________________
• नानातन्त्रेषु विविधाः सदाचाराः •
८६१ प्रकृते → दाक्षिण्य-लज्जे गुरुदेवपूजा पित्रादिभक्तिः सुकृताऽभिलापः । परोपकार-व्यवहारशुद्धी नृणामिहाऽमुत्र च सम्पदे स्युः ।। - (अ.क.१२/११) इति अध्यात्मकल्पद्रुमवचनं, → धृतिर्दानं क्षमाऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो धर्मसामान्यवृत्तयः ।। - (सं.गी.२/७१) इति संन्यासगीतावचनं, → धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। 6 (मनु.६/९२, ना.परि.३/२४, सं.गी.९/५४) इति मनुस्मृति-नारदपरिव्राजकोपनिषत्संन्यासगीतावचनं, → आचारहीनं न पुनन्ति वेदाः - (व.स्मृ.६/३) इति वशिष्ठस्मृतिवचनं, → योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ।। - (वि.चू.३६८) इति विवेकचूडामणिवचनं, → ब्रह्मचर्यं तथा सत्यमनुक्रोशः समा धृतिः । सनातनस्य धर्मस्य मूलमेतद् दुरासदम् ।। - (ब्र.पु.पू.अ.३०/२७) इति ब्रह्माण्डपुराणवचनं, → अहिंसा सत्यमस्तेयब्रह्मचर्याऽपरिग्रहाः । अक्रोधो गुरुशुश्रूपा शौचं सन्तोप आर्जवम् ।। अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ।। - (शारी.१-२) पूर्वोक्तं(पृ.५५७) इति शारीरकोपनिषद्वचनं, → अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् । कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ।। बन्धुभिर्बद्धसंयोगः स्वजने चतुरस्रता । उचिताऽनुविधायित्वमिति वृत्तं महात्मनाम् ।।
6 (अ.पु.२३८/२१-२२) इति अग्निपुराणवचनं, → दीर्घदर्शित्वमुत्साहः शुचिताऽस्थूललक्षता । विनीतता धार्मिकता गुणाः साध्वभिगामिकाः ।। - (का.नी.सा.४/८) इति कामन्दकीयनीतिसारवचनं, → न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानञ्च मधुरा च वाक् ।। 6 (म.भा.आदिपर्व ८७/१२) इति महाभारतवचनं, → यस्सेते चतुरो धम्मा सद्धस्स घरमेसिनो । सच्चं धम्मो धिती चागो स वे पेच्चे न सोचति ।। 6 (सु.नि.१।१०।८) इति सुत्तनिपातवचनं, → अष्टौ गुणाः पुरुपं दीपयन्ति प्रज्ञा च कौल्यं च दमः शमश्च । पराक्रमश्चाऽवहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।। - (नी.क.९/९९) इति नीतिकल्पतरुवचनं → विपदि धैर्यमथाऽभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाऽभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।। - (नी.श.५९) इति च नीतिशतकवचनं यथासम्भवं यथागमं च योज्यं स्वपरतन्त्रसिद्धान्तविशारदैः ।
___दर्शितनानाविधसदाचारबलादपुनर्बन्धकादिः मोहपाशाद् विमुच्यते । प्रकृते → यस्तूदारचमत्कारः सदाचारविहारवान् । स निर्याति जगन्मोहाद् मृगेन्द्रः पञ्जरादिव ।। - (मु.व्य.६/२८) इति मुमुक्षुव्यवहारप्रकरणमप्यनुयोज्यं यथागमम् ।।
ननु योगमार्गे प्रज्ञातः चेतोविशुद्धिकरणोपयिकध्यानादिप्रतिपादनमेवोचितम्, न त्वेवमसदाचारत्यागादिप्रज्ञापनमिति चेत् ? न, अकुशलानुष्ठानाऽपरित्यागे प्राथमिकध्यानस्याऽप्यसम्भवात् । वौद्धानामप्यभिमतमिदम् । अत एव मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे → सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं, पढमं झानं उपसम्पज्ज विहरति + (म.नि. १/३/७/२९७, पृ.२४२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org