________________
८६०
• सदनुष्ठानानां संस्कारद्वारा महाफलजनकता • द्वात्रिंशिका-१२/१६ प्रकृतसमुदितसदाचारप्रदर्शनं योगबिन्दौ → 'असद्व्ययपरित्यागः, स्थाने चैतक्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ।। लोकाऽऽचाराऽनुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ।।'
+ (यो.बि.१२९-१३०) इति । सुदाक्षिण्य-दयालुत्व-कृतज्ञता-जनापवादभीरुत्व-गुणानुरागादीनां कथञ्चिद्गुणरूपत्वेऽपि आदिधार्मिकाऽपेक्षया क्रियाव्यङ्ग्यत्वाऽपेक्षया चैपां सदाचारत्वोक्तिरपि न विरुध्यत इत्यवधेयम् । → पालनीयाः सदाचाराः - (शं.गी.१/६७) इति शम्भुगीतावचनस्य → अवश्यं धर्ममर्यादा पालनीया प्रयत्नतः 6 (सं.गी.६/६८) इति च संन्यासगीतादिवचनस्यावलम्बनेन तन्त्रान्तराऽवस्थितानामपुनर्वन्धकानामवगन्तव्यं सदाचारपालनम् । ___'पात्रे दीनादिवर्गे च यद्दानं' (द्वा.द्वा.१२/११, पृ.८४९) इत्यादिना दर्शितानि सत्कर्माणि सत्संस्कारस्वरूपसूक्ष्मरूपद्वारा कालान्तरे तत्तज्जीवयोग्यताऽनुसारेण फलन्तीत्यवधेयम् । तदुक्तं संन्यासगीतायां → यावन्ति क्रियमाणानि कर्माणि प्राक्कृतान्यपि । चित्तेपु सूक्ष्मरूपेण विश्राम्यन्ति दृढं नृणाम् ।। यथा वीजे वृक्षरूपं लीनं कश्चित् समीक्षितुम् । प्रवर्तितोऽपि केनाऽपि क्षमते न विलोकितुम् ।। परं बीजं तदेवाऽम्बुमृद्योगं लभते यदि । तदा तस्मात् समुद्भूतो वृक्षः सर्वैरपीक्ष्यते ।। तथा सर्वाणि कर्माणि मनोलीनानि देहिनाम् । अतिसौक्ष्म्यान शक्यन्ते स्मर्तुमहर्नरैः क्वचित् ।। शुभाऽशुभानि तान्येव बलवन्तीह जन्मनि । अन्यजन्मनि वा प्राप्य देश-कालाऽनुकूलताम् ।। यथायोग्यं यथाशक्ति शुभान्येवाऽशुभानि वा । अतर्कितान्यपीहाशु फलानि जनयन्ति हि ।।
- (सं.गी.४/८-१३) इति । शम्भुगीतायां → धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोध औदार्य समदर्शिता ।। परोपकार-निष्कामभावप्रभृतयः शुभाः । साधारणस्य धर्मस्य विद्यन्ते वृत्तयो ध्रुवम् ।।
- (शं.गी.१/७६-७७) इत्येवं याः साधारणधर्मवृत्तयो दर्शिताः ता अपीहाऽनुयोज्या यथातन्त्रं कोविदैः । → यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ।। - (ते.बि.१/३) इति तेजोबिन्दूपनिषद्वचनमप्यत्राऽनुसन्धेयं यथातन्त्रम् ।
पूर्वसेवान्तर्गतः सदाचारः अध्यात्मतत्त्वालोके → लोकापवादैकपदीनिरासः सुदक्षिणत्वं च कृतज्ञता च । सर्वत्र निन्दापरिवर्जनं च सतां स्तवः प्रस्तुतयोग्यवाक्त्वम् ।। उदारता दुर्व्ययवर्जनं च कृतप्रतिज्ञापरिपालनं च । नालस्यवश्यं पुनराग्रहश्च सुयोग्यकार्यपु विवेकबुद्ध्या ।। अदैन्यमापद्यपि, नम्रता च सम्पत्प्रकर्पे, महतां च मार्गे । समारुरुक्षाऽऽर्जवमार्दवे च सन्तोपवृत्तिः सुविचारता च ।। सिद्धान्तहानिर्न हि लोकभीतेः सर्वत्र चौचित्यविधायकत्वम् । एवम्प्रकारः स्वयमूहनीयः सद्भिः सदाचार उदारवुद्ध्या ।। स्वजीवनं कीदृशमुच्चनीति सम्पादयेद् योगपथारुरुक्षुः । तदेतदेतेन विचारकाणां मनोभुवां स्पप्टमुपागतं स्यात् ।।
6 (अ.तत्त्वा. २१८-२२) इत्येवमुपदर्शितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org