________________
• सर्वतन्त्रेषु प्रमादस्य त्याज्यता •
८५९ इति उत्तराध्ययनसूत्रोक्तिः, → पमत्तताए वहगो भवति - (नि.चू.वृ.९२) → पमायमूलो बंधो भवति 6 (नि.चू.६६८९) इति निशीथचूर्णिसदुक्ती, → अप्रमादान्मतो मोक्षो भवश्चैव प्रमादतः - (महा. गी. ५/२४९) इति महावीरगीतोक्तिः जैनदर्शनाऽवस्थितस्याऽपुनर्वन्धकादेः प्रमादपरिहारौपयिकतयाऽवसेया मनीषिभिः ।
→ उत्तिष्ठत, संनह्यध्वम् - (अथ.वे.११।१०।१) इति, → मा जीवेभ्यः प्रमदः - (अथ.वे. ८।१७) इति च अथर्ववेदवचने, → ऊो भव - (य.वे.१३।१३) इति यजुर्वेदवचनं, → यन्ति प्रमोदमतन्द्राः (ऋ.वे.८।२।१८) इति, → व्रतेषु जागृहि 6 (ऋ.वे.९/६१/२४) इति च ऋग्वेदवचने, → उत्तिष्ठत, मा स्वपत - (तै.आ.१।२७) इति तैत्तिरीयारण्यकवचनं, → उत्तिष्ठत जाग्रत - (कठो.३।१४) इति कठोपनिषद्वचनं, → प्रमादो मृत्युः - (अध्या.१४) इति अध्यात्मोपनिषद्वचनं, → प्रमादेन पतितो भवति - (भ.जा.१) इति, → व्रतान्न प्रमदितव्यम् - (भ.जा.२) इति च भस्मजाबालोपनिषद्वचने, → नायमात्मा बलहीनेन लभ्यो न च प्रमादात् + (मुं.३।२।४) इति मुण्डकोपनिषद्वचनं, → सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् 6 (ते.१।११।१) इति तैत्तिरीयोपनिषद्वचनं, → शक्तिविषये मुहूर्त्तमपि नाऽप्रयतस्स्यात् - (बौ.ध.३/१/३१) इति बौधयनधर्मसूत्रं, → प्रमादो नैव कर्तव्यो नरेण शुभमिच्छता - (तन्त्रो.पृ.३९) इति तन्त्रोपाख्यानवचनं, → प्रमत्तस्याऽतिमत्तस्य चित्ते नो धर्मवासना (आ.श.१३) इति आभाणशतकवचनं, → अलसः सर्वकर्मणामनधिकारी 6 (नी.वा.१०/१४४) इति नीतिवाक्यामृतवचनं, → षड् दोपाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।। - (म.भा.उद्योगपर्व-३३ १७८) इति महाभारतवचनञ्चावलम्ब्य वैदिकादितन्त्रस्थोऽपुनर्बन्धकः प्रमादं परिहरति ।
अप्रमादो बौद्धैरपि प्रशस्यते । तदुक्तं सूत्रपिटकान्तर्गते संयुक्तनिकाये कौशलसंयुक्ते अप्रमादसूत्रे → अप्पमादं पसंसन्ति, पुञ्जकिरियासु पण्डिता । अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो ।। - (सं.नि. १।१।३।७।१२८/पृ.१०४) इति । उभो = इहलौकिक-पारलौकिकलक्षणोभयः शिष्टं स्पष्टम् । → पमादो मच्चुनो पदं - (ध.प.२।१) इति धम्मपदवचनं, → अप्पमत्ता सतीमन्तो सुसीला होथ - (दी.नि.२/३/१७) इति दीघनिकायवचनं, → आलस्यं च पमादो च अनुट्ठानं असंयमो । निद्दा तन्दा च ते छिद्दे सव्वसो तं विवज्जये ।। - (सं.नि.११ १७६) इति संयुत्तनिकायवचनं, → अप्पमादं पसंसन्ति पुञ्जकिरियासु पण्डिता 6 (इति. १।२३) इति इतिवृत्तकवचनं, → न तस्स पञ्जा च सुतं च वड्ढति यो सालसो होति नरो पमत्तो - (सु.नि.२।११।६) इति सुत्तनिपातवचनं, → पमादानुपतिनो रजो 6 (थे.गा.६ ।४०४) इति थेरगाथावचनं, → नालसो विन्दते सुखं ८ (जा.१७/५२१/११) इति सूत्रपिटकान्तर्गत-जातकवचनं च बौद्धतन्त्रावस्थितस्याऽपुनर्बन्धकादेः प्रमादपरिहारप्रवर्तकमवसेयम् । एवमन्यदपि स्वधियाऽनुयोज्यं बहुश्रुतैः ।
વિશેષાર્થ :- પ્રસ્તુત બારમી બત્રીસીમાં પૂર્વસેવારૂપે ગુરુપૂજન અને દેવપૂજન બતાવ્યા બાદ ૧૧ થી ૧૬ શ્લોક દ્વારા ૧૯ પ્રકારના સદાચારનું સ્વરૂપ બતાવવામાં આવેલ છે. ત્યાર બાદ હવે યોગની પૂર્વસેવાના જ ઘટક સ્વરૂપ તપનું ૧૭ થી ૨૧ ગાથા સુધી ગ્રંથકારશ્રી વર્ણન કરશે. (૧૨/૧૬)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org