________________
पुरुषार्थाराधनकालस्य दुर्लभता
८३९
सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्थमनाबाध्य साराणां च निवेदनम् ||४|| सर्वदेति । स्वपुमर्थं धर्मादिकं अनाबाध्य = अनतिक्रम्य । यदि च तदनिष्टेभ्यो निवृत्तौ * तदिष्टेषु च प्रवृत्तौ धर्मादयः पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम् । किं तु पुरुषाऽर्थाऽऽराधनपरेण, अतिदुर्लभत्वात् पुरुषाऽर्थाऽऽराधनकालस्येत्यर्थः । साराणां उत्कृष्टाना
समर्पणम् ।।४।।
मलङ्कारादीनां निवेदनं
=
=
=
•
तथा 'सर्वदे 'ति । सर्वदा
= सर्वकालं, तदनिष्टानां =
= परिहारे निष्ठता प्रतिवद्धता तदिष्टानां
धर्मादिकं
गुरुवर्गासम्मतानां व्यवहाराणां त्यागे गुरुवर्गप्रियाणां व्यवहाराणामेव उपादाने = प्रवर्तने निष्ठता । स्वपुमर्थं स्वकीयधर्मादिपुरुपार्थं अनतिक्रम्य = अपीडयित्वा इयं सम्पादनीया । अत्रैव योगबिन्दुवृत्तिमवलम्ब्याऽपवादमाह 'यदी 'ति स्पष्टम् । एतेन गुरुवचनमलङ्घनीयं नयाऽनुगतं चेत् ? ← (बा.सू.२/७३) इति बार्हस्पत्यसूत्रवचनमपि व्याख्यातम् । प्रकृते अन्तहियं खु दुहेण लब्भइ ← (सू.कृ.१ ।२ । २ । ३० ) इति सूत्रकृताङ्गोक्तिः स्मर्तव्या सत्पुरुषार्थाऽऽराधनपरेण नरेण । उत्कृष्टानां च अलङ्कारादीनां अलङ्कार-वसन-पान-भोजनौषधादीनां उपभोगाद्यर्थं यथाशक्ति समर्पणं वितरणम् । प्रकृते यो दत्वाऽतिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः । शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ? ।। ← ( म.भा. वनपर्व- १९३-३२ ) इति महाभारतवचनमपि तन्त्रान्तराऽस्थिताऽपुनर्बन्धकस्य प्रकृते प्रवर्तकमवसेयम् । तथा देवाऽतिथि - दीनाऽनाथप्रतिपत्तिप्रभृतीनां परलोकक्रियाणां सर्वकालं गुरुवर्गेण विधापनम् । यथोक्तं योगबिन्दौ
=
' साराणाञ्च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणाञ्च कारणं तेन सर्वदा ।। त्यागश्च तदनिष्टानां तदिप्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं प्राहुर्धर्माद्यपीडया' ।।
← (यो.विं. ११३/११४) इति । अतश्च महान् श्रेयोलाभः । तदुक्तं अध्यात्मतत्त्वालोके → वृद्धस्य सेवा गुरुलोकसेवा, ग्लानस्य सेवा पुनरार्तसेवा । कल्याणलाभस्य महान् स पन्थाः सेवाप्रधानो हि मनुष्यधर्मः ।। ← ( अ. तत्त्वा. २ / ७) इति । सामान्यतो गृहस्थधर्मनिरूपणावसरे धर्मबिन्दौ अपि → माता-पितृपूजा (ध.बि. १ । ३१ ), आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाऽभिनवोपनयनम्,
=
=
•
=
=
ગાથાર્થ :- પોતાના પુરુષાર્થને તકલીફ ન પહોંચે તે રીતે ગુરુસ્વર્ગને અનિષ્ટ પદાર્થનો કાયમ ત્યાગ કરવો અને તેમને ગમે તેવા પદાર્થને-વ્યવહારને મેળવવા-કેળવવા તત્પર રહેવું. તથા શ્રેષ્ઠ કોટિના पछार्थो तेमने खापवा- जा गुरुपूरन छे. (१२/४)
ટીકાર્થ :- પોતાના ધર્મપુરુષાર્થ વગેરેનું ઉલ્લંધન કર્યા વિના, માતા-પિતા વગેરે ગુરુવર્ગને ન ગમે તેવી બાબતોથી પાછા ફરવું અને તેમને પસંદ પડે તેવી બાબતોમાં પ્રવૃત્ત થવા તત્પર રહેવું. પરંતુ જો માતા-પિતા-વડીલ વગેરેને નાપસંદ બાબતથી પાછા ફરવામાં અને તેમને પસંદ હોય તેવી બાબતોમાં પ્રવૃત્ત થવામાં ધર્મપુરુષાર્થ-મોક્ષપુરુષાર્થ વગેરે સીદાતા હોય તો તેમની ઈચ્છા મુજબ વર્તન-વલણ કેળવવામાં તત્પર ન થવું. પરંતુ ધર્મપુરુષાર્થ વગેરેની આરાધનામાં પરાયણ રહેવું. કારણ કે ધર્મપુરુષાર્થ અને મોક્ષપુરુષાર્થની આરાધના કરવાનો કાળ અત્યંત દુર્લભ છે. તથા યથાશક્તિ સર્વોત્કૃષ્ટ અલંકાર વગેરે માતા પિતા વગેરે ગુરુવર્ગને વાપરવા માટે આપવા. આ બધા ગુરુપૂજનના પ્રકાર છે.(૧૨/૪)
... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १ मुद्रितप्रतौ 'बाधन्ते' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org