________________
८६२
• श्रद्धया क्रियाकरणे ज्ञानलाभः •
द्वात्रिंशिका - १२/१७
तपश्चान्द्रायणं कृच्छ्रं मृत्युघ्नं पापसूदनम् । आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् ।।१७।।
स्वभूमि
तप इति । लौकिकमपि = लोकसिद्धमपि, अपिर्लोकोत्तरं 'समुच्चिनोति, उत्तमं कोचितशुभाध्यवसायपोषकम् ।।१७।।
इत्येवमुक्तम् । नीवरणपञ्चकं 'कामच्छन्द- 'व्यापादाऽऽ 'लस्यौद्धत्य'-कौकृत्य- 'विचिकित्सालक्षणमवगन्तव्यम् (म.नि. वल्मिकसूत्र - १/३/३/२५१) शिष्टं स्पष्टम् ।
यद्यपि ‘पढमं नाणं तओ दया' (द. वै. ४/१०) इति पूर्वोक्त (पृ. ३७६, पृ.५२१)- दशवैकालिकवचनात् सदाचारापेक्षया ज्ञानस्याभ्यर्हितत्वमेव निश्चितं तथाऽपि सज्ज्ञानाऽनुत्पन्नदशायामपुनर्बन्धकावस्थायां योगपूर्वसेवायां सदाचारपरिपालनस्याऽपि श्रेयोरूपतयाऽनुपसर्जनत्वोपपत्तेः । सम्मतञ्चेदं परेषामपि । तदुक्तं रामगीतायां → ज्ञानं सिध्यतु ते नो वा शुभाचारान्न तु त्यज । श्रेयोहानिः क्वचिन्नैव कस्यचिच्छुभकारिणः ।। यस्य वर्णाश्रमाचारे श्रद्धाऽतीव प्रवर्तते । स कर्मिप्रवरोऽविद्वानपि विद्वत्त्वमवाप्नुयात् ।। ← (रा.गी.१७/५९,९/१९) इति भावनीयमवहितमानसतया सर्वतन्त्रसमवतारकुशलैः ।।१२/१६।।
→ वेदोक्तेन प्रकारेण कृच्छ्र- चान्द्रायणादिभिः । शरीरशोपणं यत् तत् तप इत्युच्यते बुधैः ।। ← (जा.द.२/३) इति जाबालदर्शनोपनिषद्वचनं चेतसिकृत्य योगबिन्दुदर्शितरीत्या ग्रन्थकृदधुनाऽत्राऽवसरसङ्गत्यायातं पूर्वसेवाघटकं तपो निरूपयति- 'तप' इति । लौकिकमपि किम्पुनर्लोकोत्तरमित्यपिशब्दार्थः। तदेवाह अपिः = अपिशब्दः लोकोत्तरं तपः समुच्चिनोति, यतः अपुनर्बन्धको हि लौकिकमिव लोकोत्तरं तपः कर्तुमुत्सहत एव यथाशक्ति । स्वभूमिकोचितशुभाऽध्यवसायपोषकं आदिधार्मिकजीवगतमोक्षमार्गभूमिकायोग्यप्रशस्तपरिणामोपवृंहण-वृद्धि-स्थिरीकरण-शुद्धिकरणादिकारकम् । इदमपि च यथाशक्ति वोध्यम् । यथोक्तं योगबिन्दौ तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रं मृत्युघ्नं पापसूदनम् ।।' ← ( यो. विं. १३१ ) इति ।
=
तन्त्रान्तरे कायिकादि त्रिविधं तपः प्रत्येकं सात्त्विक - राजस - तामसभावेन भिद्यत इति नवधा स्वीक्रियते । तदुक्तं संन्यासगीतायां एवं तपः त्रिधा ज्ञेयं कायिकं वाचिकं तथा । मानसञ्चाथ गुणतः प्रत्येकं त्रिविधं पुनः ।। ← (सं. गी . २ / ३८) इति । वैदिकतन्त्रावस्थितोऽपुनर्बन्धकादिः तपसा मां विजिज्ञासस्व ← (अव्य. २ ) इति अव्यक्तोपनिषद्वचनात् तपसा ब्रह्म विजिज्ञासस्व ← ( तै. आ. ९/ २, तै.उप.३/३/२) इति तैत्तिरीयारण्यक - तैत्तिरीयोपनिषद्वचनात् ब्रह्म तपसि ← (गो. बा. २ /३/२) इति गोपथब्राह्मणवचनात् तपस्वी पुण्यो भवति ← ( तै. आ. १/६२) इति तैत्तिरीयारण्यकवचनात्, ગાથાર્થ :- ચાન્દ્રાયણ તપ, કૃચ્છ તપ, મૃત્યુઘ્ન તપ, પાપસૂદનતપ વગેરે લૌકિક પણ તપ આદિધાર્મિકને પ્રાયોગ્ય ઉત્તમ આરાધના બની શકે છે. (૧૨/૧૭)
* વિવિધ તપની રૂપરેખાઓ
ટીકાર્થ :- ઉપરોક્ત તપશ્ચર્યાઓ લૌકિક હોવા છતાં બીજા લોકોત્તર તપનો અહીં સંગ્રહ કરવો અભિપ્રેત छे. आरए} सहिधार्मिक व सोत्तर तप पए। डरता होय छे. आ आजतनी सूचना आपवा माटे 'अपि ' શબ્દનો ગાથામાં નિર્દેશ કરેલ છે. ઉપરોક્ત તપશ્ચર્યાઓ આદિધાર્મિક જીવને યોગ્ય એટલા માટે છે કે તે તે તપસ્યાઓ અપુનર્બંધક જીવની ભૂમિકાને યોગ્ય એવા શુભ અધ્યવસાયની પોષક છે.(૧૨/૧૭)
१. मुद्रितप्रतौ 'संचिनो...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org