________________
८६५
• तपसः प्रायश्चित्तरूपतोपपादनम् • अकृच्छ्राद् = अकष्टात् अतिकृच्छ्रेषु = नरकादिपातफलेषु अपराधेषु, हन्त इति प्रत्यवधारणे, सन्तारणं सन्तरणहेतुः परं = प्रकृष्टं प्राणिनाम् ।।१९।। मासोपवासमित्याहुर्मृत्युघ्नं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ।।२०।।
मासेति । मासं यावदुपवासो यत्र तत्तथा (=मासोपवासं) इति = एतत् आहुः मृत्युघ्नं → व्यहं निरशनं पादः पादश्चाऽयाचितस्त्र्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा त्र्यहम् ।। - (आ.स्मृ.१/१३) इत्येवमुपदर्शितम् । बौधायनधर्मसूत्रे तु → व्यहं प्रातस्तथा सायं त्र्यहमन्यदयाचितम् । त्र्यहं परं तु नाश्नीयात् पराक इति कृच्छ्र: ।। (बौ.ध.१/२/२/२५) इत्येवमुक्तमित्यवधेयम् । याज्ञवल्क्यस्मृतौ चातिकृच्छ्रलक्षणं → कृच्छ्रातिकृच्छ्र: पयसा दिवसानेकविंशतिम् + (याज्ञ.स्मृ.प्राय.३२०) इत्येवमुक्तम् । तल्लक्षणं मनुस्मृतौ तु “एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहञ्चोपवसेदन्त्यमतिकृच्छं चरन् द्विजः ।।” (मनु.११/२१३) इत्येवमावेदितम् । याज्ञवल्क्यस्मृतौ तप्तकृच्छ्रलक्षणं → तप्तक्षीर-घृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्रस्तु पावनः ।। ( (या.स्मृ. ५।३१७) इत्येवमुक्तम् । विष्णुपुराणे च तल्लक्षणं → त्र्यहमुष्णाः पिवेदपः, व्यहमुष्णं घृतम्। त्र्यहमुष्णं पयः, त्र्यहं नाश्नीयादेष तप्त-कृच्छ्रः ।। 6 (वि.पु.३१७) इत्युक्तमित्यवधेयम् । पराशरस्मृतौ (परा.स्मृ.४/७) अपि एवंप्रायः तविधिः। → हविष्यात् प्रातराशान् भुक्त्वा तिस्रो रात्री श्नीयादथाऽपरं त्र्यहं नक्तं भुजीत अथापरं त्र्यहं न कञ्चन याचेदथापरं व्यहमुप-वसेत् तिष्ठेदहनि रात्रावासीत - (गो.स्मृ.२७ अध्याय.पृष्ठ-६७) इति तु गौतमस्मृतौ।।
नन्वैतादृशकष्टाङ्गीकरणं किमर्थम् ? इति शङ्कनीयम, नरकादिफलककर्मापेक्षयाऽस्य तत्त्वतोऽकृच्छ्रत्वात्, प्रकृततपोऽङ्गीकारेण तन्निवृत्त्युपपत्तेरित्याशयेनाह- अकष्टात् = कृच्छ्राभिधानं तपः तत्त्वतोऽकृच्छ्रमवलम्ब्य नरकादिपातफलेषु अपराधेषु प्रकृतजन्म-जन्मान्तरकृतेषु विषये प्राणिनां प्रकृष्टं सन्तारणं = सन्तरणहेतुः । तदुक्तं देवलस्मृतौ → महापातकयुक्तो वा युक्तो वा सर्वपातकैः । कृच्छ्रेणैतेन महता सर्वपापैः प्रमुच्यते ।। 6 (दे.स्मृ.४/२०९७) तपःकप्टाऽनङ्गीकारे नरकादिकप्टसहनस्याऽपरिहार्यत्वात्, दुर्गत्यपेक्षया तत्त्वतोऽकप्टत्वेऽपि व्यवहारतः कप्टरूपस्य तपसोऽङ्गीकारे च तस्य परिहार्यत्वमिति तपस उपादेयताऽनाविला सिध्यतीति भावः । प्रकृते → उपेत्य तु स्त्रियं कामात् प्रायश्चित्तं विनिर्दिशेत् । प्राणायामसमायुक्तं कुर्यात्सान्तपनं तथा ।। अकामादपि हिंसेत यदि भिक्षुः पशून मृगान् । कृच्छ्राऽतिकृच्छ्रे कुर्वीत चान्द्रायणमथापि वा ।। - (वा.पु.१८/७-१३) इति वायुपुराणवचनविन्यासोऽपि न विस्मर्तव्यो नानातन्त्रीयव्यवस्थावुभुत्सुभिः ।।१२/१९।। (“ફચ્છ' શબ્દનો અર્થ મુશ્કેલ-અઘરું-કષ્ટદાયક એવા થાય છે. કરનારને બાહ્ય દષ્ટિએ અઘરો લાગવાથી આ તપનું નામ કૃચ્છુ રાખેલ છે. પરંતુ પરિણામની દષ્ટિએ વિચાર કરવામાં આવે તો આ તપ સરળ છે. કારણ કે) જીવોને નરકગમન વગેરે ફળને દેનારા મોટા અપરાધોને તરી જવાનો આ સરળ તપ પ્રકૃષ્ટ હેતુ છે. (૧૨/૧૯)
વિશેષાર્થ:-પરસ્ત્રીગમન, માંસાહાર વગેરે નરકગમનહેતુભૂત અપરાધો કરનાર જીવ કચ્છતપ દ્વારા નરકગમન વગેરેથી બચી જાય છે. શૂળીની સજા સોયથી પતી જાય છે. સસ્તામાં નરકનિવારણનો સોદો થઈ જવાથી છૂ (= અઘરી) તપફળદષ્ટિએ અત્યંત સરળ છે. (૧૨/૧૯)
ગાથાર્થ - મહિનાના ઉપવાસને તપસ્વીઓ મૃત્યુબ તપ કહે છે. વિધિપૂર્વક મૃત્યુંજય જપથી युत ते त५ परिशुद्ध बने छे. (१२/२०) ।
ટીકાર્ય - જે તપમાં એક માસ સુધી સળંગ ઉપવાસ કરવાના હોય છે તેને તપસ્વી મુનિઓ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org