Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 258
________________ पुरुषार्थाराधनकालस्य दुर्लभता ८३९ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्थमनाबाध्य साराणां च निवेदनम् ||४|| सर्वदेति । स्वपुमर्थं धर्मादिकं अनाबाध्य = अनतिक्रम्य । यदि च तदनिष्टेभ्यो निवृत्तौ * तदिष्टेषु च प्रवृत्तौ धर्मादयः पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम् । किं तु पुरुषाऽर्थाऽऽराधनपरेण, अतिदुर्लभत्वात् पुरुषाऽर्थाऽऽराधनकालस्येत्यर्थः । साराणां उत्कृष्टाना समर्पणम् ।।४।। मलङ्कारादीनां निवेदनं = = = • तथा 'सर्वदे 'ति । सर्वदा = सर्वकालं, तदनिष्टानां = = परिहारे निष्ठता प्रतिवद्धता तदिष्टानां धर्मादिकं गुरुवर्गासम्मतानां व्यवहाराणां त्यागे गुरुवर्गप्रियाणां व्यवहाराणामेव उपादाने = प्रवर्तने निष्ठता । स्वपुमर्थं स्वकीयधर्मादिपुरुपार्थं अनतिक्रम्य = अपीडयित्वा इयं सम्पादनीया । अत्रैव योगबिन्दुवृत्तिमवलम्ब्याऽपवादमाह 'यदी 'ति स्पष्टम् । एतेन गुरुवचनमलङ्घनीयं नयाऽनुगतं चेत् ? ← (बा.सू.२/७३) इति बार्हस्पत्यसूत्रवचनमपि व्याख्यातम् । प्रकृते अन्तहियं खु दुहेण लब्भइ ← (सू.कृ.१ ।२ । २ । ३० ) इति सूत्रकृताङ्गोक्तिः स्मर्तव्या सत्पुरुषार्थाऽऽराधनपरेण नरेण । उत्कृष्टानां च अलङ्कारादीनां अलङ्कार-वसन-पान-भोजनौषधादीनां उपभोगाद्यर्थं यथाशक्ति समर्पणं वितरणम् । प्रकृते यो दत्वाऽतिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः । शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ? ।। ← ( म.भा. वनपर्व- १९३-३२ ) इति महाभारतवचनमपि तन्त्रान्तराऽस्थिताऽपुनर्बन्धकस्य प्रकृते प्रवर्तकमवसेयम् । तथा देवाऽतिथि - दीनाऽनाथप्रतिपत्तिप्रभृतीनां परलोकक्रियाणां सर्वकालं गुरुवर्गेण विधापनम् । यथोक्तं योगबिन्दौ = ' साराणाञ्च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणाञ्च कारणं तेन सर्वदा ।। त्यागश्च तदनिष्टानां तदिप्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं प्राहुर्धर्माद्यपीडया' ।। ← (यो.विं. ११३/११४) इति । अतश्च महान् श्रेयोलाभः । तदुक्तं अध्यात्मतत्त्वालोके → वृद्धस्य सेवा गुरुलोकसेवा, ग्लानस्य सेवा पुनरार्तसेवा । कल्याणलाभस्य महान् स पन्थाः सेवाप्रधानो हि मनुष्यधर्मः ।। ← ( अ. तत्त्वा. २ / ७) इति । सामान्यतो गृहस्थधर्मनिरूपणावसरे धर्मबिन्दौ अपि → माता-पितृपूजा (ध.बि. १ । ३१ ), आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाऽभिनवोपनयनम्, = = • = = ગાથાર્થ :- પોતાના પુરુષાર્થને તકલીફ ન પહોંચે તે રીતે ગુરુસ્વર્ગને અનિષ્ટ પદાર્થનો કાયમ ત્યાગ કરવો અને તેમને ગમે તેવા પદાર્થને-વ્યવહારને મેળવવા-કેળવવા તત્પર રહેવું. તથા શ્રેષ્ઠ કોટિના पछार्थो तेमने खापवा- जा गुरुपूरन छे. (१२/४) ટીકાર્થ :- પોતાના ધર્મપુરુષાર્થ વગેરેનું ઉલ્લંધન કર્યા વિના, માતા-પિતા વગેરે ગુરુવર્ગને ન ગમે તેવી બાબતોથી પાછા ફરવું અને તેમને પસંદ પડે તેવી બાબતોમાં પ્રવૃત્ત થવા તત્પર રહેવું. પરંતુ જો માતા-પિતા-વડીલ વગેરેને નાપસંદ બાબતથી પાછા ફરવામાં અને તેમને પસંદ હોય તેવી બાબતોમાં પ્રવૃત્ત થવામાં ધર્મપુરુષાર્થ-મોક્ષપુરુષાર્થ વગેરે સીદાતા હોય તો તેમની ઈચ્છા મુજબ વર્તન-વલણ કેળવવામાં તત્પર ન થવું. પરંતુ ધર્મપુરુષાર્થ વગેરેની આરાધનામાં પરાયણ રહેવું. કારણ કે ધર્મપુરુષાર્થ અને મોક્ષપુરુષાર્થની આરાધના કરવાનો કાળ અત્યંત દુર્લભ છે. તથા યથાશક્તિ સર્વોત્કૃષ્ટ અલંકાર વગેરે માતા પિતા વગેરે ગુરુવર્ગને વાપરવા માટે આપવા. આ બધા ગુરુપૂજનના પ્રકાર છે.(૧૨/૪) ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १ मुद्रितप्रतौ 'बाधन्ते' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358