.वि.१३९) इति । अयञ्च द्वेपः सङ्क्लेशात्मक एव । सङ्क्लिष्टचित्ततया दुर्गतिप्रतिकाङ्कित्वमेवास्येति निश्चीयते बौद्धतन्त्राऽनुसारेणाऽपि । तदुक्तं मज्झिमनिकाये → चित्ते सङ्किलिडे दुग्गतिपाटिकङ्खा - (म.नि.वस्त्रसूत्र-१-१-७-७०, पृ.४६) इति भावनीयमनेकतन्त्रसमवतारेण सर्वत्र यथागमं विवेकिभिः ।
एतदभावः कथं स्यात् ? इत्यत आह- मुक्तिद्वेषाऽभावः पुनः प्राणिनां भवोत्कटेच्छाऽभावेन = विषयसुखगोचराऽबाध्यवाञ्छाविरहेण, स्वाभाविकं = नदीपाषाणघोलन्यायेन कालपरिपाकोपहितस्वयोग्यताजनितं यद् अल्पमलत्वं = स्वगतदीर्घसंसारपरिभ्रमणकारककर्मवन्धयोग्यतालक्षणमलप्रतियोगिकं हानं ततः सकाशात् जायते । न च सहजाऽल्पमलत्वतो मुक्तिराग एव कथं नोपजायते ? इति शङ्कनीयम्, मुक्त्यद्वेपसामग्रीतो विभिन्नाया मुक्तिरागसामग्र्याः तदानीं विरहात् । न च मुक्तिरागविरहे तद्वेपविरहाऽसम्भव इति शङ्कनीयम्, तदा मोक्षरागजनकगुणाऽभावेन = मुक्तिरागोपधायकगुणविशेपविरहेण तदभावेऽपि = मोक्षरागविरहेऽपि गाढतरमिथ्यात्वदोषाऽभावेन = मुक्तिद्वेपकारणीभूतस्याऽनिवर्तनीयमिथ्याज्ञानस्वरूपमहानिविडमिथ्यात्वदोपस्य प्रच्यवेन तद्वेषाऽभावः = तीव्रभोगतृष्णाविलयद्वारा मुक्तिद्वेपविरहः सुरगुरुणाऽप्यनपलपनीय एव सर्वदर्शनसमयस्थितानां योगपूर्वसेवाकृताम् ।
तथाहि बौद्धदर्शनस्थितो पूर्वसेवाकृद् गाढतरमिथ्यात्वज्ञापकाऽप्रज्ञापनीयत्व-तीव्राऽसदभिनिवेशादिदोपप्रक्षये सति → ब्रह्मचरियं निव्वानपरायनं, निब्बानपरियोसानं - (म.नि.चुळावेदल्लसुत्त-१/५/४/४६६, पृ.३८६) इति मज्झिमनिकायवचनतात्पर्यपरिणमने मुक्त्यद्वेषमुपलभते । मुक्तिद्वेपोपधायकभोगतृष्णाया अविद्यामूलकत्वात्तयोहेयत्वं सर्वतन्त्राणामभिमतमेव । तदुक्तं दीघनिकाये → अविज्जा च भवतण्हा च इमे द्वे धम्मा पहातब्वा - (दी.नि. ३।११।३५२) इति । एतेन संयुक्तनिकाये देवतासंयुक्ते अध्ववर्गे → 'तण्हाय नीयति लोको तण्हाय परिकिस्सति । तण्हाय एकधम्मस्स सब्वेव वसमन्वगू'ति ।।
ટીકાર્ય :- મુક્તિવિષયક દ્વેષ દીર્ઘ સંસારની વૃદ્ધિ માટે થાય છે. આ જ મોટો અનર્થ છે. “મુક્તિદ્વેષ કયારે રવાના થાય?” આ સમસ્યાનું સમાધાન આપતા ગ્રંથકારશ્રી કહે છે કે- સ્વાભાવિક રીતે કર્મકચરો ઓછો થવાના લીધે સાંસારિક સુખની તીવ્ર આસક્તિ રવાના થતા મુક્તિદ્વેષ રવાના થાય છે. કહેવાનો આશય એ છે કે મોક્ષનો રાગ પ્રગટાવે તેવો કોઈ ગુણ ન હોવાના કારણે મોક્ષરાગ ન પ્રગટવા છતાં પણ અત્યંત ગાઢ મિથ્યાત્વ = મહામિથ્યાત્વરૂપ દોષ રવાના થવાથી મોક્ષદ્વેષ પણ રવાના થાય છે. (૧૨/૨૬) १. हस्तादर्श .....ल्पमनत्वं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org