________________
• प्रायश्चित्तरूपेण चान्द्रायणतप: •
८६३ एकैकं वर्धयेद् ग्रासं 'शुक्ले कृष्णे च हापयेत् । भुञ्जीत नाऽमावास्यायामेष चान्द्रायणो विधिः ।।१८।।
___ “एकैकमि'ति । एकैकं वर्धयेद् ग्रासं = कवलं शुक्ले पक्षे प्रतिपत्तिथरारभ्य यावत् पौर्णमास्यां पञ्चदश कवलाः । कृष्णे च पक्षे हापयेत् = हीनं कुर्यात् एकैकं कवलम् । ततो भुञ्जीत न अमावास्यायां', तस्यां सकलकवलक्षयात्। एष चान्द्रायणः चन्द्रेण वृद्धिभाजा क्षयभाजा च सह इयते = गम्यते यत्तच्चन्द्रायणं तस्याऽयं (चान्द्रायणः) विधिः = करणप्रकार इति ।।१८।। सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ।।१९।। → तपो में प्रतिष्ठा 6 (तै.बा.३ ७१७) इति तैत्तिरीयब्राह्मणवचनाच्च तपसि प्रवर्तत इत्यवधेयम् । जैनतन्त्राऽवस्थितश्चाऽपुनर्बन्धकः → भवकोडीसंचियं कम्मं तपसा निजरिज्जइ सं (उत्त.३०/६) इति उत्तराध्ययनसूत्रादिवचनात् तपसि प्रवर्तत इत्यवधेयम् ।।१२/१७।।
प्रथमं चान्द्रायणं तपो विधिनिरूपणेन व्याचष्टे ‘एकैकमिति । एकैकं, न तु व्यादिरूपं, वर्धयेत् = वृद्धिमानयेत् कवलं अन्नस्य । यथोक्तं याज्ञवल्क्यस्मृतौ “तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसंमितान् । एकैकं हासयेत् कृष्णे पिण्डं चान्द्रायणं चरन् ।।” (या.स्मृ.प्राय.३२२) इति । मनुस्मृतौ च ‘एकैकं हासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ।।' (मनु.११/२१६) इत्युक्तम् । → एकैकं हासयेद् ग्रासं कृष्णे, शुक्ले च वर्धयेत् । अमावास्यां न भुञ्जीत ह्येप चान्द्रायणो विधिः ।। - (प.स्मृ.१०/२) इति च पराशरस्मृतौ । अनादिप्टपापशुद्धिरनेनोपजायते । तदुक्तं मनुस्मृतौ ‘अनादिष्टेषु पापेपु शुद्धिः चान्द्रायणेन च' (मनु.११/३२६) इति । → अगम्यगमनं कृत्वा अभक्ष्यस्य च भक्षणम्। शुद्धिश्चान्द्रायणं कृत्वा अथर्वान्ने तथैव च ।। - (आ.स्मृ.१०/१३) इति तु आपस्तम्बस्मृतौ। एवमेवा-ऽकारणं द्विभॊजने चान्द्रायणं प्रायश्चित्ततया दर्शितम् । तदुक्तं यमेन → भिक्षुर्द्धिभोजनं कुर्यात्कदाचिद् ग्लान-दुर्बलः । स्वस्थाऽवस्थो यदा लौल्यात् तदा चान्द्रायणं चरेत् ।। -(यम स्मृ.) इत्यवधेयम् इति । जमदग्निस्मृतौ → अकामादपि हिंसेत पशून् मृगादिकान् यतिः । कृच्छ्रातिकृच्छ्रौ कुर्वीत चान्द्रायणमथापि वा।। (जम.स्मृ.) इत्युक्तम् । लौकिकमतमेतदित्यवधेयम् ।।१२/१८ ।। द्वितीयं कृच्छं तपो निरूपयति 'सन्तापनादी'ति । इह कृच्छ्रनामकं तपोऽनेकधा । तथाहि
ચાન્દ્રાયણતપની વિધિ છે ગાથાર્થ - શુકલ પક્ષમાં એક-એક કોળીયો વધારવો અને કૃષ્ણપક્ષમાં એક-એક કોળીયો ઘટાડવો તથા અમાસના દિવસે જમવાનું નહિ- આ ચાન્દ્રાયણ તપની વિધિ છે. (૧૨/૧૮)
ટીકાર્થ :- શુકલપક્ષ = સુદ પખવાડીયામાં એકમથી માંડીને એક-એક કોળીયો વધારતા જવું. તથા પુનમના ૧૫ કોળીયા વાપરવા. તથા કૃષ્ણપક્ષમાં = વદી પખવાડીયામાં પ્રતિદિન એક-એક કોળીયો ઘટાડવો. તેમ જ અમાસના સમગ્ર દિવસ વાપરવાનું નહિ. કારણ કે અમાસના બધા કોળીયા સમાપ્ત થઈ ગયા હોય છે. આમ ચંદ્રની કળાની વૃદ્ધિ સાથે કોળીયાની વૃદ્ધિ અને ચંદ્રકળાની હાનિ સાથે ભોજનના કોળીયાની હાનિ અનુસારે થતા પ્રસ્તુત ચાન્દ્રયણ તપને કરવાનો પ્રકાર ઉપરોક્ત રીતે સમજવો.(૧૨/૧૮)
विशेषार्थ :- यान्द्राया = यन्द्र + अयन = यन्द्र साथे गमन. यन्द्र४ानी वृद्धि-डानि अनुसार કવલાહારની વૃદ્ધિનહાનિ જે તપમાં સંકળાયેલ હોય તે ચાન્દ્રાયણ કહેવાય. (૧૨/૧૮)
१:शुल्के' इत्यशुद्धः पाठो मुद्रितप्रतौ। २.हस्तादर्श 'वर्धययेद्' इत्यधिकः पाठः। ३.मुद्रितप्रतो 'अमावस्यां' इति त्रुटितः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org