________________
विविधकृच्छ्रतपोमीमांसा
द्वात्रिंशिका - १२/१९
सन्तापनादीति । सन्तापनादिभेदेन कृच्छ्रं कृच्छ्रनामकं तपः अनेकधोक्तम्' । आदिना पादसम्पूर्णकृच्छ्रग्रहः । तत्र सन्तापनकृच्छ्रं यथा- " त्र्यहमुष्णं पिबेदम्बु त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः || ” ( ) इति । पादकृच्छ्रं त्वेतत्- “एकभक्तेन नक्तेन तथैवाऽयाचितेन च । उपवासेन चैकेन पादकृच्छ्रं विधीयते । । ” ( ) इति । सम्पूर्णकृच्छ्रं पुनरेतदेव चतुर्गुणितमिति । सन्तापनकृच्छ्रं सान्तपनकृच्छ्रापराभिधानं पादकृच्छ्रं सम्पूर्णकृच्छ्रमित्यादि । यथाक्रमं तल्लक्षणमाचष्टे 'त्र्यहमिति । मनुस्मृती पराशरसमृतौ च गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।। ← (मनु. ११/२१२, परा. स्मृ. १०/२६) इत्युक्तम् । याज्ञवल्क्यस्मृतौ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। जग्ध्वाऽपरे ऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्च यत् ।। पृथक् सान्तपनद्रव्यैः पडह: सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ।। ← (या.स्मृ.प्राय.अ.३१४- ३१५) इत्युक्तम् । द्रव्यप्रमाणं च विज्ञानेश्वरेण मिताक्षरायां 'गोमूत्रं मापकानष्टी गोमयस्य च पोडश । क्षीरस्य द्वादश प्रोक्ता दघ्नश्च दश कीर्त्तिताः । । गोमूत्रवद् घृतस्याप्टौ तदर्धं तु कुशोदकम् । प्रणवेन समालोड्य पिवेत् तत्प्रणवेन तु ।। ' ( या. स्मृ. टीका. प्राय. अ. ३१४-१५) इत्येव - मावेदितम् । यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभिहितः । तथाहि त्र्यहं पिवेत्तु गोमूत्रं त्र्यहं गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पि ततः शुचिः । महासान्तपनं ह्येतत् सर्वपापप्रणाशनम् ।। ← (य. स्मृ.. ) इति । → त्र्यहं त्र्यहं पिवेदुष्णं पयस्सर्पिः कुशोदकम् । वायुभक्षस्त्र्यहं चान्यत् तप्तकृच्छ्रः स उच्यते ।। गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।। ← (वौ.ध.५/५५/४/१०-११) इति तु बौधायनधर्मसूत्रे । जाबालेन तु एकविंशतिदिनमानमस्य व्यावर्णितम् । तथाहि पण्णामेकैकमेतेपां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ।। ← (जा. स्मृ ) इति । पण्णां गोमूत्र - गोमय-क्षीर-दधि घृत- कुशोदकरूपाणामित्यवधेयम् । पादकृच्छ्रमिति । तदुक्तं देवलस्मृतौ अपि एकभक्तेन नक्तेन तथैवायाचितेन तु । उपवासेन चैकेन पादकृच्छ्र उदाहृतः ।। ← (दे. स्मृ. ४/२१५२ ) इति । याज्ञवल्क्यस्मृतौ अपि एकभक्तेन नक्तेन तथैवाऽयाचितेन च । उपवासेन चैवायं पादकृच्छ्रः प्रकीर्त्तितः ।। ← (याज्ञ. स्मृ. प्राय. ३१८) इत्युक्तम् । तद्वृत्तिलेशस्त्वेवम् अहोरात्रमध्ये दिवैकैकं भोजनमेकभक्तम् । एवं रात्रावेकैकं भोजनं नक्तम् । अप्रार्थितं दिवा रात्री वैकरात्रौ वैकभोजनम् । अयाचिते दिवारात्रम् । न रात्रौ न दिवा भोजनमुपवासः । एवं चतुरहः साध्यः पादकृच्छ्रः ← (या. स्मृ ५। ३१८ वृत्ति ) इति । आपस्तम्बस्मृतौ तु पादकृच्छ्रलक्षणं
८६४
•
ગાથાર્થ :- સત્ત્તાપન વગેરે ભેદથી કૃચ્છ તપ અનેક પ્રકારે છે. અતિભયંકર એવા અપરાધો હોવા છતાં પણ સરળ તપથી તેનો પાર પામવાનો પ્રકૃષ્ટ હેતુ આ કૃચ્છ તપ છે. (૧૨/૧૯)
ટીકાર્થ :- સન્તાપન વગેરે પ્રકારથી કૃચ્છ નામનો તપ અનેકવિધ છે. ‘વગેરે’ કહ્યું એટલે પાદકૃચ્છ, સમ્પૂર્ણકૃચ્છ તપનો સમાવેશ કરી લેવો. તેમાં સંતાપનકૃચ્છ તપ આ પ્રમાણે જાણવો. - ‘ત્રણ દિવસ ગરમ પાણી પીવું. ત્રણ દિવસ ઘી પીવું. ત્રણ દિવસ મૂત્રપ્રાશન કરવું. તથા ત્રણ દિવસ દૂધ પીવું.' આ સંતાપનકૃચ્છ તપની વિધિ છે. પાદકૃચ્છ તપની વિધિ તો એવી છે કે – ‘એકાસણું, નક્તભોજન, યાચના વગરનું ભોજન અને એક ઉપવાસ દ્વારા પાદકૃચ્છુ તપ કરાય છે.’ પાદકૃચ્છ તપ ચાર ગણો કરવામાં આવે તો સમ્પૂર્ણકૃચ્છ તપ કહેવાય.
१. हस्तादर्शेविशेषे 'अनेकधोक्तं' नास्ति । अन्यस्मिन् हस्तादर्शे 'अनेकाधोक्तं' इति अधिकः पाठः । २ हस्तादर्शे आदिना पाद
सम्पूर्णकृच्छ्रग्रहः' इति नास्ति । ३. 'अह..'
Jain Education International
इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org