________________
८५८
• धर्माऽविरुद्धा लोकानुवृत्तिः कार्या • द्वात्रिंशिका-१२/१६ प्रधानकार्यनिर्बन्धः सद्व्ययोऽसद्व्ययोज्झनम् । लोकानुवृत्तिरुचिता प्रमादस्य च वर्जनम् ॥१६॥
'प्रधाने ति । प्रधानकार्ये = विशिष्टफलदायिनि प्रयोजने निर्बन्धः = आग्रहः (=प्रधानकार्यनिर्बन्धः) । सद्व्ययः पुरुषार्थोपयोगी वित्तविनियोगः । (असद्व्ययोज्झनं-) असद्व्ययस्य = तद्विपरीतस्य उज्झनं = त्यागः । लोकानुवृत्तिः = लोकचित्ताऽऽराधना उचिता = धर्माऽविरुद्धा। प्रमादस्य = मद्यपानादिरूपस्य च वर्जनम् ।।१६।। -- (वि.पु.३/८/१४) इति विष्णुपुराणादिवचनतश्च लोकनिन्दितकर्माऽप्रवृत्तिः सम्भवतीत्यवधेयम् ।
अनेन ‘अप्रवृत्तश्च गर्हिते' (यो.शा.१/५०) इति योगशास्त्रोक्तो द्वादशो मार्गानुसारितागुणः प्रकाशितः । तदुक्तं उपदेशपदे अपि → सुपुरिसो ण हि तुच्छो वि अकज्जमायरति (उप.पद.६६४) इति ।।१२/१५।।
तथा 'प्रधाने ति । 'प्रधानकार्यनिर्बन्ध' इत्यनेन तुच्छप्रकृतिविरहो विशेषज्ञतालक्षण-मार्गानुसारितागुणश्च द्योतितः । सदा पुरुषार्थोपयोगी = धर्मादिपुरुषार्थोपबृंहकः वित्तविनियोगः देवपूजादौ कुटुम्बपरिपालनादौ च । अनेन धर्मप्रीतिरावेदिता कर्तव्यपालनपरायणता च । तद्विपरीतस्य = सद्व्ययविपरीतस्य = धर्मादिपुरुपार्थानुपयोगित्वेन तद्वाधकत्वेन वाऽसुन्दरस्य वित्तविनियोगस्य त्यागः = परित्यागः । अनेन हेयाऽरुचिः प्रकाशिता। 'उपाये सति कर्तव्यं, सर्वेषां चित्तरञ्जनमिति (उप.भ.प्र.१ पृ.९) उपमितिभवप्रपञ्चायां कथायां दर्शितेन न्यायेन धर्माऽविरुद्धा लोकचित्ताराधना बहुजनरूढाऽविरोधिलोकव्यवहारानुपालनप्रयुक्तजनमनःसन्तोपद्वारा । अनेन लोकवल्लभता विवेकगर्भा दीर्घदृष्टिः च प्रदर्शिता । → लोकविरुद्धं नाऽऽचरेत् + (वा.सू.५/१६) इति बार्हस्पत्यसूत्रमपि सम्यक् परिणमत्यस्यां दशायाम् ।
मद्यपानादिरूपस्य = मद्यपान-विषय-कपाय-निद्रा-विकथालक्षणस्य तीव्रभोगतृष्णाऽकुशलक्रियोद्यमकुशलक्रियाशैथिल्य-स्वभूमिकोचितचित्तवृत्तिशुद्ध्यनादराद्यात्मकस्य वा प्रमादस्य वर्जनम् । अनेन भववहुमानाऽभावः प्रकटीकृतः । प्रकृते → जे पमत्ते गुणट्ठिए से हु दंडे त्ति पवुच्चति ( (आचा.१।१।४), → धीरे मुहुत्तमवि णो पमायए - (आचा.१ ।२।१), → अलं कुसलस्स पमाएणं - (आचा.१।२।४/८५), → सव्वओ पमत्तस्स भयं 6 (आचा.१।३।४), → उट्ठिए णो पमायए 6 (आचा.१।५।२) इत्याद्या आचाराङ्गसूत्रोक्तयः, → पमायं कम्ममाहंसु (सूत्र.१ ।८।३), → जे छेय से विप्पमायं न कुज्जा - (सूत्र.१।१४।१) इति सूत्रकृताङ्गसूत्रोक्ती, → समयं गोयम ! मा पमायए 6 (उत्त.१०/२६) પાળે નહિ. લોકનિંદા થાય તેવી ચોરી, પરસ્ત્રીગમન, વેશ્યાગમન, મદ્યપાન વગેરે પ્રવૃત્તિ તો મરી ४j ५ तेवा संयो। मावे तो ५ । ३. (१२/१५) ___थार्थ :- (१५) प्रधान आर्यनो माह मवो. (१६) धन वगैरेनी सहव्यय ४२वो. (१७) ५२७ માર્ગે ધન ન વાપરવું. (૧૮) ઉચિત રીતે લોકોને અનુસરવું અને (૧૯) પ્રમાદ છોડવો - આ સદાચાર डेवायेल छे. (१२/१६)
ટીકાર્ય - વિશિષ્ટ ફળ આપે તેવા કાર્યોનો આગ્રહ રાખવો. ધર્મપુરુષાર્થ વગેરેમાં ઉપયોગી બને તે રીતે ધનવ્યય કરવો. તથા તેમાં બાધક બને કે અનુપયોગી બને તેમ સંપત્તિ ન વાપરવી. અર્થાત્ ધનનો દુર્વ્યય ન કરવો. તથા ધર્મને હાનિ ન પહોંચે તેમ ઉચિત રીતે લોકોના મનને સંતોષ આપવા પ્રયત્ન કરવો એ પણ અપુનબંધક જીવનું કર્તવ્ય છે. તથા મદિરાપાન વગેરે પ્રમાદનો ત્યાગ કરવો એ પણ પૂર્વસેવાગત સદાચારનો એક પ્રકાર જ છે. (૧૨/૧૬)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org