Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 280
________________ • नानातन्त्रेषु विविधाः सदाचाराः • ८६१ प्रकृते → दाक्षिण्य-लज्जे गुरुदेवपूजा पित्रादिभक्तिः सुकृताऽभिलापः । परोपकार-व्यवहारशुद्धी नृणामिहाऽमुत्र च सम्पदे स्युः ।। - (अ.क.१२/११) इति अध्यात्मकल्पद्रुमवचनं, → धृतिर्दानं क्षमाऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो धर्मसामान्यवृत्तयः ।। - (सं.गी.२/७१) इति संन्यासगीतावचनं, → धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। 6 (मनु.६/९२, ना.परि.३/२४, सं.गी.९/५४) इति मनुस्मृति-नारदपरिव्राजकोपनिषत्संन्यासगीतावचनं, → आचारहीनं न पुनन्ति वेदाः - (व.स्मृ.६/३) इति वशिष्ठस्मृतिवचनं, → योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ।। - (वि.चू.३६८) इति विवेकचूडामणिवचनं, → ब्रह्मचर्यं तथा सत्यमनुक्रोशः समा धृतिः । सनातनस्य धर्मस्य मूलमेतद् दुरासदम् ।। - (ब्र.पु.पू.अ.३०/२७) इति ब्रह्माण्डपुराणवचनं, → अहिंसा सत्यमस्तेयब्रह्मचर्याऽपरिग्रहाः । अक्रोधो गुरुशुश्रूपा शौचं सन्तोप आर्जवम् ।। अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ।। - (शारी.१-२) पूर्वोक्तं(पृ.५५७) इति शारीरकोपनिषद्वचनं, → अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् । कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ।। बन्धुभिर्बद्धसंयोगः स्वजने चतुरस्रता । उचिताऽनुविधायित्वमिति वृत्तं महात्मनाम् ।। 6 (अ.पु.२३८/२१-२२) इति अग्निपुराणवचनं, → दीर्घदर्शित्वमुत्साहः शुचिताऽस्थूललक्षता । विनीतता धार्मिकता गुणाः साध्वभिगामिकाः ।। - (का.नी.सा.४/८) इति कामन्दकीयनीतिसारवचनं, → न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानञ्च मधुरा च वाक् ।। 6 (म.भा.आदिपर्व ८७/१२) इति महाभारतवचनं, → यस्सेते चतुरो धम्मा सद्धस्स घरमेसिनो । सच्चं धम्मो धिती चागो स वे पेच्चे न सोचति ।। 6 (सु.नि.१।१०।८) इति सुत्तनिपातवचनं, → अष्टौ गुणाः पुरुपं दीपयन्ति प्रज्ञा च कौल्यं च दमः शमश्च । पराक्रमश्चाऽवहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।। - (नी.क.९/९९) इति नीतिकल्पतरुवचनं → विपदि धैर्यमथाऽभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाऽभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।। - (नी.श.५९) इति च नीतिशतकवचनं यथासम्भवं यथागमं च योज्यं स्वपरतन्त्रसिद्धान्तविशारदैः । ___दर्शितनानाविधसदाचारबलादपुनर्बन्धकादिः मोहपाशाद् विमुच्यते । प्रकृते → यस्तूदारचमत्कारः सदाचारविहारवान् । स निर्याति जगन्मोहाद् मृगेन्द्रः पञ्जरादिव ।। - (मु.व्य.६/२८) इति मुमुक्षुव्यवहारप्रकरणमप्यनुयोज्यं यथागमम् ।। ननु योगमार्गे प्रज्ञातः चेतोविशुद्धिकरणोपयिकध्यानादिप्रतिपादनमेवोचितम्, न त्वेवमसदाचारत्यागादिप्रज्ञापनमिति चेत् ? न, अकुशलानुष्ठानाऽपरित्यागे प्राथमिकध्यानस्याऽप्यसम्भवात् । वौद्धानामप्यभिमतमिदम् । अत एव मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे → सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं, पढमं झानं उपसम्पज्ज विहरति + (म.नि. १/३/७/२९७, पृ.२४२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358